चतुर्थ सर्ग - श्लोक ६१ ते ८०
श्रीविद्यारण्यस्वामिविरचितः
उच्चण्डाहितवावदूककुहनापाण्डित्यवैतण्डिकं
जाते देशिकशेखरे पदजुषां संतापचिन्तापहे ॥
कातर्यं हृदि भूयसाऽकृत पदं बैभाषिकादेः कथा -
चातुर्यं कलुशात्मनो लयमगाद्वैशेषिकादेरपि ॥६१॥
अमुना क्रतवः प्रसाधिताः
क्रतुविभ्रंशकरः स शंकरः ॥
इयमेव भिदाऽनयोर्जित -
स्मरयोः सर्वविदोर्बुधेड्ययोः ॥६२॥
कलयाऽपि तुलानुकारिणं
कलयामो न वयं जगत्त्रये ॥
विदुषां स्वसमो यदि स्वयं
भविता नेति वदन्ति तत्र के ॥६३॥
द्युवनान्त इवामरद्रुमा
अमरद्रुष्विव पुष्पसंचयाः ॥
भ्रमरा इव पुष्पसंचये -
ष्वतिसंख्याः किल शंकरे गुणाः ॥६४॥
कामं वस्तुविचारतोऽच्छिनदयं पारुष्यहिंसाक्रुधः
क्षान्त्या दैन्यपरिग्रहानृतकथालोभांस्तु संतोषतः ॥
मात्सर्यं त्वनसूयया मदमहामानौ चिरंभावित -
स्वान्योत्कर्षगुणेन तृप्तिगुणतस्तृष्णां पिशाचीमपि ॥६५॥
कामं यस्तु समूलघातमवधीत्स्वर्गापवर्गापहं
रोषं यः खलु चूर्णपेषमपिषन्निःशेषदोषावहम् ॥
लोभादीनपि यः परांस्तृणसमुच्छेदं समुच्चिच्छिदे
स्वस्यान्तेवसतां सतां स भगवत्पादः कथं वर्ण्यते ॥६६॥
केऽमी कान्त दिवा निशाकरकरा घर्मस्य मर्मच्छिदो
मुग्धे शंभुनवावतारसुगूरोरेते गुणानां गणाः ॥
कस्मादुत्पलसंततिर्विकसिता विस्मेरदिग्योषिता -
मेषाऽपाङ्गझरीतिदिग्गजवधूप्रश्नोत्तरे रेजतुः ॥६७॥
नाक्ष्णा माक्षिकमीक्षितं क्षणमपि द्राक्षा मुहुः शिक्षिता
क्षीरेक्षू समुपेक्षितौ भुवि यया सा शंकरश्रीगुरोः ॥
कान्तानन्तदिगन्तलङ्घनकलाजङ्घालतत्तद्गुण -
श्रेणी निर्भरमाधुरीमदधुरा धन्येति मन्यामहे ॥६८॥
क्षान्तिश्चेद्वसुधा जहातु महतीं सर्वंसहत्वप्रथां
विद्या चेद्विरहन्तु षण्मुखमुखाः स्वाखर्वगर्वावलीम् ॥
वैराग्यं यदि बादरायणियशः कार्श्यं परं गाहतां
किं जल्पैर्मुनिशेखरस्य न तुलां कुत्रापि वीक्षामहे ॥६९॥
या मूर्तिः क्षमया मुनीश्वरमयी गोत्रासगोत्रायते
विद्याभिर्निरवद्यकीर्तिभिरलं भाषाविभाषायते ॥
भक्ताभीप्सितकल्पनेन नितरां कल्पादिकल्पायते
कस्तां नान्यपृथग्जनैस्तुलयितुं मन्दाक्षमन्दायते ॥७०॥
न बभूव पुरातनेषु त -
त्सदृशो नाद्यतनेषु दृश्यते ॥
भविता किमनागतेषु वा
न सुमेरोः सदृशो यथा गिरिः ॥७१॥
समशोभत तेन तत्कुलं
स च शीलेन परं व्यरोचत ॥
अपि शीलमदीपि विद्यया
ह्यपि विद्याविनयेन दिद्युते ॥७२॥
सुयशःकुसुमोच्चयः श्रय -
द्विबुधालिर्गुणपल्लवोद्गमः ॥
अवबोधफलः क्षमारसः
सुरशाखीव रराज सूरिराट् ॥७३॥
न च *शेषभवी न कापिली
गणिता काणभुजी न गीरपि ॥
फणितिष्वितरासु का कथा
कविराजो गिरि चातुरीजुषि ॥७४॥
भट्टमास्करविमर्ददुर्दशा -
मज्जदागमशिरःकरग्रहा ॥
हन्त शंकरगुरोर्गिरः क्षर -
न्त्यक्षरं किमपि तद्रसायनम् ॥७५॥
जाटाटङ्कजटाकुटीरविहरन्नैलिम्पकल्लोलिनी -
क्षोणीशप्रियकृन्नवावतरणावष्टम्भगुम्फच्छिदः ॥
गर्जन्तोऽवतरन्ति शंकरगुरुक्षोणीधरेन्द्रोदरा -
द्वाणीनिर्झरिणीझराः क्क नु भयं दुर्भिक्षुदुर्भिक्षतः ॥७६॥
वारी चित्तमतङ्गजस्य नगरी बोधात्मनो भूपते -
दूरीभूतदुरन्तदुर्वदझरी हारीकृता सूरिभिः ॥
चिन्तासंततितूलवातलहरी वेदोल्लसच्चातुरी
संसाराब्धितरीरुदेति भगवत्पादियवाग्वैखरी ॥७७॥
कथादर्पोत्सर्पत्कथकबुधकण्डूलरसना -
सनालाधःपाते स्वयमुदयमन्त्रो वतिपतेः ॥
निगुम्फः सूक्तीनां निगमशिखराम्भोजसुरभि -
र्जयत्यद्वैतश्रीजयबिरुदघण्टाघणघणः ॥७८॥
कस्तूरीघनसारसौरमपरीरम्भप्रियंभावुका -
स्नापोन्मेषमुषो निशाकरकराहंकारकूलंकषाः ॥
द्राक्षामाक्षिकशर्करामधुरिमग्रामाविसंवादिनो
व्याहारा मुनिशेखरस्य न कथंकारं मुदं कुर्वते ॥७९॥
अद्वैते परिमुक्तकण्ठकपथेव कैवल्यघण्टापथे
स्वाहंपूर्वकदुर्विकल्परहितप्राज्ञाध्वनीनाकुले ॥
प्रस्कन्दन्मकरन्दवृन्दकुसुमस्रक्तोरणप्रक्रिया -
माचार्यस्य वितन्वते नवसुधासिक्ताः स्वयं सूक्तयः ॥८०॥
N/A
References : N/A
Last Updated : May 19, 2017
TOP