तुल्ययोगिता अलंकारः - लक्षण ३
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
इत्यादिना तुल्ययोगिताया: प्रकारान्तरं यत्कुवलयानन्दकृता लक्षित-मुदाह्लतं च तत्परास्तम् । अस्या अपि ‘ वर्ण्यानामितरेषां वा धर्मैक्यं तुल्य-
योगिता । ’ इति पूर्वलक्षणाक्तान्तत्वात् । एकानुपूर्वीबोधितवस्तुकर्मकदान-पात्रत्वस्य, परम्परया तादृशशब्दस्य, प्रागुक्तमार्गेणार्थस्य, वा धर्मस्यैक्यात् ।
‘ यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याद्यै: सर्वस्य कटुरेव स: ॥ ’
इत्यत्रापि कटुत्वविशिष्टस्य निम्बस्यैव परम्परया छेदकसेचकपूजक-
धर्मत्वसंभवात् । न चात्र वृत्तिनियामकसंबन्धेन धर्मिवृत्तित्वं विवक्षितं धर्मस्य, वक्ष्यमाणकारकदीपकादावव्याप्त्यापत्ते: ।
अथ चन्द्र इव सुन्दरं मुखमित्याद्युपमायां चन्द्रमुखयोरेकधर्मान्वया-दतिव्याप्ति: । न चात्र प्रकृतानामेवाप्रकृतानामेवेत्युक्तत्वान्न तथेति वाच्यम् । प्रागुक्ते ‘ प्रिये विषादं-’ इति पद्ये ‘ जगाल मानो ह्लदयादभुष्या विलोचना-
भ्यामिव वारिधारा । ’ इत्युत्तरार्धे कृते प्रकृतयोर्मानवारिधारयोरुपमायां तथाप्यतिव्याप्ते: । चन्द्र इव सुन्दरं मुखमित्यत्रापि वक्ष्यमाणदीपकलक्षणा-तिव्याप्तेश्च । न चौपम्यस्य गम्यत्वे सतीत्यपि विशेषणीयमिति वाच्यम् ।
‘ चन्द्रांशुनिर्मलं वारि चन्द्रो हंससमद्युति: । हंसास्तु शरदि स्मेरपुण्डरीकमनोरमा: ॥’
इत्यत्र वाचकाभावाद्नम्योपमायां तथाप्यतिप्रसड्रात् । यदि चात्र न व्यड्रया
उपमा, किं तु समासस्य वाच्या, पूर्वपदस्य लक्ष्या चेति सूक्ष्ममीक्ष्यते, तथापि ‘ हंसास्तु मानसभुवश्चन्द्रा एव न संशय: ’ इत्यादिरूपकादि-ष्वतिप्रसड्र: । न ह्यत्रापि चन्द्रादिसादृश्यविशिष्टे चन्द्रादिपदानां लाक्षणिकत्वादुपमा लक्ष्यैवेति शक्यते वक्तुम् । रूपके लक्षणा नास्तीति प्रागेव
प्रतिपादनात् इति चेत्, न । यत्र यथोक्तानां धर्मिणां यथोक्तधर्मान्वय एव चमत्कारी, तत्र तुल्ययोगिता, दीपकं वा । यत्र तादृशधर्मान्वयप्रयुक्तं सादृश्यमभेदो वा, तत्रोपमारूपकादिकमेवालंकारताप्रयोजकम् । सुन्दरत्वे सत्युपस्कारकत्वमित्यसकृदावेदनात् । अन्यथा सादृश्यस्यात्र प्रत्ययात्तदादायोपमाव्यवहारस्याप्यापत्तेरिति दिक् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP