प्रथम: पाद: - सूत्र १
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम् ॥१॥
तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम् ॥
द्वितीयेऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रम्हादर्शने परिहृत: ।
परपक्षाणां चानपेक्षत्वं प्रपञ्चतम् ।
श्रुतिविप्रतिषेधश्च परिहृत: ।
तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रम्हाणो जयन्त इत्युक्तम् ।
अथेदानीमुपकरणोपहितस्य जीवस्य संसारगतिप्रकारस्तदवस्थान्तराणि ब्रम्हासतत्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धि: सम्यग्दर्शनोपायविधिप्रभेदो मुक्तिफलानियमश्चेत्येतदर्थजातं तृतीयेऽध्याये चिन्तयिष्यते प्रसङ्गागतं च किमप्यन्यत् ।
तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेद: प्रदर्श्यते वैराग्यहेतो: ।
तस्माज्जुगुप्सेतेति चान्ते श्रवणात् ।
जीवो मुख्यप्राणसचिव: सेन्द्रिय: समनस्को विद्याकर्मपूर्वप्रज्ञापरिग्रह: पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् ।
अथैनमेते प्राणा अभिसमायन्तीत्येवमादेरन्यन्नवतरं कल्याणतरं रूपं कुरुत इत्येवमन्तात्संसारप्रकरणस्थाच्छब्दात् ।
धर्माधर्मफलोपभोगसंभवाच्च ।
स किं देहबीजैर्भूतसूक्ष्मैरसंपरिष्वक्तो गच्छत्याहोस्वित्संपरिष्वक्त इति चिन्त्यते ।
किं तावत्प्राप्तम् ।
असंपरिष्वक्त इति ।
कुत: । करणोपादानवद्भतोपादानस्याश्रुतत्वात् ।
स एतास्तेजोमात्रा: समभ्याददान इति हयत्र तेजोमात्राशब्देन करणानामुपादानं संकीर्तयति वाक्यशेषे चक्षुरादिसंकीर्तनात् ।
नैवं भूतमात्रोपादानसंकीर्तनमस्ति ।
सुलभाश्च सर्वत्र भूतमात्रा यत्रैव देह आरब्धव्यस्तत्रैव सन्ति ।
ततश्च तासां नयनं निष्प्रयोजनम् ।
तस्मादसंपरिष्वक्तो यातीति ।
एवं प्राप्ते पठत्याचार्य: - तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति ।
तदन्तरप्रतिपत्तौ देहाद्देहान्तरप्रतिपत्तौ देहबीजैतसूक्ष्मै: संपरिष्वक्तो रंहति गच्छतीत्यवगन्तव्यम् ।
कुत: । प्रभनिरूपण्याभ्यासम् ।
तथा हि प्रश्चो वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्तीति ।
निरूपणं च प्रतिवचनं द्युपर्जन्यपृथिवीपुरुपयोषित्सुपञ्चस्वग्निषु श्रद्धासोमवृष्टरेतोरूपा: पञ्चाहुतीर्दर्शयित्वेति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्तीत ।
तस्मादद्भि: परिवेष्टितो जीवो रंहति व्रजतीति गम्यते ।
नन्वन्या श्रुतिर्जलूलावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति तद्यथा तृणजलायुकेति ।
तत्राप्यप्प्रिवेष्टितस्यैव जीवस्य कर्मोपस्थापित प्रतिपत्तव्यदेहविषयभावनादीर्धीभावमात्रं जलूकयोपमीयत इत्यविरोध: ।
एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति या: पुरुषमतिप्रभवा: कल्पना व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति केवलस्यैव चात्मनो वृत्तिलाभस्तत्र भवतीन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थान उत्पद्यन्त मन एव वा केवलं भोगस्थानमभिप्रतिष्ठते जीव एव वोत्प्लुत्य देहाद्देहान्तरं प्रतिपुद्यते शुक इव वृक्षादवृक्षान्तरमित्येवमाद्यास्ता: सर्वा एवानादर्तव्या: श्रुति विरोधात् ॥१॥
N/A
References : N/A
Last Updated : December 19, 2014
TOP