द्वितीयाः पाद: - सूत्र ३९
ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
अधिष्ठानानुपपत्तेक्ष ॥३९॥
अधिष्ठानानुपपत्तेश्च ।
इतश्चानुपपत्तिस्तार्किकपरिकल्पिपतस्येश्वरस्य ।
स हि परिकल्प्यमान: कुम्भकार इव मृदादीनि प्रधानान्यधिष्ठाय प्रवर्तयेत् ।
न चैवमुपपद्यते ।
न हयप्रत्यक्षं रूपादिहीनं च प्रधानमीश्वरस्याधिष्ठेयं संभवति मृदादिवैलक्षण्यात् ॥३९॥
N/A
References : N/A
Last Updated : December 07, 2014
TOP