परिकर अलंकारः - लक्षण २
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
यथा वा-
मदकामविमोहमत्सरा रिपवस्त्वत्पुर एव तावकम् । धृतशार्ड्रगदारिनन्दक प्रतिकर्षन्ति कथ्म न बीक्षसे ॥ ’
अत्राप्युपेक्षानौचित्यस्य तावकशब्दप्रतिपादितेन स्वामिभृत्यभावेनैव
निष्पन्नशरीरस्य प्रकर्षकं धृतशार्ड्रेत्यादिविशेषणममोघशस्त्रास्त्रसंपन्नस्य समक्षमेव रिपुभि: कृष्यमाणं दासमुपेक्षमाणस्याकीर्तिर्भवित्री तवेत्याकूत-गर्भम् । ननु निष्प्रयोजनविशेषणोपादानेऽपुष्टार्थदोषस्योक्तत्वात्सप्रयोजन-विशेषणं दोषाभावमात्रं कष्टत्वाद्यभाववद्भवितुमर्हति, न त्वलंकार इति । अत्र विमर्शिनीकारादय आहु:-‘ विशेषणानां बहुत्वमत्र विवक्षितम् ।
साभिप्रायविशेषणगतबहुत्वकृत एव चात्र वैचित्र्यातिशय: । एकविशेषणं तु दोषाभावमात्रस्यावकाश: ’ इति । तदसत् । विशेषणानेकत्वं हि व्यड्रया-धिक्याधायकत्वाद्वैचित्र्यविशेषाधायकमस्तु नाम, न तु प्रकृतालंकारशरी-रमेव तदिति शक्यं वक्तुम् । वीचिक्षालितकालियाहितपदे इति प्रागुक्ते एकस्यैव विशेषणस्य चमत्कारिताया अनपह्लवनीयत्वात् ।
‘ अयि लावण्यजलाशय तस्या हा हन्त मीननयनाया: । दूरस्थे त्वयि किं वा कथयामो विस्तरेणालम् ॥ ’
अत्रैकैकविशेषणमात्रेणैव सकलवाक्यार्थसंजीवनाच्च ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP