तन्त्रवार्तिके - श्लोक ५१ ते ७५
कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
अध्याहारादिभिर्मुक्ता व्यख्या सर्वत्र युज्यते ।
असम्भवादवश्यं या विरोधेsन्यतरस्य तु ॥५१॥
अन्याय्यकल्पना ( २ ) सापि विकल्पेन प्रसज्यते ।
प्राथम्येनावरुद्धत्वादुपायवशतोsथ ( १ ) वा ॥५२॥
यथाश्रुतेन सूत्रेण न्याय्यां बाधेत चोदनाम् ।
तेन वेदाsविरोधस्य ( २ ) सति सम्भवइत्ययम् ॥५३॥
विधीयतेsर्थः, शेषं तु यथा प्राप्तमनूद्यते ।
‘ शेषभाजां भवेल्लोप ’ इत्यध्याहारकल्पना ॥५४॥
‘ विप्रकर्षात् ’ पशोश्चेति विभक्तिः परिणम्यते ।
पदेन व्यवधानं तु ‘ लोके संनियमा ’ दिति ॥५५॥
सूत्रेण व्यवधानं तु पानव्यापदि कल्पितम् ।
पशुसामान्यविधादौ सूत्रमेवा sन्यथा कृतम् ॥५६॥
‘ अग्नयश्च स्वकालत्वाद्देयधर्माsपयातनम् ( १ ) ।
व्याख्यानं ( २ ) वाक्यभेदेन ’ ‘ गुणकल्पास्त्वमी कृताः ॥५७॥
औत्पत्तिकस्तु गव्यस्य तथोष्णिक्ककुभोरिति ।
दर्शनाच्च विशेषस्य तथाsभ्योदयइत्यपि ’ ॥५८॥
सूत्रकारप्रशंसा वा ‘ लोक ’ इत्यादिनोच्यते ।
प्रसिद्धैरभिधानाद्धि न शिष्याः क्लेशिता यतः ॥५९॥
भवतितव्यं तु तेनेति प्रागस्मादेकवाक्यता ।
वेदाध्ययनवाक्याद्वा तेनाथेत्यस्य दूषणम् ॥६०॥
प्रसिद्धार्थपदैः शक्यः सूत्रैर्वेदार्थनिर्णयः ।
न च सो sस्त्यशब्दस्य विना ते पूर्वकर्मणा ॥६१॥
प्रसिद्धार्थं पदं युक्तं तच्च नास्तीति दूषणम् ।
प्रसिद्धोsप्यथशब्दादेः किं पदार्थो sत्र वर्ण्यते ॥६२॥
प्रदर्शनार्थमित्येके के चिन्नानार्थवाचिनः ।
समुदायादवच्छिद्य भवदासेन कल्पितात् ॥६३॥
शक्तितो sवयवञ्चैव वर्णयन्त्यष्टमादिवत् ।
न चात्र चोदनाव्याख्या गौरवं तत्र चोदितम् ॥६४॥
यद्वाssक्षेपो यथोक्तस्य वृत्ताभावादसम्भवात् ।
यदि लोकप्रसिद्धार्थग्रहणं क्रियते पदे ॥६५॥
स नास्त्यत्राsथशब्दस्येत्यध्याहारादिकल्पनम् ।
वेदाsध्ययनवृत्तत्वं स्नानस्योत्कर्षकल्पना ॥६६॥
नाsव्याख्यातेsथशब्दार्थे ज्ञायते तेन वर्ण्यते ।
अनर्थकेsथ वाsन्यार्थे प्रसिद्धिर्याध्यते ध्रुवम् ॥६७॥
तस्माच्छुताsर्थसिद्ध्यर्थं वृत्तं किमपि गम्यते ।
विशिष्टलिङ्गविज्ञानाद्विशिष्टे लिङ्गिनीक्षिते ॥६८॥
सूत्रेणाsसम्भवं मत्वा नैतदित्यब्रवीत्परः ।
आनन्तर्योपदेशेन तद्दृष्टार्थतयाsपि च ॥६९॥
वेदाध्ययनमाक्षिप्तं किमसूत्रितचोदना ।
येन वृत्तेन जिज्ञासा विना नैवोपपद्यते ॥७०॥
तदानन्तर्यमुक्तं हि दृष्टार्थमवकल्पते ।
क्रियमाणा च जिज्ञासाsनियमाद्यस्य कस्य चित् ॥७१॥
क्रियेताsनन्तरैवेति व्यर्थं तदुपदेशनम् ।
संकल्पादिभिरप्येषा विना सत्यं न सिध्यति ॥७२॥
साधारण्यात्तु तेsप्यत्र नोपदेश्याः कथंचन ।
तस्माद्धर्मबुभुत्सायामसाधारणकारणम् ॥७३॥
निर्वृत्तं सूत्रकारेष्टं तच्च नाध्ययन्नादृते ।
अन्यस्यापीत्यनेनैव वेदपाठे प्रबाधिते ॥७४॥
प्रागपीति न वक्तव्यं तत्राsप्यन्यस्य सम्भवात् ।
पूर्वेणैव हि लब्धार्थे ‘ तादृशीं ’ त्वित्यनेन किम् ॥७५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP