स श्री दशरथो राजा रामाय गुणशालिने
उद्यतोsभूद्यौवराज्यं दातुं गुर्वनुमोदितः ॥१॥
प रा भ्युदयसद्धेतावभिषेकेsपि वल्लभा
विघ्नं चकार कैकेयी मंथराभिन्नधीर्बलात्. ॥२॥
स म र्थोsपि नृपः सत्यपाशबद्धोsबलोsभवत्,
निर्बंधात्पूर्वदत्तौ सा वरौ जग्राह निर्घृणा. ॥३॥
` भ ज तामद्य भरतो यौवराज्यमकंटकम्
रामश्चतुर्दस समाश्चीराजिनधरो वनम्. ' ॥४॥
अ य शस्करमेवं तत्तस्या आकर्ण्य भाषितम्
राजोवाच, ` सुदुर्बुद्धे ! किमिदं ते चिकीर्षितम् ? ॥५॥
नि रा गसं प्रियं रामं देवि ! न त्यक्तुमर्हसि
मूर्ध्ना स्पृशामि ते पादावि'त्यप्यार्ततरोsब्रवीत्. ॥६॥
सा म व्यर्थमभूद्राजा मूर्च्छामसकृदागतः
कैकेयीसदने रात्रिं सर्वां दुःखेन सोऽनयत्. ॥७॥
द्वि ज श्रेष्ठो वसिष्ठोऽथ सुमंत्रं सचिवोत्तमम्
प्रातः प्रोवाच, ` राजानमभिषेकार्थमानय. ' ॥८॥
स य यावाशु कैकेयी सदने तं नृपोत्तमम्
ददर्श भूमावस्वस्थं पतितं शोकविह्वळम्. ॥९॥
प्रां ज लिः स सुमंत्रस्तं स्तुत्वोवाच प्रब्बोधयन्,
` गुरू रामाभिषेकार्थं राजेंद्र ! त्वां प्रतीक्षते. ' ॥१०॥
प्रि य मप्याह तं राजा शोकरक्तेक्षणस्तदा,
` वाक्यैस्तु खलु मर्माणि मम भूयो निकृतसि. ' ॥११॥
स रा जवाक्यं करुणं श्रुत्वा दीनं च तं प्रभुम्
दृष्ट्वा बद्धांजलिः किंचित्तस्माद्देशादपाक्रमत्. ॥१२॥
स म यज्ञाथ कैकेयी प्राह, ` मंत्रिन् ! समुत्सुकः
रामाभिषेकहर्षेण सुतरां जातजागरः. ॥१३॥
स श्री मानयमद्यैव राजा निद्रामुपागतः
राममानय, भद्रं ते, नात्र कार्या विचारणा. ' ॥१४॥
न रा धिपतिपत्न्येत्थमुक्तः स सचिवोऽब्रवीत्,
` अश्रुत्वाहं प्रभोर्वाक्यं कथं गच्छामि भामिनि ! ' ॥१५॥
तं म हीपतिरप्याह, ` गच्छ, राममिहानय '
इत्युक्तः सचिवः प्राप रामप्रासादमाशुगः. ॥१६॥
` त्वां ज गत्याः पतिर्द्रष्टुमिच्छती'त्याह सांजलिः
रामोऽपि सीतामापृच्छ्य हृष्टो राजानमभ्यगात्. ॥१७॥
अ य थापूर्वरूपस्य स पूर्वं चरणौ पितुः
ववंदे राघवः पश्चात्कैकेय्याः सुसमाहितः. ॥१८॥
स रा जा ` राम ' इत्युक्त्वा बाष्पपर्याकुलेक्षणः
शशाक दीनतामाप्तो नेक्षितुं नाभिभाषितुम्. ॥१९॥
तं म नुष्येश्वरं दृष्ट्वा तथारूपं भयावहम्
रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ॥२०॥
प्रां ज लिः प्राह कैकेयीं, ` मम वान्यस्य वागसा
क्रुद्धः प्रभुस्तदाचक्ष्व मातरेनं प्रसादय. ' ॥२१॥
स्व य माहातिधृष्टा सा, ` नायं क्रुद्धो नराधिपः
राम ! व्यसनमप्यस्य न च किंचन विद्यते. ॥२२॥
रा ज श्रेष्ठः कुमारायं त्वद्भयाद्वक्ति न स्फुटम्
प्रियं त्वामप्रियं वक्तुं नास्य वाणी प्रकर्तते. ॥२३॥
त्वं य न्मह्यमनेनास्ति स्वयं राम ! प्रतिश्रुतम्
तदवश्यं कुरु क्षिप्रं पितुरान्रुण्यमाप्नुहि. ॥२४॥
पु रा मह्यं वरं दत्वा स्वयं मामभिपूज्य च
स पश्चात्तप्यते राम ! यथान्यः प्राकृतस्तथा. ॥२५॥
म म राम ! प्रतिज्ञाय ददानीति वरं प्रभुः
स निरर्थं गतजले सेतुं बंधितुमिच्छति. ' ॥२६॥
तां श्री मानब्रवीद्गामो, ` मातर्वाक्यात्प्रभोरहम्
भक्षयेयं विषं तीक्ष्णं पतेयं पावकेऽर्णवे. ॥२७॥
ध रा पतेर्वचो ब्रूहि मातर्यदभिकांक्षितम्
करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते. ' ॥२८॥
तं म होग्रमतिः प्राह, ` राज्ञा दत्तौ बरौ मम
पुरा देवासुरे युद्धे मया गुप्तेन संकटे. ॥२९॥
अ ज वंशप्रदीपोऽयं भरतस्याभिषेचनम्
तत्र मे याचितो राम ! गमनं तव कानने. ॥३०॥
स य द्यसि निदेशे त्वं राज्ञानेन प्रतिश्रुतम्
कुर्वरण्यं प्रवेष्टव्यं चतुर्दश समास्त्वया. ॥३१॥
त्वं रा जानमृतं कर्तुं जटाचीरधरो भव,
सप्त सप्त च वर्षानि दंडकारण्यमाश्रितः. ॥३२॥
ग म नं त्वमयोध्याथ कुर्वद्यैव वनं पति,
युवराजोऽस्तु भरतः सत्यसंधः पिता तव. ' ॥३३॥
स्व ज नप्रियक्रुद्रामःप्रोवा ` चांब ! स्वयं कुतः
राज्ञा नाज्ञाप्यते वाचा भरतस्याभिषेचनम्, ॥३४॥
प्रि य मस्य भवत्याश्च कर्तुं मातरहं धनम्
प्राणान्सीतामपि भ्रात्रे दद्यां त्वत्प्रेरितः सुखम्. ' ॥३५॥
भु ज गोवोग्ररूपा सा पुनरूचे, ` ऽगते त्वयि
रामायं तव तातो न स्रास्यते भोक्षतेऽपि वा. ॥३६॥
श य ने न्यपतद्राजा तच्छ्रुत्वाश्रुपरिप्लुतः
`धिक्कष्ट'मिति निश्वस्य कैकेय्या वागिषुक्षतः. ॥३७॥
तं रा जानं समुत्थाप्य कैकेय्याभिप्रचोदितः
कशयेवाहतो वाजी रामो गंतुं कृतत्वरः. ॥३८॥
ता म ब्रवी`दर्थपरो नाहं मातरसंशयम्
विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम्. ॥३९॥
या श्री मतोऽस्य प्रीतिः सा मया कार्या निजासुभिः
न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम्. ॥४०॥
त्वरा वानधुनैवांब ! हवत्या वचनादहम्
वने वत्स्यामि विजने वर्षाणि हि चतुर्दश. ॥४१॥
क्ष म स्व तावत्कैकेयि ! यावत्ताम पुत्रवत्सलाम्
कौसल्यामहमापृच्छय सीतां चानुनयाम्यहम्. ॥४२॥
वि ज नं दंडकारण्यं गत एवाहमाज्ञया
शुश्रूषस्व नृपं, कष्टं परमं चरमं वयः. ॥४३॥
न य विद्धर्मवित्साधुर्भरतो न रतोऽपथि
शूश्रूषामस्य सततं यथा कुर्यात्तथा कुरु. ' ॥४४॥
स रा मस्य वचः श्रुत्वा भृशं दुःखगतः पिता
शोकादशक्रुवन्वक्तुं प्ररुरोद महास्वनम् ॥४५॥
न म स्कृत्वा नृपं स्त्रैणं कैकेयीमपि दुर्धियम्
रामः प्रदक्षिणीकृत्य मातुरंतिकमाययौ. ॥४६॥
तं ज नन्या गृहं यांतं कुपितो लक्ष्मणोऽन्वगात्
कैकेयीं तद्वशं तातं हंतुकामो महाबलः. ॥४७॥
प्रि य पुत्राथ कौसल्या पतितं पादयोः सुतम्
आलिंग्य मूर्ध्न्यवघ्राय ददावाशिषमुत्तमाम्. ॥४८॥
वि ज नं दंडकारण्यं प्रस्थितो राघवोऽब्रवीत्,
` गमिष्ये वनवासाय मामनुज्ञातुमर्हसि. ॥४९॥
प्र य च्छति महाराजो भरताय वसुंधराम्,
मां पुनर्दंडकारण्यं विवासयति तापसम्. ॥५०॥