सुंदरकांडम् - काव्य ३०१ ते ३५०

सुन्दरकाण्डम् या प्रकरणातील श्लोकातील पाचवे अक्षर श्री रा म ज य रा म ज य ज य रा म असे आहे.


इत्युक्त्वा तां रा जसुतां नत्वा निर्गत्य मारुतिः
बभंज तद्वनं कर्तुं युद्धं द्रष्टुं दशाननम्. ॥३०१॥
राक्षसीनां म हद्रूपं स चकार भयावहम्.
तास्तं दृष्ट्वा महाकायं पप्रच्छुर्जनकात्मजाम्. ॥३०२॥
‘ कोऽयं जल ज पत्राक्षि ! किंनिमित्तमिहागतः
संवादश्च कृतोऽनेन त्वया तत्कथयाखिलम्. ’ ॥३०३॥
उवाच न्या य निपुणा रक्षसां कामरूपिणाम्,
‘ विज्ञाने मम का शक्तिर्नैव जानामि को ह्ययम्. ॥३०४॥
भीतास्म्येनं रा त्रिचरं वेद्म्यहं कामरूपिणाम्,
यूयमेवास्य जानीत योऽयं यद्वा करिष्यति. ॥३०५॥
अहिरेव म तो ज्ञातुमहेः पादान्न संशयः. ’
इत्युक्तास्तास्ततो भीता राक्षस्यो रावणं गताः. ॥३०६॥
शशंशू र ज नीचर्यो, ‘ वानरः कश्चिदागतः.
जानक्या कृतसंवादस्तिष्ठत्यमितविक्रमः. ॥३०७॥
राजन् ! सा तो य जाक्षी तं प्लवगं कृतसाहसम्
नास्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति. ॥३०८॥
शक्तस्य रा ज राजस्य दूतो वायं महाबलः
प्रेषितो वापि रामेण सीतान्वेषणकांक्षया. ॥३०९॥
तेनैवाद्य य दत्यंतं प्रियं तव मनोहरम्
नानामृगखगाकीर्णं नाशितं प्रमदावनम्. ॥३१०॥
तस्मिन्वने रा क्षसेंद्र ! प्रदेशो नाशितोऽखिलः
यत्र सा जानकी देवी स एकोऽनेन रक्षितः. ’ ॥३११॥
तच्छ्रुत्वा स म हातेजा रावणो राक्षसेश्वरः
चिताग्निरिव जज्वाल कोपसंवर्तितेक्षण. ॥३१२॥
लोचनाभ्यां श्री दशत्रोः प्रपतन्नश्रुबिंदवः
दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहाबिंदवः. ॥२१३॥
किंकराख्यान् रा क्षसान् स व्यादिदेश महाबलान्
भवनात्तेऽयुतान्यष्टौ निर्ययुर्विविधायुधाः. ॥३१४॥
स प्लवंग म शार्दूलः पुच्छमाविध्य भूतले,
‘ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः. ॥३१५॥
स सुग्रीवो ज यति नो राजा रामेण पालितः
दासोऽहं कोसलेंद्रस्य हनूमान्मारुतात्मजः. ॥३१६॥
अहं निर्भ य एवास्मि शिलावृक्षनखायुधः
न रावणसहस्त्रं मे युद्धे प्रतिबलं भवेत्. ॥३१७॥
अर्दयित्वा रा क्षसानां पुरीं नत्वा च मैथिलीम्
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्. ’ ॥३१८॥
एवं तस्य म रुत्सूनोर्गर्जतो ध्वनिना खगाः
निपेतुर्नभसस्त्रस्तास्तेऽभवन्खलु किंकराः. ॥३१९॥
किंकरास्तेंऽ ज नासूनुमभिपेतुस्तिस्ततः.
स तैः परिवृतः शूरैः सर्वतः सुमहाबलः. ॥३२०॥
आससादा य सं भीमं परिघं तोरणाश्रितम्
घोरं परिघमादाय जघान रजनीचरान्. ॥३२१॥
द्वित्राः क्षत ज दिग्धांगा हतशेषा निशाचराः
निहतान् किंकरान्त्सर्वान् रावणाय न्यवेदयन्. ॥३२२॥
प्रहस्तका य जं राजा पाहिणोज्जंबुमालिनम्
अत्रांतरे कर्पिर्भंक्त्वा चैत्यप्रासादमद्भुतम्. ॥३२३॥
चैत्यस्तंभं रा मदूतो गृहीत्वा हंतुमागतान्
चैत्यपालान् शतं तेन जघान रजनीचरान्. ॥३२४॥
विश्राव्य ना म कार्यं च जंबुमालिनमागतम्
प्रगृह्य परिघं घोरं तं जघानानिलात्मजः. ॥३२५॥
तदाकर्ण्य श्री दबंधुः सप्तान्यान् मंत्रिनंदनान्
प्रेषयामास सबलान् स तानपि यमक्षयम्. ॥३२६॥
सेनापतीन् रा क्षसेंद्रो दुर्धरप्रमुखांस्ततः
पंच प्रहितवान् क्रुद्धः समरे दृष्टविक्रमान्. ॥३२७॥
जघान स म रे ! तानप्यतितेजा मरुत्सुतः
कुमारमक्षं च ततश्चोदयामास रावणः. ॥३२८॥
अक्षमप्यं ज नापुत्रो धृत्वा चरणयोर्बलात्
आविध्य व्योम्नि चिक्षेप व्यसुं तार्क्ष्य इवोरगम्. ॥३२९॥
ज्येष्ठं तन य मिंद्रस्य जेतारं रावणस्ततः
मारुतेः प्रेषयामास निग्रहायस्त्रविद्वरम्. ॥३३०॥
स तेजस्वी रा क्षसेंद्रं नत्वा कृत्वा प्रदक्षिणम्
व्यालैश्चतुर्भिर्युक्तं स्वं रथमारुह्य निर्ययौ. ॥३३१॥
इंद्रजित्स म रश्लाघी मारुतिश्च महाबलः
यक्षसिद्धर्षयोद्रष्टुं तयोर्युद्धं समागताः. ॥३३२॥
समेतावं ज नामंदोदरीपुत्रौ महाबलौ
सुरासुरेंद्राविव तौ बद्धवैरौ विशारदौ. ॥३३३॥
अवध्यं सं य ति ज्ञात्वा ब्रह्मास्त्रेणेंद्रजित्कपिम्
बबंधाथ स निश्चेष्टोऽभवद्भुव्यपतत्तदा. ॥३३४॥
मारुतिः कं ज जास्त्रं तद्बुद्ध्वात्मनि कृतास्पदम्
मुहूर्तमात्रान्मुक्तिं च ज्ञात्वासीन्मिपविह्वलः. ॥३३५॥
‘ नैवास्ति भ य मस्नान्मे बद्धस्येषदपि स्फुटम्
पितामहमहेंद्राभ्यां रक्षितस्यानिलेन च. ॥३३६॥
ग्रहणेऽथो रा क्षसैश्च महन्मे गुणदर्शनम्
राक्षसेंद्रेण संवादस्तस्माद्गृह्णंतु मां परे. ॥३३७॥
निश्चितार्थं म नस्येवं बबंधुः शणरज्जुभिः
स मुक्तोऽस्त्रेण, सहते नास्त्रबंधोऽन्यबंधनम्. ॥३३८॥
ना प्ता जय श्री रिति तं दृष्ट्वा बद्धं निशाचरैः
मेने मनस्यगाच्चितामस्त्रतत्त्वविंद्रिद्रजित्. ॥३३९॥
स राक्षसै रा वणस्य समीपं हृष्टमानसैः
क्षिपद्भिस्ताड्यद्भिश्च प्राकृष्यत कुबुद्धिभिः. ॥३४०॥
इंद्रजित्तं म हावीर्यमस्त्रमुक्तं प्लवंगमम्
रज्जुबद्धं रावणाय सगणाय व्यदर्शयत्. ॥३४१॥
दृष्ट्वा तं रा ज राजस्य भ्रातरं कपिपंडितः
मनसा चिंतयामास तेजसा तस्य मोहितः. ॥३४२॥
‘ अस्मिन्नेको य द्यधर्मो न स्याद्राक्षसनायके
स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता. ’ ॥३४३॥
प्रहस्तस्तं रा वणस्य निदेशादिदमब्रवीत्,
‘ समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ! ॥३४४॥
प्रेषितोऽसि म हेंद्रेण कुबेरेण यमेन वा
वरुणेनालयं राज्ञो दूतस्त्वं विष्णुनाथवा. ॥३४५॥
नैव त्वं ते ज सा भासि रूपमात्रेण वानरः
मोक्षः सत्यादसत्यात्तु दुर्लभं तव जीवितम् ॥३४६॥
रावणाल य एतस्मिन्प्रवेशोऽद्य त्वया कपे !
किंनिमित्तः कृतो ब्रूहि तत्वतो, मोक्षसे ततः. ’ ॥३४७॥
अब्रवीदं ज नापुत्रस्तदा रक्षोगणेश्वरम्
तेजसा भगवान्नंदी बाणो वेति विशंकितम् ॥३४८॥
‘ न शक्रस्य य मस्याहं श्रीदस्य वरुणस्य वा
जात्यैव कश्चित्प्लवगो विष्णुना नास्मि चोदितः. ॥३४९॥
अत्रागतो रा वणस्य दर्शनार्थमहं कपिः
तदिदं दुर्लभं, तेन नाशितं प्रमदावनम्. ॥३५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP