षष्ठाष्टक - तृतीयोsध्याय:
श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "
प्रकृतात्पाह्यघादित्थं सकृद्ये प्रार्थयन्त्यापि ॥
तान्पात्यतों नित्ययुक्तभक्तोपेक्षा कथं हरे: ॥१॥
नीते हुण्डासुरेमार्भे प्रात:काल उपागते ॥
प्रस्वापिन्यां गतायां च जन: सुप्तोत्थितोsभवत् ॥२॥
वीतनिद्रेन्दुमत्यर्भमपश्यन्ती समन्तत: ॥
विललाप तदा तन्वी सा हाहाकारपूर्वकम् ॥३॥
केन मे सर्वलक्ष्माढ्य: सुतो देवसुतोपम: ॥
विधे पापात्मना नीतो हन्त हन्त करोमि किम् ॥४॥
दुष्करैर्नियमैर्यत्नैस्तपोभिर्दारुणैरुत ॥
कष्टेनैवोपलब्धोsसौ हृत: केन दुरात्मना ॥५॥
दुरगम्यसुमाहात्म्यं यस्य तेन प्रसादत: ॥
दत्तो दत्तेन गुप्तश्च कथं केन हृतस्त्वित: ॥६॥
हा पुत्र वत्स हा बाल हा गुणाकार सुन्दर ॥
क्कासि केन कथं तात नीतोsसि वद नन्दन ॥७॥
धिङ्मां तमोगुणाविष्टां यतो निद्रावशान्मया ॥
वियोजितोsसि राजेन्द्र सोमवंशसुभूषण ॥८॥
रे दोहदप्रभृत्यद्य यावद्यद्दर्शितं सुखम् ॥
स्वप्नवत्तत्कथं जातं भारभृत्त्वं कथं मृषा ॥९॥
किं करोमि क्क याम्यद्य राजन्तं राजलक्षणै: ॥
त्वां विनास्मि मृतप्राया त्वं प्राणो मेsसि दिव्यदृक् ॥१०॥
विलीयसे क्क हा पुत्र पयो मे स्रवते वृथा ॥
नष्टोsसि जातमात्रस्त्वं लालनाद्यपि नो कृतम् ॥११॥
हन्त हन्त कथं भग्नं दैवं मे बत हा विधे ॥
जातमात्रोsपि नष्टोsर्भो मायेयं कस्य दुर्धरा ॥१२॥
पूर्वकर्मविपाकोsयमुदितो मे दुरात्मन: ॥
कृतं न्यासापहरणं मया दुष्टधिया खलु ॥१३॥
किंवान्यस्य हृतो बालो रत्नान्यपहृतानि वा ॥
तेन मे पुत्ररत्नं हि दिव्यं नष्टं न संशय: ॥१४॥
भुञ्जानस्याग्रतो मेsन्नं हृतं वा पूर्वजन्मनि ॥
मित्रद्रोह: कृतो वापि सांप्रतं तत्फलं त्विदम् ॥१५॥
एवं सा पतिता भूमौ कदलीवानिलाहता ॥
शोकेन महता राज्ञी मूर्च्छिताभून्मृतोपमा ॥१६॥
राज्याप्यप्रियमाकर्ण्य प्राप्यारिष्टं ददर्श ताम् ॥
निश्वासान्मुञ्चमानां गां वत्सहीनामिव प्रियाम् ॥१७॥
स्वयमप्युरुशोकेन दु:खेन महता वृत: ॥
भूत्वाsतिविह्वलो दीनो विलपन्निदमब्रवीत् ॥१८॥
धिक् प्राकारान्सपरिखान् धिक् सौधान्साररार्गलान् ॥
धिग्बलं मन्त्रजालं च कोsपीहासीन्न यत्प्रभु: ॥१९॥
इह धर्मफलं नास्ति नास्ति वै तपस: फलम् ॥
नास्ति दानफलं नष्टे सुपुत्रे निश्चिनोम्यद: ॥२०॥
ज्ञात्वा मेsप्यनपत्यत्वं जन्मयोगोत्थमुत्कटम् ॥
मौर्ख्यात्तप्तं तपो व्यर्थं किं जातं तेन मेsधुना ॥२१॥
दत्तात्रेयप्रसादस्य श्रुतं मे फलमक्षयम् ॥
लब्धोsपि सुगुण: पुत्रस्तत्र विघ्नं कथं त्विदम् ॥२२॥
पुत्र आत्मा स नष्टोsतो नष्टोsद्यार्तोsस्मि भो हरे ॥
दीनवत्सल मां पाहि श्रीदत्तानन्यमातुरम् ॥२३॥
इत्यज्ञातात्मवत्त्वौ तौ खिन्नौ गौणात्मशोकत: ॥
चिन्ताव्याकुलितात्मानौ स्थितौ दत्तार्पितान्तरौ ॥२४॥
ईश्वरे योsनुरक्तोsस्मिन्नार्तोsर्थी वापरोsपि स: ॥
न नश्यति स्वयं तस्य समुद्धर्तास्ति हि प्रभु: ॥२५॥
प्राक्कर्मवासनादार्ढ्याच्च्यवन्तमपि तत्त्वत: ॥
स्वाविष्टचित्तमचिरात्ततोsप्युद्धरतीश्वर: ॥२६॥
इत्थं भक्ते: प्रभावोsयं यद्भक्तो नैव नश्यति ॥
दुराचारोपि चेत्पूर्वं भक्त्या शुद्ध: शमं व्रजेत् ॥२७॥
राजाप्यर्थीशसेवाप्तस्वार्थोsप्यार्तोsभवद्विधे: ॥
तद्वृद्धभक्तिमुद्धर्तुं नारदायैरयत्प्रभु: ॥२८॥
रणद्वीणो हरिं गायन्नारद: प्राप तत्र तम् ॥
प्रत्युद्गत्याप्यरं राजाभ्यर्च्य दु:खं न्यवेदयत् ॥२९॥
नारदोsपि प्रहस्याह सकृद्यत्स्मरणान्नृप ॥
सद्योsस्त्यखिलदु:खान्तस्तद्दासस्त्वं कुतोsन्यथा ॥३०॥
निर्गुणोsप्यत्रिजोsभूद्यो भक्तगुप्त्यै तमीश्वरम् ॥
शतवर्षं भजन्राजन् शोकस्यान्तं न गच्छसि ॥३१॥
किं नश्वरेण पुत्रेण गृहेणाङ्गेन वा तव ॥
लोक: सुखोsस्ति हृद्यात्मा दत्तोsमुं शरणं व्रज ॥३२॥
यं तु शोचसि हुण्डेन हन्तुं नीतोsपि दैवत: ॥
कस्यचिन्मुनिवर्यस्य गृहेsस्ति स सुरक्षित: ॥३३॥
विद्वान्हत्वाsसुरं सार्धं पत्न्याssगत्याशु शत्रुहा ॥
भुक्त्वेह राज्यमैन्द्रं च पदं मर्त्योsपि भोक्ष्यति ॥३४॥
इत्युक्त्वा नारद: स्वर्गं ययौ राजापि हर्षित: ॥
गत्वाsरिष्टं नारदोक्तं मुदा पत्न्यै शशंस स: ॥३५॥
देवर्ष्युक्ति: प्रिये सत्या वर: सत्योsपि चेशितु: ॥
प्रसादो नान्यथा तस्माच्छोकं जह्यङ्गशोषणम् ॥३६॥
इन्दुमत्यपि तच्छ्रुत्वा मृतसंजीवनोपमम् ॥
स्मृत्वाssत्रेयं भक्तिवृद्धप्रेमबन्धाsस्तुवन्नता ॥३७॥
त्वं पर: पूरुषो वेधा: परात्माsधोक्षजो विभु: ॥
गुणात्माहंयुसंसारकारणोsप्यस्यकारण: ॥३८॥
शुद्ध: सच्चित्सुखात्मापि त्रीशो धीरोsपि केवल: ॥
स्वभक्तिवृध्द्यै जातोपि माययेहात्रिनन्दन: ॥३९॥
निष्कामाह्लादको यो द्राक् स्मृत्योद्धर्ता भवांबुधे: ॥
नत्यापोsभीष्टदो दत्त शरण्यं त्वार्तिहं भजे ॥४०॥
योsदाद्दिव्यं सुतं तं स सर्वदा पातु सर्वत: ॥
अनन्याया: स विश्वात्मा भगवान्मेsस्तु सद्गति: ॥४१॥
आयूराजाप्युवाचेश पुरुषाध्यक्ष सद्गुरो ॥
दत्तात्रेय जगन्नाथ त्राहि मां भवसंकटांत् ॥४२॥
सर्वसौख्यनिधानं यद्देहिनां दुर्लभं ध्रुवम् ॥
नय मां त्वत्पदं तद्भो न काङ्क्षेsन्यत्किमप्यज ॥४३॥
एवं तौ दंपती स्तुत्वा स्मृत्वा माहात्म्यमीशितु: ॥
त्यक्त्वा चिन्तां शुचं चाशु सुखमासतुरन्वहम् ॥४४॥
वसिष्ठोsप्येकदाssहूय नहुषं तत्र तं जगौ ॥
क्षत्रोsसि त्वं वने हिंस्रान्निहन्तुं मृगयां चर ॥४५॥
तच्छ्रुत्वा स तथेत्युक्त्वा धन्वी तूणी ययौ वनम् ॥
कृत्वा गुरूक्तवद्वाणीं शुश्रावाsभ्रसमीरिताम् ॥४६॥
आयु:सुतोsयं नहुष इन्दुमत्यात्मजो विधे: ॥
मात्रा वियोजितो बाल्ये वसिष्ठेनाभिपालित: ॥४७॥
दु:खितावस्य तातौ च शिवजाsशोकसुन्दरी ॥
एतमुद्वाहितुं तेपे हुण्डकारास्थिता तप: ॥४८॥
श्रुत्वैवं विस्मितोsभ्येत्य गुरुं नत्वा शशंस तत् ॥
वसिष्ठोsप्यादित: सर्वं कथयित्वा तमब्रवीत् ॥४९॥
वीरायुष्मन्महाबाहो धनुर्विद्याविशारद ॥
दत्तात्रेयाभिगुप्त त्वं गत्वा हुण्डासुरं जहि ॥५०॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां उपासनाकाण्डे षष्ठाष्टके तृतीयोsध्याय: ॥३॥
॥ पुत्रहरणेन दु:खितयोरिन्दुमतीनृपयो० शोकहरणं नाम षष्ठ० तृती० ॥६।३॥
N/A
References : N/A
Last Updated : May 07, 2016
TOP