विशेषोक्ति अलंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


लोके ह्यसंनिकर्षस्तृष्णाकारणम्‍ । तदभावे संनिकर्षेऽपि तृष्णोपनि
बद्धा । तथा संनिकर्षस्तृप्तिकारणम्‍ । तस्मिन्सत्यपि तृप्त्यभावो बोधित: । परंतु कारणाभाव-कार्याभावयोर्न प्रागुक्तप्रकारेण प्रतिपादनमित्यार्थत्वमेव तदुभयसंशयसंकरस्य । अभुमेव चार्थं मनसिकृत्य मम्भटभट्टै: ‘ य: कौमा-रहर: ’ इति पद्यमुदाह्लत्योक्तम्‍-‘ अत्र स्फुटो न कश्चिदलंकार: ’ इति । वामनस्तु-‘ एकगुणहानिकल्पनायां साम्यदाढर्य विशेषोक्ति: ’ इत्याह ।
उदाजहार च ‘ द्यूतं हि नाम पुरुषस्यासिंहासनं राज्यम्‍ ’ इति । अत्र हि द्यूते राज्यं तादात्म्येनारोप्यते । तत्र सिंहासनरहितं हि द्यूतं सिंहासन-सहितराज्यतादात्म्यं कथं वहेदित्यारोपोन्मूलकयुक्तिनिरासायारोप्यमाणे राज्येऽपि सिंहासनराहित्यं कल्प्यते । तेन दृढारोपं रूपकमेवेदम्‍, न विशेषोक्ति: । एवं च-
‘ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरि: । अभाललोचन: शुंभुर्भगवान्बादरायण: ॥ ’
इति पौराणपद्येऽपि रूपकमेव । तथा गुणाधिक्यकल्पनायामपि तदेव । यथा-‘ धर्मो वपुष्मान्भुवि कार्तवीर्य: ’ इत्यादौ । एतेन ‘ एकगुणहान्यु-
पचयादिकल्पनायां साम्यदार्ढ्य विशेषणम्‍ ’ इति विशेषालंकारं लक्षय-न्तो‍‍ऽपि प्रत्युक्ता: ।

इति रसगंगाधरे विशेषोक्तिप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP