चतुर्थाष्टक - पञ्चमोsध्याय:
श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "
हरि: ॐ ॥ त्वं हि न: पाहि देवेति सकृद्य: प्रार्थयत्यपि ॥
सर्वापद्भ्यास्तमुद्धृत्य ददातीश: पदं ध्रुवम् ॥१॥
नित्यमुक्तं निजं भक्तमेकभक्तिं तमर्जुनम् ॥
कथं हन्यात्स निन्ये तत्प्रार्थितं सत्यतां प्रभु: ॥२॥
आसीन्नृप: कान्यकुब्जे गाधी नाम महाबल: ॥
वसतो भार्यया सार्थं वने तस्याभवत्सुता ॥३॥
रूपलावण्यसंपन्नां देवीमिव महाप्रभाम् ॥
ऋचीको भार्गवो दृष्ट्वा ययाचे तां नृपं प्रति ॥४॥
महापतस्विनं दृष्ट्वा गाधी तं शंतितव्रतम् ॥
प्रत्याख्यातुं नृपो भीत: प्राह तं प्रार्थयन्बहु ॥५॥
ब्रह्मन्संभावनीयोsसि भार्येयमुचिता तव ॥
तथाप्येक: पणो मेsद्य कृतस्तं श्रृणु मानद ॥६॥
एकत: श्यामकर्णानां पाण्डुराणां तरस्विनाम् ॥
सहस्रं वाजिनां शुक्लं यो ददात्येव भाग्यवान् ॥७॥
तद्विधाय मया देया कन्यैषाङ्गाप्सर:समा ॥
इति विप्र प्रतिज्ञातं मया ते साध्यते कथम् ॥८॥
ऋषि: प्राहाहमेवाशु दास्याम्यद्य तथैव ते ॥
साध्वी ममास्तु भार्येयं नात्र कार्या विचारणा ॥९॥
इति प्रतिज्ञाय मुनिर्वरुणं प्राप्य तं जगौ ॥
शुल्कार्थं श्यामकर्णाह्स्वसहस्रं मे प्रदीयताम् ॥१०॥
ज्ञात्वोग्रतपसं विप्रं वरुणोपि स्वराड् भृशम् ॥
प्रत्याख्यातुमनीशोsदात्स तस्मै तादृशान्हयान् ॥११॥
आदायाश्वान्मुनि: शीघ्रं गङ्गामध्याद्बहिर्ययौ ॥
कान्यकुब्जेsश्वतीर्थं तत्ततोsभूत्सर्वपापहम् ॥१२॥
गाधिर्भूपमवाप्याह त्वत्प्रतिज्ञानुसारत: ॥
अत्रानीता मयेमेsश्वा स्वस्ति ते देहि मेसुताम् ॥१३॥
तस्यात्यद्भुतमाहात्म्यं दृष्ट्वा तस्मै मुदा नृप: ॥
यथोक्तेन विधानेन ददौ कन्यामनिन्दिताम् ॥१४॥
एवं धर्मेण लब्ध्वा तामृचीक: स्वर्वधूपमाम् ॥
यथासुखं यथाकामं तया रेमेम सुमध्यया ॥१५॥
देवा इन्द्रादयो दृष्ट्वा तस्योद्योगं महात्मन: ॥
आश्चर्यं परमं प्रापु: प्रशशंसुस्तपस्विताम् ॥१६॥
अथैकदाह तं गाधिर्मुनेsपुत्रोsस्मि सर्ववित् ॥
उपायं कुरु येन स्यां सपुत्रोsहं विमुक्तिग: ॥१७॥
तथत्युक्त्वा तत: पत्न्या साकं स पितरं मुदा ॥
आगत्य तत्पदे भक्त्या ववन्दे भक्तिभावित: ॥१८॥
सर्वं न्यवेदयत्प्रेम्णा भृगुस्तुष्टो महामुनि: ॥
तं दृष्ट्वा कामसदृशं स्नुषां च स्वर्वधूपमाम् ॥१९॥
स्वाश्रमे स्थापयामास प्रहृष्टेनान्तरात्मना ॥
सुभगा साप्यनुदिनं भर्तृसेवापरायणा ॥२०॥
शीलेन सेवया चापि मुनिं परमधार्मिकम् ॥
साध्वी प्रसादयामास गाधिपुत्री मनस्विनी ॥२१॥
भृगु: प्रसन्नस्तामाह धन्यासि त्वं पतिव्रते ॥
वरं वृणीष्व सुभगे दास्यामि त्वदभीप्सितम् ॥२२॥
सा प्राह भगवन्मातुरपुत्राया मामाप्युत ॥
आधिं ज्ञात्वा महाप्राज्ञ प्रसादं कर्तुमर्हसि ॥२३॥
तां सोsवददुपायोsयं साध्वि पुंसवनाय वाम् ॥
ऋतुस्नाता त्वं च माता मनस्याधाय तत्परम् ॥२४॥
अश्वत्थं पृथगालिङ्ग्य यज्ञाङ्गं च यथाविधि ॥
चरुद्वयं च संस्कृत्य प्राशितव्यं विधानत: ॥२५॥
पुत्रस्ते ब्रह्मवर्चस्वी सम्राण्मातुश्च ते क्रमात् ॥
भविष्यति न संदेह: सत्यं सत्यवति स्नुषे ॥२६॥
तथेत्युक्त्वाथ सा राष्ट्रं पितु: प्राप प्रियान्विता ॥
यथोपदिष्टं भृगुणा व्यकरोत्पुत्राकाङ्क्षया ॥२७॥
चरुप्राशनकाले तु व्यत्यासो दैवतोsभवत् ॥
मात्रा पुत्र्याश्चरुर्भुक्त: पुत्र्या मातु: प्रमादत: ॥२८॥
ततो बहुतिथे काले गते दिव्येन चक्षुषा ॥
विज्ञाय व्यत्ययं प्राप्य भृगु: प्राह स्नुषां सतीम् ॥२९॥
उपभुक्तश्चरुर्भद्रे वृक्षस्यालिङ्गनं कृतम् ॥
विपरीतं हि जातं तत्संतानव्यत्ययो भवेत् ॥३०॥
ब्राह्मणोsपि क्षत्रवृत्तिस्तव पुत्रो भविष्यति ॥
क्षत्रोsपि ब्राह्मणाचारो मातुस्तव सुतस्तथा ॥३१॥
तच्छ्रुत्वा प्रार्थयामास श्वशुरं सा पुन: पुन: ॥
न मे पुत्रो भवत्वीदृक्कामं पौत्रो भवत्विति ॥३२॥
भृगुस्तां प्रतिनन्द्याह तथास्त्विति ततो ययौ ॥
स्वाश्रमं सा ततोsसूत काले सत्यवती सुतम् ॥३३॥
तेजसा वर्चसा युक्तं जमदग्निमिति द्विजम् ॥
नाम्नाकरोदभूत्सोपि वेदवेदाङ्गपारग: ॥३४॥
तस्या मातु: सुतो जज्ञे विश्वामित्रो महामना: ॥
चरुप्रभावात्स ययौ ब्रह्मर्षित्वं तपोबलात् ॥३५॥
जमदग्निस्तु रुद्रांशो महातेजा महामना: ॥
रेणो: कन्यां शक्तिकलामुपयेमे स रेणुकाम् ॥३६॥
गार्हस्थ्यं धर्ममाश्रित्य तया रेणुकया सह ॥
साध्व्यानुकूलया तीव्रं जमदग्निस्तपोsतपत् ॥३७॥
तयो: पुत्रा महात्मान: पञ्चासन्नमरोपमा: ॥
तेषां कनीयाञ्छ्रीविष्णोरंशो राम: प्रतापवान् ॥३८॥
साङ्गान्वेदानधीत्यासौ ब्रह्मचर्येण संयुत: ॥
धनुर्वेदं च विधिवत्पितृसेवापरोsभवत् ॥३९॥
आहिताग्ने: पितुर्नित्यमनुकूलोsभवत्सदा ॥
फलमूलसमित्पुष्पकुशादीन्राम आहरत् ॥४०॥
एकदा रेणुका स्नातुं नदीं गत्वा ददर्श तम् ॥
क्रीडन्तं सलिले स्त्रीभी राजानं पद्ममालिनम् ॥४१॥
क्षणं स्थित्वा रेणुका सा तत्क्रीडां वीक्ष्य हर्षिता ॥
तत: सा शङ्किता भर्तु: समीपमगमद्द्रुतम् ॥४२॥
स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्यालक्ष्म्या विवर्जिताम् ॥
धिक्कृत्वा तां विगर्ह्याह वसुमन्तं सुतं रुषा ॥४३॥
पुत्रेमां घातयाशु त्वमिति श्रुत्वापि तद्वच: ॥
सस्नेहो नावधीत्तूष्णीं तस्थौ पश्यन्नधो भिया ॥४४॥
भस्मीभवेति तं प्रोक्त्वा सुषेणं च तथा वसुम् ॥
विश्वावसुं च तान्निन्ये कोपेनैव यमक्षयम् ॥४५॥
अत्रान्तरे वनाद्राम: प्राप तं प्राह सत्वरम् ॥
जह्येंनामविचारेण भो राम त्वं ममाज्ञया ॥४६॥
तत आदाय परशुं रामो मातु: शिरोsच्छिनत् ॥
शान्तो मुनिस्तमालिङ्ग्य प्राहाभीष्टं वरं वृणु ॥४७॥
स वव्रे मातुरुत्थानं भ्रातॄणां चात्मनो जयम् ॥
युद्धेsप्रतिद्वन्द्वतायुर्दीर्घं सोsपि तथा ददौ ॥४८॥
ततस्ते बन्धवस्तस्य मृता अप्युत्थिता: पुन: ॥
रेणुका च महाभागा ततो रामो मुदं ययौ ॥४९॥
तत: प्रभृति रामोsसौ महावीर्योsभवद्भुवि ॥
तेजसातीव दुर्धर्षो धनुर्विद्याविशारद: ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां वासुदेव्यां उपासनाकाण्डे चतुर्थाष्टके पञ्चमोsध्याय: ॥४।५॥
॥ इति श्रीदत्त० देवकार्यार्थं परशुरामावतारो नाम चतु० पंचमोsध्याय: ॥४।५॥
N/A
References : N/A
Last Updated : May 07, 2016
TOP