द्वितीयाः पाद: - सूत्र १२
ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
उभयथापि न कर्मातस्तदभाव: ॥१२॥
उभयथापि न कर्मातस्तदभाव: ।
इदानीं परमाणुकारणवादं निराकरोति ।
स च वाद इत्थं समुत्तिष्ठाति ।
पटादीनि हि लोके सावयवाइ द्रव्याणि स्वानुगतैरेव संयोगसचिवैस्तन्त्वादिभिर्दव्यैरारभ्यमाणानि दृष्टानि ।
तत्सामान्येन यावत्किंचित्सावयवंतत्सर्वं स्वानुगतैरेव संयोगसचिवैस्तैस्तैर्दव्यैरारब्धमिति गम्यते ।
स चायमवयवावयविविभागो यतो निवर्तते सोऽपकर्षपर्यंन्तगत: परमाणु: ।
सर्वं चेदं जगाद्निरिसमुद्रादिकं सावयवं सावयवत्वाच्चाद्यन्तवत् ।
न चाकारणेन कार्येण भवितव्यमित्यत: परमाणवो जगत: कारणमिति कणभुगभिप्राय: ।
तानीमानि चत्वारि भूतानि भूम्युदकतेज: पवनाख्यानि सावयवानुपलभ्य चतुर्विधा: परमाणव: परिकल्प्यन्ते ।
कर्मणो निमित्तमभ्युपगम्येत तस्यासंभवान्नैवाणुप्वाद्यं कर्म स्यात् ।
न हि तस्यामवस्थायामात्मगुण: प्रयत्न: संभवति शरीराभावात् ।
शरीरप्रतिष्ठे हि मनस्यात्मन: संयोगे सत्यात्मगुण: प्रयत्नो जायते ।
एतेनाभिघाताद्यपि दृष्टं निमित्तं प्रत्याख्यातव्यम् ।
सर्गोत्तरकालं हि तत्सर्वं नाद्यस्य कर्मणो निमित्तं संभवति ।
अथादृष्टमाद्यस्य कर्मणो निमित्तमित्युच्येत तत्पुनरात्मसमवायि वा स्यादणुसमवायि वा ।
उभयथापि नादृष्टनिमित्तमणुषु कर्मावकल्पेतादृष्टस्याचेतनत्वात् ।
न हयचेतनं चेतनेनानधिष्ठितं स्वतन्त्रं प्रवर्तने प्रवर्तयति वेति साङ्ख्यप्रक्रियायामभिहितम ।
आत्मनश्चानुत्पन्नचैतन्यस्य तस्यामवस्थायामचेतनात्वात ।
आत्मसमवायित्वाभ्युपगमाच्च नादृष्टमणुषु कर्मणो निमित्तं स्यादसंबन्धात् ।
अदृष्टवता पुरुषेणास्त्यणूनां संबन्ध इति चेत्संबन्धसातत्यात्प्रवृत्तिसातत्यप्रसङ्गो नियामकान्तराभावात् ।
तदेवं नियतस्य कस्यचित्कर्मनिमित्तस्याभावान्नाणुष्वाद्यं कर्म स्यात् ।
कर्माभवात्तन्निबन्धन: संयोगो न स्यात् ।
संयोगाभावाच्च तन्निबन्धनं व्द्यणुकादिकार्यजातं न स्यात् ।
संयोगश्चाणोरण्वन्तरेण सर्वात्मना वा स्यादेकदेशेन वा ।
सर्वात्मना चेदुपचयानुपपत्तेरणुमात्रत्वप्रसङ्गो दृष्टविपर्ययप्रसङ्गश्च ।
प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगस्य दृष्टत्वात् ।
एकदेशेन चेत्सावयवत्वप्रसङ्ग: ।
परमाणूनां कल्पिता: प्रदेशा: स्युरिति चेत् ।
कल्पितानामवस्तुत्वादवस्त्वेव संयोग इति वस्तुन: कार्यस्यासमवायिकारणं न स्यात ।
असति चासमवायिकारणे व्द्यणुकादि कार्यद्रव्यं नोत्पद्येत ।
यथा चाइद्सर्गे निमित्ताआवात्संयोगोत्पत्त्यर्थं कर्म नाणूनां संभवत्येवं महाप्रलयेऽपि विभागोत्पत्त्यर्थं कर्म नैवाणूनां संभवेत् ।
न हि तत्रापि किंचिन्नियतं तन्निमित्तं दृष्टमस्ति ।
अदृष्टमपि भोगप्रसिद्धयर्थं न प्रलयप्रसिद्धयर्थमित्यतो निमित्ताभावान्न स्यादणूनां संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थं वा कर्म ।
अतश्च संयोगविभागाभावात्तदायत्तयो: सर्गप्रलययोरभाव: प्रसज्येत ।
तस्मादनुपपन्नोऽयं परमाणुकारणवाद: ॥१२॥
N/A
References : N/A
Last Updated : December 06, 2014
TOP