असंगति अलंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अथासंगति:-
विरुद्धत्वेनापाततो भासमानं हेतुकार्ययोर्वैयधिकरण्यमसंगति: ॥
‘ स्पृशति त्वयि यदि चापं स्वापं प्रापन्न केऽपि नरपाला: । शोणे तु नयनकोणे को नेपालेन्द्र तव सुखं स्वपितु ॥ ’
अत्र चापस्पर्श-नयनशोणिम्नोर्हेत्वो: स्वापनाशरूपकार्यवैयधिकरण्ये-ऽतिप्रसड्रवारणाय विरुद्धेत्यादि । इह च विभिन्नदेशस्थयोरेव तयो:
कार्यप्रयोजकतया विरोधानवकाशात्‍ । ननु शोणिमाभिव्यक्तस्य रोषस्य कालिकसंबन्धेन हेतुत्वादस्तु नाम कार्यभिन्नदेशत्वम्‍ । चापस्पर्शस्य तु लीलया कृतस्य स्वरूपतो हेतुत्वाभावाज्‍ ज्ञानं स्वापनाशे हेतुत्वेनाभ्युप-गन्तव्यम्‍ । एवं च तस्य कथं वैयधिकरण्यमिति चेत्‍, न । प्रयोजक-स्यापि हेतुपदेनात्र ग्रहणाददोष: । प्रयोजकत्वं च चापस्पर्शस्य भ्रमात्मक-रोषानुमितिलिड्रत्वात्‍ ।
उदाहरणम्‍-
‘ अड्रै: सुकुमारतरै: सा कुसुमानां श्रियं हरति । प्रहरति हि कुसुमबाणो जगतीतलवर्तिनो यून: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP