अक्षेप अलंकारः - लक्षण ६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इति निर्युक्तिकं वदन्नलंकारसर्वस्वकृत्परास्त: । नह्याभास-रूप एव निषेध आक्षेप इत्यस्ति वेदस्याज्ञा । नापि प्राचामाचार्याणाम्‍ । न चापि युक्ति: । येन ध्वनिकारोक्तमुपेक्ष्य त्वदुक्तं श्रद्दधीमहि । प्रत्युत वैपरीत्यमेवोचितम्‍ । ध्वनिकृतामालंकारिकसरणिव्यवस्थापकत्वात्‍ । न-त
ह्यास्मिञ्शास्त्रे आक्षेपादिशब्दसंकेतग्राहकं प्रमाणान्तरमस्ति, ऋते प्राचीन-वचनेभ्य: । अन्यथा सकलविपर्यासापत्ते: । यत्तु
‘ नरेन्द्रमौले न वयं राजसंदेशहारिण: । जगत्कुटुम्बिनस्तेऽद्य न शत्रु: कश्चिदीक्ष्यते ॥ ’
इति पद्यमलंकारसर्वस्वकारमतेनोदाह्लत्येत्थमुक्तं कुवलयानन्दकृता-‘ अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निशेधो‍ऽनुपपन्न: संधिकालो-चितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभावेनावलोकनीय: किंतु सर्वे‍ऽपि राजानो भृत्यभावे-न संरक्षणीया इति विशेषमाक्षिपति ’ इति । तन्न । त्वदुक्तम्य विशेषस्य निषेधाव्यड्रयत्वात्‍ । नहि न वयं राजसंदेशहारिण इत्युक्ते तव न
कश्चिदपि शत्रुभावेनावलोकनीय: किं तु सर्वेऽपि राजानो भृत्यभावेन संरक्षणीया इति विशेषोऽवगम्यते । अवगम्यते च जगत्कुटुम्बिन इत्याद्युत्त-रार्धे प्रयुक्ते । यो हि निषेधमात्रसामर्थ्याक्षिप्तो विशेषस्तं निषेध आक्षि-पतीति युक्तं वक्तुम्‍, न तु परकीयं विशेषम्‍ । तथा हि राजसंदेशहारिणा प्रयुक्ते न वयं राजसंदेशहारिण इति वाक्ये स्वस्मिन्खनिषेधस्य बाधाद्राजसं-देशहारिपदेन लक्षणया राजसंदेशहारिनिष्ठकैतववचनप्रयोक्तृत्वादिधर्मवन्त उपस्थाप्यन्ते । प्रयोजनं च तन्निषेधे सति स्वगतस्य सत्यवक्तृत्वादे: , स्व वचनगतस्य सत्यत्वादेर्वा प्रत्यय: । अयमेव च विशेषस्याक्षेप: । एवं स्थिते किमुच्यते तव न कश्चिदपि शत्रुभावेनेत्यादि । यदि तु पूर्वोक्तादेव बाधा-द्राजपदस्य शत्रुलक्षणया न वयं शत्रुसंदेशहारिण इति प्राप्तेनार्थेनास्मत्‍
स्वामिन: शत्रव एव न भवन्ति किं तु भृत्यभावेन पालनीया इति विशेषो-ऽवगम्यत इत्युच्यते, तदा तृतीयकक्ष्यारूढो नास्मत्स्वामिन इति निषेध आक्षेप: स्यात्‍ , न तदुत्थापकस्त्वदुक्तो यथाश्रुतनिषेध:, यदि तु परम्परया यथाकथंचिद्विशेषोत्थापकोऽप्याक्षेप इत्युच्यते, तथापि ‘ संधिकालेचित-कैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्‍ ’ इत्यादेस्त्वद्वचनस्यासंगति-रेव । नहि यथार्थवादित्वेन केवलेन त्वदुक्तो विशेष आक्षेप्तुं शक्यते, किं तूत्तरार्धेनाक्षिप्त: परिपोष्टुम्‍ । तस्माद्यत्र त्वया निषेधस्य पर्यवसानमुक्तं स एव विशेषस्तस्याक्षेष्य:, न तु विशेषान्तरम् । अत एव “-‘बालक नाहं दूती -’  इत्यत्र दूतीत्वस्य वस्तुनो निषेधेन वस्तुवादित्वादिर्विशेषो व्यज्यते”  इत्यलंकारसर्वस्वकृतोक्तं संगच्छते ।


इति रसगंगाधरे आक्षेपप्रकरणम् ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP