प्रथमः पादः - सूत्र ५
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
ब्रम्हादृष्टिरुत्कर्षात् ॥५॥
ब्रम्हाद्दष्टिरुत्कर्षात् ॥
तेष्वेवोदाहरणोष्वन्य: संशय: किमादित्यादिदृष्टयो ब्रम्हाण्यध्यसितव्या: किं वा ब्रम्हादृष्टिरादित्यादिष्विति ।
कुत: संशय: ।
सामानाधिकरण्ये कारणानवधारणात् ।
अत्र हि ब्रम्हाशाब्दस्यादित्यादिशब्दै: सामानाधिकरण्यमुपलभ्यते ।
आदित्यो ब्रम्हा प्राणो ब्रम्हा विद्युदब्रम्होत्यादिसमानविभक्तिनिर्देशात् ।
न चात्राञ्चसं सामानाधिकरण्यमवकल्पते ।
अर्थान्तरवचनत्वादब्रम्हादित्यादिशब्दानाम् ।
न हि भवति गौरश्च इति सामानाधिकरण्यम् ।
ननु प्रकृतिविकारबावादब्रम्हादित्यादीनां मृच्छरावादिवत्सामानाधिकरण्यं स्यात् ।
नेत्युच्यते ।
विक्रारप्रविलयो हयेवं प्रकृति सामानाधिकरण्यात्स्यात् ।
ततश्च प्रतीकाभावप्रसङ्गमवोचाम ।
परमात्मवाक्यं चेदं तदानीं स्यात् ।
ततश्चोपासनाधिकारो बाध्येत: ।
परिमितविकारोपादानं च व्यर्थम् ।
तस्मादब्रम्हाणोऽग्निर्वैश्वानर इत्यादिवदन्यत्रान्यद्दष्टयध्यासे सति क्व किं दृष्टिरध्यस्यतामिति संशय: ।
तत्रानियमो नियमकारिण: शास्त्रस्याभावादित्येवं प्राप्तम् ।
अथ वाऽऽदित्यादिद्दष्टाय एव ब्रम्हाणि कर्तव्या इत्येवं प्राप्तम् ।
एवं हयादित्यादिद्दष्टिभिर्ब्रम्होपासनं भवति ब्रम्होपासनं च फलवदिति शास्त्रमर्यादा ।
तस्मान्न ब्रम्हाद्दष्टिरादित्यादिष्विति ।
एवं प्रप्ति ब्रम: ।
ब्रम्हाद्दष्टिरेवादित्यादिषु स्त्यादिति । कस्मात् । उत्कर्षात् ।
एवमुत्कर्षेणादित्यादयो द्दष्टा भवन्त्युत्कृष्टाद्दष्टेस्तेष्वध्यासात् ।
तथा च लौकिको न्यायोऽनुगतो भवति ।
उत्कृष्टद्दष्टिर्हि निकृष्टेऽध्यसितव्योति लौकिको न्याय: ।
यथा राजद्दष्टि: क्षत्तरि ।
स चानुसर्तव्य: ।
विपर्यये प्रत्यवायप्रसङ्गात् ।
न हि क्षत्तृद्दष्टिपरिगृहीतो राजा निकर्ष नीयमान: श्रेयसे स्यात् ।
ननु शास्त्रप्रामाण्यादनाशङ्कनीयोऽत्र प्रत्यवायप्रसङ्गो न च लौकिकेन न्यायेन शास्त्रीया द्दष्टिर्नि यन्तुं युक्तेति ।
अत्रोच्यते । निर्धारिते शास्त्रार्थ एतदेवं स्यात् ।
संदिग्धे तु तस्मिंस्तन्निर्णयं प्रति लौकिकोऽपि न्याय आश्रीयमानो न विरुध्यते ।
तेन चोत्कृष्टद्दष्टयध्यासे शास्त्रार्थेऽवधार्यमाणे निकृष्टद्दष्टिमध्यस्यन्प्रत्यवेयादिति श्लिष्यते ।
प्राथम्याच्चादित्यादिशब्दानां मुख्यार्थत्वमविरोधाद्भहीतव्यम् ।
तै: स्वार्थवृत्तिभिरवरुद्धायां बुद्धौ पश्चादवतरतो ब्रम्हाशब्दस्य मुक्यया वृत्त्या सामानाधिकरण्यासंभवादब्रम्हादृष्टिविधानार्थतैवावतिष्टते ।
इतिपरत्वादपि ब्रम्हाशब्दस्यैष एवार्थो न्याय्य: ।
तथा हि ब्रम्होत्यादेशो ब्रम्होत्युपासीत ब्रम्होत्युपास्त इति च सर्वत्रेतिपरं ब्रम्हाशब्दमुच्चारयति शुद्धांस्त्वादित्यादिशब्दान् ।
ततश्च यथा शुक्तिकां रजतमिति प्रत्येतीत्यत्र शुक्तिवचन एव शुक्तिकाशाब्दो रजतशब्दस्तु रजतप्रतीतिलक्षणार्थ: ।
प्रत्येत्येव हि केवलं रजतमिति न तु तत्र रजमस्ति ।
एवमत्राप्यादित्यादित्यादीन्ब्रम्होति प्रतीयादिति गम्यते ।
वाक्यशेषोऽपि च द्वितीयानिर्देशेनादित्यादीनेवोपास्तिक्रियया व्याप्यमानान्दर्शयति स य एतदेवं विद्वानादित्यं ब्रम्होत्युपास्ते यो वाचं ब्रम्होत्युपास्ते य: संकल्पं ब्रम्होत्युपास्त इति च ।
यत्तूक्तं ब्रम्होपासनमेवात्रादरणीयंफलवत्त्वायेति तदयुक्तम् ।
उक्तेन न्यायेनादित्यादीनामेवोपास्त्यत्वावगमात् ।
फलं त्वतिथ्याद्युपासन इत्वादित्याद्युपासनेऽपि ब्रम्हौव दात्यति सर्वाध्यक्षत्वात् ।
वर्णितं चैतत्फलमत उपपत्तेरित्यत्र ।
ईदृशं चात्र ब्रम्हाण उपास्यत्वं यत्प्रतीकेषु तद्दष्टयध्यारोपणं प्रतिमादिष्विव विष्ण्वादीनाम् ॥५॥
N/A
References : N/A
Last Updated : December 22, 2014
TOP