मंत्ररामायणम् - कथाप्रस्तावः
महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’
श्रीरामचरितं पुण्यं संक्षेपान्नारदो मुनिः
पृच्छते पथं प्राह प्रेम्णा वाल्मीकये सते. ॥१४॥
राशिरत्यच्छतपसां वाल्मीकिर्बह्मणो वरात्
चक्रे रामायणं नाम महाकाव्यं महाकविः. ॥१५॥
महाकाव्यं पठन्त्सभ्यांश्छ्रावयेत्कः सभास्विदम्
इति चिंतयतस्तस्य पादग्रहणमादृतौ ॥१६॥
जनकस्य सुतापुत्रौ कृतवंतौ गुणार्णवौ
शिष्यौ कुशलवौ यौ तत्तावग्राहयत प्रभुः ॥१७॥
यदा वचोविधेयं तत्कृत्वा ताभ्यां मुनिव्रजे
गीतं प्रीतं तयोस्तेषां चित्तं सर्वतपस्विनाम्. ॥१८॥
राकापतिः स्वामृतेन चकोरानिव तानृषीन्
अर्थेन पौलस्त्यवधप्रबंधः समतर्पयत्. ॥१९॥
मधुरेणादिकाव्यस्य स्वच्छेन मुनयोsखिलाः
रसेनांबुमुचोsत्यर्थं चातका इव तर्पिताः ॥२०॥
जगन्मनोहरं धीरौ तौ वीणास्वरमिश्रितम्
चतुर्मुखवरोद्भूतं महाकाव्यमगायताम्. ॥२१॥
यच्छ्रुत्वा मुनवस्ताभ्यां ते प्रेमाश्रुपरिप्लुताः
वल्काजिनबृषीदंडकमंडलुकुशान्ददुः ॥२२॥
जनात्कथयतः श्रुत्वा गंधर्वावि गायनौ
नीतौ सदसि रामेण साकेते श्रोतुमुत्तमम्. ॥२३॥
यथोपदेशं वाल्मीकेः कृतिं सुकृतिनां वरौ
आदितः कृतिनौ रामं श्रावयामासतुर्मुदा. ॥२४॥
रावणारिर्वसिष्ठाद्यैर्ब्राह्मणैर्भ्रातृभिः प्रियैः
सचिवैः सह शुश्राव स्वं माहात्म्यं सभां गतः. ॥२५॥
महर्षिणा स्वयं गीतमिति माहात्म्यमात्मनः
अपूर्वमिव लोकेशः श्रुतवानित्थमादरात्. ॥२६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP