उदाहरणालंकारः - लक्षण २
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यथा वा-
‘ उपकारमेव कुरुते विपद्नत: सद्गुणो नितराम् । मूर्च्छा गतो मृतो वा निदर्शनं पारदोऽत्र रस: ॥ ’
दृष्टान्तो वा । इवादिशब्दप्रयोगे सामान्यार्थप्राधान्यं वाक्यैक्यम्,
निदर्शनादिशब्दप्रयोगे तु विशेषप्राधान्यं वाक्यभेदश्चेति विशेष: । तत्र तावत् ‘ अमितगुण:-’ इति पद्ये क्तियाप्रधानमाख्यातमिति नयेऽमितगुण-पदार्थकर्तृकमेकदोषहेतुकं निन्दाविषयीभवनं निखिलरसायनराजलशुनकर्तृ-कोग्रगन्धहेतुकनिन्दाविषयीभवनावयवकमिति धी: । प्रथमान्तविशेष्यक-
बोधवादिनां तूग्रगन्धहेतुकनिन्दाविषयीभवनाश्रयतादृशलशुनावयवकस्ता दृशपदार्थ एकदोषहेतुकनिन्दाविषयीभवनाश्रय इति । तत्रापि विशेषवाक्यार्थे क्तियान्वयो मृग्यते हेत्वन्तरान्वयार्थम् । अन्यथा तादृशलशुनावयवके तादृशपदार्थ एव क्तियान्वये नोपपति: स्यात् । एवं यथाशब्दस्थलेऽपि । उपकारमेवेत्यत्र तु विपद्नताभिन्न: सद्गुण उपकारानुकूलकृतिमानिति पूर्व-वाक्यार्थ:, अत्रास्मिन्नर्थे मूर्च्छां गतो मृतो वा पारदो निदर्शनमेकदेश
इत्युत्तरवाक्यार्थे गुण इति केषांचित् । इतरेषां तु तादृशकर्तृका तादृशक्तियेति पूर्ववाक्यार्थे तादृश: पारद एकदेश इति । प्रधानावयवस्येव गुणावयवस्यापि विशिष्टार्थावयवत्वात्, घटमानयेत्यत्र नीलघटवत् ।
‘ अर्थिभिश्छिद्यमानोऽपि स मुनिर्न व्यकम्पत । विनाशेऽप्युन्नत: स्थैर्य न जहाति द्रुमो यथा ॥’
अत्र दधीच्यालम्बनायां तदीयलोकोत्तरचरितस्मरणोद्दीपितायामेतत्पद्य प्रयोगानुभावितायामेतत्पद्यनिर्मातृगतायां रतौ प्रधानीभूतायामर्थ्यालम्बन-स्तत्कृतयाञ्चाश्रवणोद्दीपितो गात्रच्छेदाभ्यनुज्ञानानुभावितो धृत्या संचारि-भावेन पोषितो मुनिगत उत्साहो गुण: । तत्र चाध्यर्धतृतीयचरणगत-स्यार्थान्तरन्यासस्योत्कर्षकतया स्थितस्य विवेचनद्वारालंकरणं चतुर्थचरण-शकलगतभुदाहरणम् ।
एवमेव-
‘ अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलेपि जातम् । एको हि दोषो गुणसंनिपाते निमज्जतीन्दो: किरणेष्विवाड्क: ॥’
इति कालिदासपद्येऽपि बोध्यम् । अस्मिंश्चालंकारेऽवयवावयविभावबो-धकस्येवशब्दादे: प्रयोग:, सामान्यविशेषयोरेकरूपविधेयान्वयश्चार्थान्तर-न्यासभेदाद्वैलक्षण्याधायक इति तत्प्रकरणे निपुणतरमुपपादयिष्याम: ।
प्राञ्चस्तु “ नायमलंकारोऽतिरिक्त: । उपमयैव गतार्थत्वात् । न च सामान्यविशेषयो: सादृश्यानुल्लासात्कथमुपमेति वाच्यम् । ‘ निर्विशेषं न
सामान्यं-’ इति सामान्यस्य यक्तिंचिद्विशेषं विना प्रकृतत्वायोगात्तादृशवि-शेषमादाय विशेषान्तरस्य सादृश्योल्लासे बाधकाभावादिवादिभिरामुखे प्रतीयमानस्यापि सामान्यविशेषभावस्य परिणामे सादृश्य एव विश्रान्ते: ॥”
इत्यप्याहु: ॥
इति रसगंगाधर उदाहरणप्रकरणम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP