विनोक्ति अलंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अलंकारभाष्यकारस्तु ‘ नित्यसंबन्धानामसंबन्धवचनं विनोक्ति: ’ इत्याह । तस्य मते तु नैतान्युदाहरणानि । इदं तूदाहरणम्‍_
मृणालमन्दानिलचन्दनानामुशीरशैवालकुशेशयानाम्‍ । वियोगदूरीकृतचेतनाया विनैव शैत्यं भवति प्रतीति: ॥ ’
अत्र शैत्यस्याविनाभावेऽपि विनाभावो निबद्ध: ।
यथा वा-
‘ शैत्यं विना न चन्द्रश्रीर्थ दीप: प्रभया विना । न सौगन्ध्यं विना भाति मालतीकुसुमोत्कर: ॥ ’
अलंकारान्तरसमालिड्रनानिर्भूतमेवास्या ह्लद्यत्वम्‍ , न स्वत: । तेनालंकारान्तरत्वमपि शिथिलमेवेत्यपि वदन्ति ।
अथास्या ध्वनि:-
यथा-
‘ विशालाभ्यामाभ्यां किमिह नयनाभ्यां फलमसौ न याभ्यामालीढा परमरमणीया तव तनु: । अयं तु न्यड्कार: श्रवणयुगलस्य त्रिपथगे यदन्तर्नायातस्तव लहरिलीलाकलकल: ॥ ’
अत्र त्वद्दर्शनं विना नयनयो: , त्वल्लहरिकोलाहलश्रवणं विना श्रवणोश्चारमणीयत्वं फलप्रश्र-धिक्काराभ्यां व्यज्यते । तस्य च भाव-
ध्वन्यनुग्राहकत्वेऽपि ध्वनिव्यपदेश्यत्वमव्याहतम्‍ । अन्यथानुग्राहकत्व-लक्षणसंकरोच्छेदापत्ते: । एवं च-
‘ निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम्‍ । उत्पत्तिरिन्दोरपि निष्फलैव कृता विनिद्रा नलिनी न येन ॥ ’
इति कस्यचित्कवे: पद्यं विनोक्तिध्वनिरेव । परंतु परस्परविनोक्तिवशा-द्वैलक्षण्यशालि ।

इति रसगड्राधरे विनोक्तिप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP