सप्तमाष्टक - तृतीयोsध्याय:

श्रीमत्परमहंस वासुदेवानंदसरस्वतीस्वामीकृत " श्रीदत्तपुराणम् "


हरि: ॐ ॥ धर्ता योsखिलशक्तीनां तमाराध्य स्वकर्मणा ॥
परपीडां न कुर्वन्ति न ते यान्त्यन्तकालयम् ॥१॥
ये प्राणिहिंसकास्ते तु वेदयज्ञतपोमुखै: ॥
युक्ता अपि न यान्त्यूर्ध्वं भक्तिहीनश्च तादृश: ॥२॥
शास्त्रेण चोदिता हिंसा सैव धर्म: परो मत: ॥
सैवेह परमं दानं सैवेह परमं तप: ॥३॥
मशकान्मत्कुणान्दंशान्यूकादीन्पीडकानपि ॥
आत्मौपम्येन येsवन्ति ते नरा धर्मशीलिन: ॥४॥
तप्ताङ्गारमयं मार्गं दुर्गां वैतरणीं नदीम् ॥
दुर्गतिं नैव पश्यन्ति कृतान्तं चापि ते नरा: ॥५॥
ये हिंस्रा: प्रेत्य तेsन्योन्यं खादन्त्यन्योन्यघातिन: ॥
परस्त्रीधनहर्तारो नरकं यान्ति दारुणम् ॥६॥
ये हिंसन्तीह भूतानि जीवनार्थं परत्र ते ॥
स्वमांसभोजिनोsत्यन्तं क्लिश्यन्त्येवास्रपूयपा: ॥७॥
स्थावरास्ते भविष्यन्ति नरकान्निर्गता अपि ॥
तिर्यग्योनीरुषित्वाsथ सुचिराद्यान्ति मर्त्यताम् ॥८॥
तत्रापि च भवन्त्यन्धा: काणा: कुब्जाश्च पङ्गव: ॥
अङ्गहीना दरिद्राश्च स्वाघचिह्नैश्च चिह्निता: ॥९॥
परद्रोहो न कार्योsत: कायेन मनसा हृदा ॥
यतो लोकद्वयाद्भ्रंशो द्रोग्धुर्हि परतो भयम् ॥१०॥
स्यन्दमाना यथा नद्य: सर्वा यान्ति महाम्बुधिम् ॥
अहिंसायां तथा धर्मा: प्रविशन्त्यखिला: खलु ॥११॥
दत्ताभय: पुमानेव सर्वधर्मसमावृत: ॥
अचलं पदमाप्नोति न भूयश्च्यवते तत: ॥१२॥
स्वधर्मान्वेदशास्त्रोक्तान्देशकालोचितानपि ॥
ये पश्यन्तीह ते नैव पश्यन्ति यमयातनाम् ॥१३॥
स्ववर्णाश्रमिणो ये च स्वाचारनिरता: सदा ॥
शीलवत्योsपि नार्य्श्च नाकपृष्ठे वसन्ति ते ॥१४॥
यथोक्ताचारिण: सर्वे जितकामा जितेन्द्रिया: ॥
स्वकर्मनिरता यान्ति ब्रह्मलोककल्मषम् ॥१५॥
इष्टापूर्तरता ये च यदृच्छालाभहर्षिता: ॥
दयान्विता दानशीलास्ते न यान्ति यमालयम् ॥१६॥
वेदपाठरता नित्यं ब्राह्मणा येsग्निहोत्रिण: ॥
स्वर्यान्ति तेsपि भूपाश्च रणे येsभिमुखे हता: ॥१७॥
अनाथगोद्विजातिस्त्रीशरणागतरक्षणे ॥
ये मृता धर्मसंग्रामे ते न यान्ति यमालयम् ॥१८॥
पङ्गोन्दीनाञ्छिशून्वृद्धान्रुग्णानार्तान्भयातुरान् ॥
ये पुष्णन्त्यभयं दत्त्वा रमन्ते ते चिरं दिवि ॥१९॥
गां दृष्ट्वा पङ्कमग्नां ये रुग्णं विप्रं च दुर्विधम् ॥
उद्धरन्ति ततो ये ते नैव यान्ति यमक्षयम् ॥२०॥
गोग्रासदा नरा ये च ये कामं गोनिषेविण: ॥
प्रपासंस्थापका ये च ते न यान्ति यमक्षयम् ॥२१॥
यावत्पिबन्ति पानीयं वापीकूपतडागत: ॥
जीवास्तावद्धि तिष्ठन्ति तत्कर्तार: सुखाद्दिवि ॥२२॥
जीवानां जीवनं वारि तद्यो दास्यति यत्नत: ॥
जीवत्वं स विहायैव परे ब्रह्मणि मोदते ॥२३॥
धात्रीकपित्थबिल्वांस्त्रीन्पञ्चाम्रान्दश तित्तिणी: ॥
पिचुमन्दाश्वत्थवटान्वप्ता न नरकं व्रजेत् ॥२४॥
वरं त्रयो भूमिरुहा न तु कोष्ठरुहा दश ॥
पत्रै: पुष्पै: फलैस्ते हि कुर्वन्ति पितृतर्पणम् ॥२५॥
घनच्छायो द्रुमो जीवान् गृहिभ्योsप्यधिकं त्विह ॥
छायादिनाssश्वासयति ततोsपि फलद: फली ॥२६॥
सुच्छायाफलपुष्पाढ्यं वृक्षं प्राणिनिषेवितम् ॥
ये छिन्दन्ति नरा मूढास्ते यान्ति नरकं ध्रुवम् ॥२७॥
यद्द्वारि तुलसीदेवी तीर्थभूतं हि तद्गृहम ॥
रोपणात्पालनात्सेकाद्दर्शनात्स्पर्ह्स्नान्नृणाम् ॥२८॥
तुलसी हरते पापं वाङ्मन:कायसंभवम् ॥
सर्वतीर्थाप्लुतिफलं तुलसीस्पर्शनात्स्मृतम् ॥२९॥
गङाप्लुत्या हरिस्मृत्या रेवादृष्ट्या सुरार्चनै: ॥
समानस्तुलसीस्पर्शो विष्णुलोकगतिप्रद: ॥३०॥
पुष्कराद्यानि तीर्थानि गङ्गाद्या: सरितोsमला: ॥
वासुदेवादयो देवा निवसन्ति तुलस्यध: ॥३१॥
तुलसीमञ्जरीभिर्यो विष्णुं संपूजयेन्नर: ॥
त्रिकालमेककालं वा वैकुण्ठे स महीयते ॥३२॥
विष्णुमन्त्रजपी यस्तु तुलसीकाष्ठभूषित: ॥
विष्णुव्रतपरो विष्णुपूजको विष्णुलोकभाक् ॥३३॥
तथैव शिवभक्तोsपि पूजयेत्सांबमीश्वरम् ॥
बिल्वैर्जपेच्छैवमन्त्रं कैलासे स महीयते ॥३४॥
रेवासमुद्भवे बाणलिङ्गे य: पूजयेच्छिवम् ॥
स्फटिके रत्नलिङ्गे वा पार्थिवे वा स्वयंभुवि ॥३५॥
शैले वा स्थापिते क्कापि शिवव्रतपरो नर: ॥
प्रदोषे पूजयेद्भक्त्या स मुक्तो नात्र संशय: ॥३६॥
रुद्राक्षभूषितो रुद्रजापी भस्मत्रिपुण्ड्रधृक् ॥
स क्कापि न श्रृणोत्येव यमलोककथां नर: ॥३७॥
शिवपूजाप्रभावेण शैवा: शिवरता नरा: ॥
मोदन्ते शिवलोके ते शिवेन सह सर्वदा ॥३८॥
प्रसङ्गेनापि शाठ्येन दम्भेनेशं च लोभत: ॥
येsर्चन्ति ते विमुच्यन्ते किं पुनर्भक्तिभाविता: ॥३९॥
नेशार्चनात्परं पुण्यं सर्वपापप्रणाशनम् ॥
सर्वैश्वर्यप्रदं दुर्गात्तारकं मृत्युहारकम् ॥४०॥
द्रव्यमन्नं फलं तोयं शिवस्वं न स्पृशेत्क्वचित् ॥
लङ्घयेन्नैव निर्माल्यं कूप्र सर्वं विनिक्षिपेत् ॥४१॥
मक्षिकापादमात्रं य: शिवस्वमुपजीवति ॥
लोभेन वाsथ मोहेन नरके स तु पच्यते ॥४२॥
कृत्वैकदेवभक्तिं ये मात्सर्येण द्विषन्ति च ॥
अन्यदेवं च तद्भक्तं ते यान्ति नरकं ध्रुवम् ॥४३॥
विष्णु: शिवो गणेशोsर्क: शक्तिश्चेति पृथङ् न हि ॥
एकोsज: पञ्चधा जात: कुतो भेदोsस्ति दैवतै: ॥४४॥
एतानीशाङ्गानि तृप्येदेकस्यापीह तर्पणात् ॥
यथाssस्याक्ष्यादितृप्त्याङ्गी चोद्विजेदेकनिन्दया ॥४५॥
देवद्रोहस्ततस्त्याज्यस्तद्भक्तस्यापि सर्वदा ॥
यथारुचीश्वर: सेव्यो नान्यथाभेदमाचरेत् ॥४६॥
वर्षालैर्य तृणै: पर्णै: कुर्वन्तीहेश्वरालयम् ॥
ते यान्ति सुस्थिरं लोकं सर्वभोगसमन्वितम् ॥४७॥
गोशालां धर्मशालां वा मार्गे विश्राममन्दिरम् ॥
यतेर्मठं द्विजगृहं कृत्वा स्वर्गे वसन्ति ते ॥४८॥
नूतनालयनिर्माणाज्जीर्णोद्धार: प्रयत्नत: ॥
कार्यो देवादिगेहानां तत्फलं द्विगुणं भवेत् ॥४९॥
वर्ज्यं मठाधिपस्यान्नं भुक्त्वा चान्द्रायणं चरेत् ॥
स्पर्शमात्राच्चरेत्स्नानं देवद्रव्योपजीविनाम् ॥५१॥
कुर्वन्ति देवपूजार्थं ये नरा: पुष्पवाटिकाम् ॥
निर्लोभास्ते चरिष्यन्ति स्वर्याने नन्दने वने ॥५२॥
संमार्जनादिना येsलंकुर्वन्तीश्वरमन्दिरम् ॥
निस्पृहास्ते नरा नित्यं स्वर्गे लोके वसन्ति हि ॥५३॥
य इच्छेदात्मनो मुक्तिं देवसद्गुरुदंगतिम् ॥
स कुर्याद्बन्धदां नैव शिश्नोदरतृपां क्कचित् ॥५४॥
यादृशी प्रीतिरज्ञानां विषयेष्वनपायिनी ॥
परेश्वरे तादृशी चेत्को न मुच्येत बन्धनात् ॥५५॥
इति श्रीमद्दत्तात्रेयपुराणे सार्धत्रिसाहस्र्यां त्रिकाण्डमण्डितायां संहितायां श्रीवासुदेव्यां कर्मकाण्डे सप्तमाष्टके तृतीयोsध्याय: ॥३॥
॥ देवदूतैर्वैश्यपुत्राय देवताभजनादिधर्महार्दकथनं नाम सप्तमा० तृतीयो० ॥७।३॥

N/A

References : N/A
Last Updated : May 07, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP