विषमालंकाराः - लक्षण १
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
अननुरूपसंसर्गो विषमम् ॥
अनुरूपमिति योग्यतायामव्ययीभाव: । अनुरूपं यत्र न विद्यत इति विगृहीतेन बहुव्रीहिणा योग्यतारहितमुच्यते । योग्यता च युक्तमिदमिति
लैकिकव्यवहारगोचरता । संसर्गश्च तावहिऊयिध:-उत्पत्तिलक्षण: संयोगादिलक्षणश्च । तत्रोत्पत्तिलक्षणस्य संसर्गस्यायोग्यत्वं कारणात्स्व-गुणविलक्षणगुणकार्योत्पत्त्या । इष्टसाधनतया निश्चितात्कारणादनिष्ट-कार्योत्पत्तिभि: । संयोगादिलक्षणस्यापि संसर्गिणोरन्यतरगुणस्वरूपतिर-स्कार्यान्यतरगुणस्वरूपतया अयोग्यत्वम् । एवं चाननुरूपसंसर्गत्वेन सामान्ये-नोक्ता वक्ष्यमाणाश्च सर्वे प्रभेदा: संगृह्यन्ते । क्तमेणोदाहरणानि-
‘ अमृतलहरीचन्द्रज्योत्स्नारमावदनाम्बुजा-न्यधरितवतो निर्मर्यादप्रसादमहाम्बुधे: । उदभवदयं देव त्वत्त: कथं परमोल्बण-प्रलयदहनज्वालाजालालाकुलो महसां गण: ॥ ’
अत्र माधुर्यशैत्याह्लादकत्वप्रसादाद्यनेकगुणयुक्तात्कारणात्ताद्विरुद्धगुण-युक्तस्य प्रतापस्योत्पत्तिरित्यननुरूप: कार्यकारणभाव: । अभेदाध्यवसान-लक्षणेनातिशयेन समवायिकारणरूपतया स्थिते निमित्तकारणे समवेत-
कार्यरूपतया स्थिते निमित्तिकार्ये वा विषयांशमालम्ब्य स्फुरितो विरोधो विषय्यंशविमर्शोत्तरं निवर्तत इतीहाप्यभेदाध्यवसानस्यानुप्राणकत्वम् , तदुत्थापितविरोधाभासस्य च परिपोषकत्वम् । अयमेव चांशोऽत्र कविप्रतिभानिर्मितत्वादलंकारताबीज्म ।
इष्टसाधनतया ज्ञातात्कारणादनिष्टकार्योत्पत्तिभिरित्यत्रैकशेषघटित एकशेषो बोध्य: । न इष्टमनिष्तं अनर्थ: । तादृशकार्योत्पत्तिश्च । न इष्ट-कार्योत्पत्तिरनिष्टकार्योत्पत्ति: सा चेत्यनिष्टकार्योत्पत्ती । ते च अनिष्टकार्यो-त्पतिश्च अनिष्टकार्योत्पत्तय: ताभिरिति । अनेनेष्टकार्यानुत्पत्त्यनिष्ट-
कार्योत्पत्ती मिलिते एको भेद: । प्रत्येकं च भेदद्वयम् । इति त्रयो भेदा: संगृहीता भवन्ति । इष्टं च-स्वस्य किंचित्सुखसाधनवस्तुप्राप्तिर्दु:ख-साधनवस्तुनिवृत्तिश्च परस्य दु:खसाधनवस्तुप्रापणं सुखसाधननिवृत्ति-श्चेति चतुर्विधम् । तेनेष्टाप्राप्तिघटिते भेदद्वयेऽपि चातुर्विध्यम् । अनिष्टं च-स्वस्य दु:खसाधनवस्तुप्राप्ति:, परस्य सुखसाधनवस्तुप्राप्ति:, दु:खसाधनवस्तुनाशश्चेति त्रिविधम् । स्वस्येष्टाप्राप्तिस्तु गणितेति नानिष्टे गण्यते । तेनानिष्टप्राप्तिघटिते भेदद्वयेऽति त्रैविध्यम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP