तृतीयाः पाद: - सूत्र १७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अन्वयादिति चेत्स्यादवधारणात् ॥१७॥

अन्वयादिति चेत्स्यादवधारणात् । वाक्यान्वयदर्शनान्न परमात्मग्रहणमिति पुनर्यदुक्तं तत्परिहर्त  यमिति ।
अत्रोच्यते ।
स्यादवधारणादिति ।
भवेदुपपन्नं परमात्मन इह ग्रहणम् । कस्मात् ।
अवधारणात् । परमात्मग्रहणे हि प्रागुत्पत्तेरात्मैकत्वावधारणमाञ्जसमवकल्पते ।
अन्यथा हयनाञ्जसं तत्परिकल्प्येत ।
लोकसृष्टिवचनं तु श्रुत्यन्तरप्रसिद्धमहाभूतसृष्टयनन्तरमिति योययिष्यामि ।
यथा तत्तेजोऽसृजतेत्येतच्छ्रुत्यन्तरप्रसिद्धवियद्वायुसृष्टयनन्तरंमित्ययूजमेवमिहापि ।
श्रुत्यन्तरप्रसिद्धो हि समानविषयो विशेष: श्रुत्यन्तरेषूपसंहर्तव्यो भवति ।
योऽप्ययं व्यापारविशेशनुगमस्ताभ्यो गामानयदित्यादि:  सोऽपि विवक्षितार्थावधारणानुगुण्येनैव ग्रहीतव्य: ।
न हययं प्रकल: कथाप्रबन्धो विवक्षित इति शक्यते वक्तुम् ।
तत्प्रतिपत्तौ पुरुषार्थाभावात् ।
ब्रम्हात्मत्वं त्विह विवक्षितम् ।
तथा हयम्भ: प्रभृतीनं लोकानां लोकपालानां चारन्यादीनां सृष्टिं शिष्ट्वा करणानि करणायतनं च शरीरमुपदिश्य स एव स्रष्टा कथं न्विदं मद्दते स्यादिति वीक्ष्येदं शरीरं प्रविएशेति दर्शंयति ।
स एवमेव सीमानं विदार्यैतया द्वारा प्रापद्यतेति ।
पुनश्च यदि वाचाभिव्याह्रतं यदि प्राणेनाभिप्राणितमित्येवमादिना करणव्यापारविवेद्चनपूर्वकमथ कोऽहमिति वीक्ष्य स एवमेव पुरुषं ब्रम्हा ततममपश्यदिति ब्रम्हात्मत्वदर्शनमवधारयति ।
तथोपरिष्टात् - एष ब्रम्हौष इन्द्र तियादिना समस्तं भेदजातं सह महाभूतैरनुक्रम्य सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं प्रज्ञनेत्रो लोक: प्रज्ञा प्रतिष्था प्रज्ञान ब्रम्होति ब्रम्हात्मत्वदर्शनमेवावधारयति ।
तस्मादिहात्मगृहीतिरित्यनपवदम् ।
अपरा योजना ।
आत्मगृहीतिरितरवदुत्तरात् ।
वाजसनेयके कतम आत्मेति योऽयं विज्ञानमय: प्राणेषु ह्रद्यन्तर्ज्योति:  पुरुष इत्यात्मशब्देनोपक्रम्य तस्यैव सर्वसङ्गविमुक्तत्वप्रतिपादनेन ब्रम्हात्मतामवधारयति तथा हयुपसंहरति स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रम्होति ।
छान्दोग्ये तु - सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमित्यन्तरेणैवात्मशब्दमुपक्रम्योदर्के स आत्मा तत्त्वमसीति तादात्म्यमुपदिशति ।
तत्र संशय: ।
तुल्यार्थत्वम किमनयोरान्नानयो: स्यादतुल्यार्थत्वं वेति ।
अतुल्यार्थत्वमिति तावत्प्राप्तमतुल्यत्वादान्नानयो: ।
न हयान्नानवैषम्ये सत्यर्थसाम्यं युक्तं प्रतिपत्तुमान्नानतन्त्रत्वादर्थपरिग्रहस्य ।
वाजसनेयके चात्मशब्दोपक्रमादात्मतत्त्वोपदेश इति गम्यते ।
छान्दोग्ये तूपक्रमविपर्ययादुपदेशविपर्यय: ।
ननु च छन्दोगानामप्यस्त्युदर्के तादात्म्योपदेस इत्युक्तम् ।
सत्यमुक्तमुपक्रमतन्त्रत्वादुपसंहारस्य तादात्म्यसंपति: सेति मन्यते ।
तथा प्राप्तेऽभिधीयते ।
आत्मगृहीति: सदेव सोम्येदमग्र आसीदित्यत्र छन्दोगानामपि भवितुमर्हतीरवत् ।
यथा कतम आत्मेत्यत्र वाजसनेयिनामात्मगृहीतिस्तथैव ।
कस्मातू ।
उत्तरात्तादात्म्योपदेशात् । अन्वयादिति चेत् ।
स्यादवधारणात् ।
वदुक्तमुपक्रमान्वयादुपक्रमे चात्मशब्दश्रवणाभावात् ।
नात्मगृहीतिरिति तस्य क: परिहार इति चेत् ।
सोऽभिधीयते स्यादवधारणादिति ।
भवेदुपपन्नेहात्मगृहीतिरव्धारणात् ।
तथा हि - येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातमिति ।
एकविज्ञानेन सर्वविज्ञानमवधार्य तत्सम्पिपादयिषया सदेवेत्याह ।
तच्चात्मगृहीतौ सत्यां संपद्यते ।
अन्यथा हि योऽयं मुख्य आत्मा स न विज्ञात इति नैव सर्वविज्ञानं संपद्यते ।
तथा प्रागुत्पत्तेरेकत्वावधारणं जीवस्य चात्मशब्देन परामर्श: स्वापावस्थायां च तत्स्वभावसंपत्तिकथनं परिचोदनापूर्वकं च पुन: पुनस्तत्त्वमसीत्यवधारणमिति च सर्वमेतत्तादात्म्यप्रतिपादनायामेवावकल्पते न तादात्म्यसंपादनायाम् ।
न चात्रोपक्रमन्त्रतोपन्यासो न्याय: ।
न हयुपक्रमे आत्मत्वसङकीर्तनमनात्मत्वसङ्कीर्तनं वास्ति ।
सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते विशेषाकाङ्क्षित्वात्सामान्यस्य ।
सच्छब्दार्थोऽपि च पर्यालोच्यमानो न मुख्यादात्मनोऽन्य: संभवति ।
अतोऽन्यस्य वस्तुजातस्यारम्भणशब्दादिभ्योऽनृतत्वोपपत्ते: ।
आन्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति ।
आहर पात्रं पात्रमाहरेत्यादिष्वर्थसाम्येऽपि तद्दर्शनात् ।
तस्मादेवंजातीयकेषौ वाक्येषु प्रतिपादनप्रकारभेदेऽपि प्रतिपाद्यार्थाभेद इति सिद्धम् ॥१७॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP