शिवभारत - अध्याय आठवा
श्रीछत्रपती शिवाजी महाराज यांच्या आज्ञेवरून लिहिलेलें कवीन्द्र परमानन्दकृत ' श्रीशिवभारत '
मनीषिण ऊचुः ।
शिवनेरीगिरौ जातः शिवराज इति त्वया ।
परमानन्द संप्रोक्तमस्ति नस्तत्र संशयः ॥१॥
स हि शैलो निजामस्य प्रियकारी महायशाः ।
प्रतापी प्रथितो लोके धारागिरिरिवापरः ॥२॥
अभूदागमनं तत्र यथा शाहमहीपतेः ।
तथा कथय नः सर्वं भट्टगोविंदनन्दन ॥३॥
कवीन्द्र उवाच ।
सुधामिवातिमाधुर्यवतीं पुण्यवतीमिमाम् ।
कथां शाहनरेन्द्रस्य श्रृणुत द्विजसत्तमाः ॥४॥
अस्तंगतेऽम्बरमणिप्रतापे बर्बरेऽम्बरे ।
निर्मन्त्रिणि निजामे च स्थितिसंजातसंशये ॥५॥
दिवंगते दैवयोगादिभरामेऽनुभाविनि ।
तत्सुते महमूदे च दृप्ते तत्पदवर्तिनि ॥६॥
सैन्ये साहिजहानस्य दिल्लीन्द्रत्वमुपेयुषः ।
दक्षिणां दिशमादातुमवलेपादुपागते ॥७॥
प्रतनेनानुबंधेन निजामोपचिकीर्षया ।
शाहराजो महाबाहुर्विजयाह्वं पुरं जहौ ॥८॥
अथ यादवराजोऽपि हित्वा ताम्रानुयायिताम् ।
पक्षपाती निजामस्य धारगिरिमुपागम् ॥९॥
अत्रान्तरे निजामस्य भृशं विश्रंभभाजनम् ।
वंश्यो विश्वासराजस्य शिवभक्तो महाव्रतः ॥१०॥
तनयः सिद्धपालस्य सुप्रसिद्ध्योऽतिवैभवः ।
शिवनेरिगिरिस्थायी नृपतिर्विजयाह्वयः ॥११॥
वराय शम्भुराजाय शाहराजसुताय वै ।
जयन्तीमात्मतनयामनुरूपाममन्यत ॥१२॥
शाहराजोऽपि संबंधं तं सुश्लाघ्यतमं भुवि ।
संविचिन्त्य स्नुषात्वेन जयन्तीं तमयाचत ॥१३॥
ततो विजयराजस्य शाहराजस्य चोभयोः ।
अभूद्यथोक्तसंबंधसुप्रयुक्तो महोत्सवः ॥१४॥
विश्वासराजवंश्यानां भूपानां भूरितेजसाम् ।
तथा भृशबलानां च समवायो महानभूत् ॥१५॥
स तयोः श्लाघ्यगुणयोर्जयन्तीशंभुराजयोः ।
शिवनेरिगिरावासीत्पाणिग्रहमहो महान् ॥१६॥
अथो कतिपयाहोभिस्तं समाप्य महोत्सवम् ।
तस्यैवच गिरेर्मूर्ध्नि स्वजनेन समन्विताम् ॥१७॥
संबंध्यनुमतः पत्नीमन्तर्वत्नीं निधाय ताम् ।
प्रतस्थे शाहनृपतिर्दर्याखानजिगीषया ॥१८॥
शिवनेरिगिरौ ह्यासीच्छाहस्यागमनं यथा ।
तथा कथितवानस्मि किमथ श्रोतुमिच्छथ ॥१९॥
मनीषिण ऊचुः ।
सद्यो दिल्लीश्वरं हित्वा पक्षपातिन्युपागते ।
महाव्रते महाराजे यदुराजे महाभुजे ॥२०॥
अभिक्रमपरैस्ताम्रमुखैर्योर्द्धुं समुद्यते ।
अभीप्समानः स्वाभीष्टं निजामः किमचेष्टत ॥२१॥
कवीन्द्र उवाच ।
अथ दैवान्निजामस्य विषयाविष्टचेतसः ।
हन्त दुर्मन्त्रिणो योगाज्जज्ञे मतिविपर्ययः ॥२२॥
तस्य मत्तस्य सविधे ययौ साधुरसाधुताम् ।
प्रियवादपरोऽत्यर्थमसाधुरपि साधुताम् ॥२३॥
विपरीतदृशा तेन गुरवोऽपि लघूकृताः ।
गुणोपेताश्च गुरवो नीताः शीघ्रमगौरवम ॥२४॥
अव्यवस्थितचित्तस्य मत्तस्य मधुनान्वहम् ।
अवद्यवादिनस्तस्य बत राष्ट्रमहीयत ॥२५॥
अथ प्रणंतुमायातमतीवप्रतिभान्वितम् ।
निजामो यादवाधीशमवमेने सुदुर्मतिः ॥२६॥
अवज्ञातो निजामेन महामांनी महामनाः ।
यदुराजस्तदा वीररसावेशवशोऽभवत् ॥२७॥
अथ सेनाधिपतयो हमीदाद्यास्सुदुर्मदाः ।
दुर्मन्त्रिते निजामेन पूर्वमेव प्रबोधिताः ॥२८॥
साभिमानं परावर्तमानं मत्तमिव द्विपम् ।
आस्थानीतोरणोपान्ते रुरुधुर्यादवेश्वरम् ॥२९॥
स तत्र बहुभिर्युध्यन् सपुत्रामात्यबान्धवः ।
प्रत्युद्यातः सुरगणैः सुरलोकमलोकत ॥३०॥
यथा मेरोर्विपर्यासः पातो भानुमतो यथा ।
यथा ह्यन्तः कृतान्तस्य दाहं पत्युरपां यथा ॥३१॥
तथा यादवराजस्य तदा यत्र वतात्ययः ।
सप्तानामपिलोकानामभूदल्पहितावहः ॥३२॥
तदवस्थमथ श्रुत्वा श्वशुरं यादवेश्वरम् ।
शाहो निजामसाहाय्याद्विरराम महायशः ॥३३॥
अथ तापीतटात्तूर्णमेत्य ताम्रपताकिनी ।
अधिष्ठितं निजामेन धारागिरिमवेष्टयत् ॥३४॥
समुह्य स्वां महामानी तदानीमेव येदिलः ।
पृतनां प्रेषयामास लुब्धो धारागिरिं प्रति ॥३५॥
सैन्यं साहिजहानस्य महमूदस्य चान्वहम् ।
अयुध्येतां मिथस्तत्र धारागिरिजिघृक्षया ॥३६॥
स्वयं निजामशाहोऽपि धारागिरिशिरस्थितः ।
तदा ताभ्यामपि द्वाभ्यामनीकाभ्यामयुध्यत ॥३७॥
ततोऽतिबलिभिस्ताम्रबलैर्युध्याद्भिरंजसा ।
महमूदस्य चानीकैर्निजामः पर्यभूयत ॥३८॥
ततः स तेन शैलेन सिअन्येन विविधेन च ।
यथाजातेन च तथा फतेखानेन मन्त्रिणा ॥३९॥
परिग्रहेण सर्वेण कोषेण च महीयसा ।
ममज्ज सहितस्तत्र ताम्राननबलार्णवे ॥४०॥
मनीषिण ऊचुः ।
यस्याशीतिसहस्राणि तुरगाणां तरस्विनाम् ।
अशीतिरद्रिदुर्गाणां चतुर्भिरधिका पुनः ॥४१॥
स्थले जले च यस्यासन् बत दुर्गान्य़नेकशः ।
समृद्धो विषयो यस्य वशे विद्वेषि दुर्गहः ॥४२॥
येन येदिलशाहस्य दिल्लीन्द्रस्य च मानिनः ।
पदे पदे बलं सर्वं जीवग्राहं व्यसृज्यत ॥४३॥
यस्याकस्मिकझंपस्य श्येनस्येवोत्पतिष्यतः ।
प्रभावेण न्यलीयन्त परिपंथिविहंगमाः ॥४४॥
स निजामस्तदा येन हेतुना विलयं गतः ।
शुश्रूषमाणान् नः सर्वान् कवीन्द्र तमुदीरय ॥४५॥
कवीन्द्र उवाच ।
समस्तपालनपरे पितर्युपरतेऽम्बरे ।
भवितव्यानुसारेण फत्तेखानोऽल्पचेतनः ॥४६॥
अमात्यतां निजामस्य प्रतिपद्य प्रतापवान् ।
तापयामास जनतां कृतान्त इव निष्क्रुपः ॥४७॥
निजामस्तस्य मन्त्रेण हमीदस्य च दुर्मतेः ।
यदाप्रभृति राजन्यं यदुराजं न्यघातयत् ॥४८॥
शाहराजप्रभृतयः तदाप्रभृति भूभृतः ।
सर्वे विमनसो भूत्वा म्लेच्छाश्च पृतनाभृतः ॥४९॥
अविश्रंभादमर्षाच्च साध्वसाच समाकुलाः ।
शिश्रियुर्येदिलं केऽपि केऽपि दिल्लीन्द्रमश्रयन् ॥५०॥
केचिच्च क्रूरमनसो विरुद्धत्वमुपाचरन् ।
तटस्थमिव चात्मानं बत केचिददर्शयन् ॥५१॥
तेन तेन तदा तस्य दुर्नयेन दुरात्मनः ।
अवृष्टिरजनिशःतोच्चैरनिष्टाय शरीरिणाम् ॥५२॥
चिरस्य विषये तस्य न ववर्ष वृषा यदा ।
सस्यं सुदुर्लभमभूत्स्वर्णं तु सुलभं तदा ॥५३॥
प्रस्थमात्राणि रत्नानि विनिमय्य धनीजनः ।
कथंचन समादत्त कुलत्थान्प्रस्थसंमितान् ॥५४॥
आहाराभावतोऽत्यर्थं हाहाभूताः परस्परम् ।
पशून्वै पशवो जक्षुर्मानुषा अपि मानुषान् ॥५५॥
तेनावर्षेण महता परचक्रागमेन च ।
अभावेन च मौलानामनीकस्य च भूयसः ॥५६॥
अनुक्षणं क्षीयमाणस्ताम्रास्यैरनुभाविभिः ।
धृतो धारागिरिपतिः फत्तेखानश्च दुर्मतिः ॥५७॥
अनुकूलेन कालेन सर्वं धत्तेऽनुकूलताम् ।
प्रतिकूलेन तेनैव सकलं प्रतिकूलताम् ॥५८॥
यस्यानुकूलो भगवान् काल एष सनातनः ।
अनायासेन सिध्यंति तस्य कार्याणि देहिनः ॥५९॥
जनिस्सत्ता च वृद्धिश्च विपाकोऽपचयोऽपि च ।
क्षयश्च षडमी भावाः विकाराः कालनिर्मिताः ॥६०॥
जयः पराजयो वापि वैरं मन्त्रिबलाबले ।
सविद्यत्वमविद्यत्वमुदारत्वं कदर्यता ॥६१॥
प्रवृत्तिश्च निवृत्तिश्च स्वातन्त्र्यं परतन्त्रता ।
समृद्धिरसमृद्धिश्च जायन्ते कालपर्ययात् ॥६२॥
मृत्युर्जन्मवयश्चापि तिस्रोऽवस्थाश्च तस्य ताः ।
कालादेवप्रवर्तन्ते तथा यज्ञादिकाः क्रियाः ॥६३॥
न कालेन विना बीजं न कालेन विनांकुरः ।
पुष्पं न कालेन विना फलम् ॥६४॥
तीर्थं न कालेन विना तपः ।
सिद्धिः न कालेन विना जयः ॥६५॥
भान्ति शशांकशुचिभास्कराः ।
वृद्धिमवृद्धिं चैति सागरः ॥६६॥
गंगामाजहार भगीरथः ।
कार्कलास्यान्मुक्तो नृगो नृपः ॥६७॥
रामो निजघान दशाननम् ।
लंकां प्रतिपेदे बिभीषणः ॥६८॥
कृष्णो गोर्वधनमदीधरत् ।
पार्थों वैकर्तनमजीघतत् ॥६९॥
सुखानामसुखानां च काल एव हि कारणम् ।
कालमेवेश्वरं मन्ये सर्गस्थित्यन्तकारिणम् ॥७०॥
संगरे भंगमासाद्य निजामो विलयं गतः ।
लब्ध्वा दैवगिरिं दैत्यो दिल्लीन्द्रो मुदमागतः ॥७१॥
तथा येदिलशाहोऽपि सैन्यभंगात् विलज्जितः ।
तदेतदखिलं कालाज्जात जानीत भो द्विजाः ॥७२॥
निरुध्य धारागिरि दुर्गमुग्रम् ।
ताम्राननैस्तत्र धृते निजामे ।
गताभिमाना विहितापयाना ।
बभूष सेना किल येदिलस्य ॥७३॥
इत्यनुपुराणे कवीन्द्रपरमानंदविरचितेऽष्टमोऽध्यायः ॥
N/A
References : N/A
Last Updated : September 11, 2017
TOP