प्रथम पटल - लयप्रकरण ५

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


शब्द: स्पर्शश्च रूपं च रसो गन्धस्तथैव च ।
एतत्पंचगुणा पृथ्वी कल्पकै: कल्प्यतेsधुना ॥८१॥

चक्षुषा गृह्यते रूपं गन्धो घ्राणेन गृह्यते ॥८२॥
रसो रसनया स्पर्शस्त्वचा संगृह्यते परम् ।
श्रोत्रेण गृह्यते शब्दो नियतं भाति नान्यथा ॥८३॥

चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम् ।
अस्ति चेत्कल्पनेयं स्यान्नास्ति चेदस्ति चिन्मयम् ॥८४॥

पृथ्वी शीर्णा जले मग्ना जलं मग्नं च तेजसि ।
लीनं वायौ तथा तेजो व्योम्नि वातो लयं ययौ ।
अविद्यायां महाकाशो लीयते परमे पदे ॥८५॥

विक्षेपावरणाशक्तिर्दुरन्ता दु:खरुपिणी ।
जडरुपा महामाया रज:सत्त्वतमोगुणा ॥८६॥

सा मायावरणाशक्त्यावृता विज्ञानरूपिणी ।
दर्शयेज्जगदाकारं तं विक्षेपस्वभावत: ॥८७॥

तमोगुणात्मिका विद्या या सा दुर्गा भवेत्स्वयम् ।
ईश्वरं तदुपहितं चैतन्यं तद्भूद्ध्रुवम् ॥८८॥

सत्त्वाधिका च या विद्या लक्ष्मौ: स्याद्दिव्यरूपिणी ।
चैतन्यं तदुपहितं विषुर्भवति नान्यथा ॥८९॥

रजोगुणाधिका विद्या ज्ञेया सा वै सरस्वती ।
कश्चित्स्वरूपो भवति ब्रह्मा तदुपधारक: ॥९०॥

ईशाद्या: सकला देवा दृश्यन्ते परमात्मनि ।
शरीरादिजडं सर्व सा विद्या तत्तथा तथा ॥९१॥
 
एवंरूपेण कल्पन्ते कल्पका विश्वसंभवम् ।
तत्त्वातत्त्वं भवंतीह कल्पनान्येन मोदिता ॥९२॥

प्रमेयत्वादिरूपेण सर्व वस्तु प्रकाश्यते ।
तथैव वस्तु नास्त्येव भासको वर्तक: पर: ॥९३॥

स्वरूपत्वेन रूपेण स्वरूपं वस्तु भाष्यते ।
विशेषशब्दोपादाने भेदो भवति नान्यथा ॥९४॥

एक: सत्तापूरितानन्दरूप: पूर्णो व्यापी वर्तते नास्ति किंचित् ।
एतज्ज्ञानं य: करोत्येव नित्यं मुक्त: सस्यान्मृत्युसंसारदु:खात् ॥९५॥

यस्यारोपापवादभ्यां यत्र सर्वे लयं गता: ।
स एको वर्तते नान्यत् तच्चित्तेनावधार्यते ॥९६॥

पितुरन्नमयात्कोषाज्जायते पूर्वकर्मण: ।
शरीरं वै जडं दु:खं स्वप्रग्भोगाय सुन्दरम् ॥९७॥

मांसास्थिस्नायुमज्जदिनिर्मितं भोगमन्दिरम् ।
केवलं दु:खभोगाय नाडीसंततिगुम्फ़ितम् ॥९८॥

पारमेष्ठ्यमिदं गात्रं पंचभूतविनिर्मितम् ।
ब्रह्माण्डसंज्ञकं दु:खसुखभोगाय कल्पितम् ॥९९॥

बिन्दु: शिवो रज: शक्तिरुभयोर्मिलनात् स्वयम् ।
स्वप्नभूतानि जायन्ते स्वशक्त्या जडारूपया ॥१००॥

तत्पंचीकरणात्स्थूलान्यसंख्यानि चराचरम् ॥१०१॥
ब्रह्माण्डस्थानि वस्तूनि यत्र जीवोsस्ति कर्मभि: ।
तद्भूतपंचकात्सर्व भोगाय जीवसंज्ञिता ॥१०२॥

पूर्वकर्मानुरोधेन करोमि घटनामहम् ।
अजड: सर्वभूतान्वै जडस्थित्या भुनक्ति तान् ॥१०३॥

जडात्स्वकर्मभिर्बद्धो जीवाख्यो विविधो भवेत् ।
भोगायोत्पद्यते कर्म ब्रह्माण्डाख्ये पुन: पुन: ।
जीवश्च लीयते भोगावसाने च स्वकर्मण: ॥१०४॥

॥ इति श्रीशिवसंहितायां हरगौरीसंवादे लयप्रकरणे प्रथम पटल: ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP