प्रथमः पादः - सूत्र १३
ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्वयपदेशात् ॥१३॥
तदधिगम उत्तरपूर्वाघयोरश्चेषविनाशौ तद्वयपदेशात् ॥
गतस्तृतीयशेष: ।
अथेदानीं ब्रम्हाविद्याफलं प्रति चिन्ता प्रतायते ।
ब्रम्हाधिगमे सति तद्विपरीतफलं दुरितं क्षीयते न क्षीयते वेति संशय: ।
किं तावत्प्राप्तम् ।
फलार्थत्वात्कर्मंण: फलमदत्त्वा न संभाब्यते क्षय: ।
फलदायिनी हयस्य शक्ति: श्रुत्या समधिगता ।
यदि तदन्तरेणैव फलोपभोगमपवृज्येत श्रुति: कदर्थिता स्यात् ।
स्मरन्ति च - न हि कर्म भीयत इति ।
नन्वेवं सति प्रायश्चित्तोपदेशोऽनर्थक: प्राप्नोति ।
नैष दोष: ।
प्रायश्चित्तानां नैमित्तिकत्वोपपत्तेर्गृहदाहेष्टयादिवत् ।
अपि च प्रायश्चित्तानां दोषसंयोगेन विधानाद्भवेदपि दोषक्षपणार्थता न त्वेनं ब्रम्हाविद्याया विधानमस्ति ।
नन्वनभ्युपगम्यमाने ब्रम्हाविर: कर्मक्षये तत्फलस्यावश्यंभोक्तव्यत्वादनिर्मोक्ष: स्यात् ।
नेत्युच्यते ।
देशकालनिमित्तापेक्षो मोक्ष: कर्मफलवद्बविष्यति ।
तासु च वाक्यशेष ऐश्वर्यप्राप्ति: पापनिवृत्तिश्च विद्यावत उच्यते तयोश्चाविवक्षाकारणं नास्तीत्यत: पाप्मप्रहाणपूर्वकैश्वर्यप्राप्तिस्तासां फलमिति निश्चीयते ।
निर्गुणायां तु विद्यायां नासि तथाप्य कर्त्रात्मत्वबोधात्कर्मप्रदाहसिद्धि: ।
अश्लेष इति चागामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रम्हाविदिति दर्शयति ।
अतिक्रान्तेषु तु यद्यपि मिथ्याज्ञानात्कर्तृत्वं प्रतिद्पेद इव तथापि विद्यासमर्थ्यान्मिथ्याज्ञाननिमृत्तेस्तान्यपि प्रलीयन्त इयाह विनाश इति ।
पूवंसिद्धक्रर्तृत्वभोक्वृत्वविपरीतं हि त्रिष्वपि कालेष्वकर्तृत्वाभोक्तृत्वस्वरूपं ब्रम्हाहमस्मि नेत: पूर्वमपि कतां भोक्ता वाऽहमासं नेदानीं नापि भविष्यत्काल इति ब्रम्हाविदवगच्छति ।
एवमेव च मोक्ष उपपद्यते ।
अन्यथा हयनादिकालप्रवृत्तानां कर्मणां क्षयाभावे मोक्षाभाव: स्यात् ।
न च देशकालनिमित्तापेक्षो मोक्ष: कर्मफलवद्भवितुमर्हंति ।
अनित्यत्वप्रसङ्गात् ।
परोक्षत्वानुपपत्तेश्च ज्ञानफलस्य ।
तस्मादब्रम्हाधिगमे दुरितक्षय इति स्थितम् ॥१३॥
N/A
References : N/A
Last Updated : December 22, 2014
TOP