कालकजापकाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


प्रथमो गुच्छः ।

देवो भवः स भवतां भवताद्विभूत्यै
यस्यावहन्त्यसितभूषणभोगिभोगः ।
नेत्रनलाकलितकालकलेवरोत्थ -
पर्यत्सुधूमपटलीवलनाविनोदम् ॥१॥
ततः कदाचिद्वत्सेशे सर्वास्थानसभास्थिते ।
तप्तकाञ्चनसच्छायमदृश्यत नभस्थलम् ॥२॥
गगनादवतीर्णोऽथ स्रग्वी रुचिरकुण्डलः ।
द्वितीय इव मार्तन्डः सभां विद्याधरोऽविशत् ॥३॥
स नेत्रानन्दसंदोहशशाङ्को रुचिराम्बरः ।
पूजितो वत्सराजेन पृष्टः प्राहाश्रितासनः ॥४॥
राजन्नशेशभुवनोद्यानचन्द्रोदयश्रिया ।
त्वत्कीर्या मानसोल्लासः कस्य नाम न जायते ॥५॥
सर्वविद्याधरेन्द्राणां चक्रवर्ती तवात्मजः ।
भविता शंकरादिष्टस्तमहं द्रष्टुमागतः ॥६॥
अथ प्राप्तनिजौत्साहमेनं वन्दामहे वयम् ।
जनैरभ्यधिकानन्दैर्बालेन्दुरभिनम्यते ॥७॥
शिखरे वज्रकूटाख्ये तुषारधरिणीभृतः ।
राजा वज्रप्रभाख्योऽहं विद्याभिर्वज्रविग्रहः ॥८॥
विद्याधरश्रियं पूर्णां शासतः शिवसेविनः ।
स्वप्रभावात्प्रणमतो जाता कल्पत्रयी मम ॥९॥
त्वत्पुत्रोऽस्मत्प्रभुः कल्पं चक्रवर्ती भविष्यति ।
नरवाहनदत्तोऽसौ पुरा सूर्यप्रभो यथा ॥१०॥
इति श्रुत्वा प्रहृष्टेन सादरं वत्सभूभुजा ।
पृष्टः सूर्यप्रभकथां प्राह विद्याधराधिपः ॥११॥
देवीभ्यां सहितो देवः सुहृद्भिर्मन्त्रिभिस्तथा ।
श्रृणु प्राप्ता मनुष्येण यथा विद्याधरेन्द्रता ॥१२॥
मद्रेषु शाकलपुरे राजा चन्द्रप्रभोऽभवत् ।
इन्द्रस्थाने सुरस्त्रीभिर्गीयते यत्पराक्रमः ॥१३॥
सर्वभोगसमृद्धेन प्रोक्ष्याज्यं ज्वलिताग्निना ।
यज्ञेनाथर्वणोक्तेन यो रुद्रं समतोषयत् ॥१४॥
तस्य कान्तिमती नाम कान्तिकल्लोलिनी प्रिया ।
रुचिभ्रमभ्रमद्द्वीचिरभूत्सौभाग्यवारिधीः ॥१५॥
तस्य स्कन्द इएशस्य जयन्त इव वज्रिणः ।
सूर्यप्रभोऽभवत्सूनुः प्रतापाक्रान्तभूधरः ॥१६॥
बभूवुः सचिवास्तस्य समग्रगुणदर्पणाः ।
महार्थश्च प्रभावश्च भासः सिद्धार्थकस्तथा ॥१७॥
चन्द्रप्रभो ददौ तस्मै यौवराज्यं मुदान्वितः ।
स्वयमेवार्पिता धर्म्यैरन्वये श्रीर्विलोक्यते ॥१८॥
ततः कदाचित्स्थाने स पुत्रं तं नगरेश्वरम् ।
दानवाधिपतिः श्रीमान्मयः कार्यार्थमाययौ ॥१९॥
तमालश्यामलः शुभ्रदंष्ट्रांशुशबलच्छविः ।
बलाकावलयव्याप्तः प्रावृषेण्य इवाम्बुदः ॥२०॥
स्फुरत्कुण्डलकेयूरमौलिरत्नांशुसंचयः ।
नृत्यच्छिखण्ड्यवचयो नीलाद्रिरिव जङ्गमः ॥२१॥
स पूजितो नृपतिना भेजे स्फाटिकमासनम् ।
गजेन्द्र इव विस्फारं तुषारगिरिकन्दरम् ॥२२॥
नम्रेण भूभुजा पृष्टः प्राहागमनकारणम् ।
स्निग्धगम्भीरनिर्घोषो विवर्षिषुरिवाम्बुदः ॥२३॥
राजन्महेश्वरादिष्टः पुत्रं सूर्यप्रभं तव ।
प्राप्तः समस्तविद्यानां नेतुं भाजनतामहम् ॥२४॥
विजित्य श्रुतिशर्माणमेष विद्याधरेश्वरम् ।
विद्याभृतां चक्रवर्ती भविता शिवशासनात् ॥२५॥
पक्षे स्थिताः सुराः सर्वे सशक्राः श्रुतिशर्मणः ।
वयं च तव पुत्रस्य दानवाः पक्षमाश्रिताः ॥२६॥
इति तद्वचसा राजा हर्षपीयूषनिर्भरः ।
उवाच त्वत्प्रसादेन सर्वमेतद्भविष्यति ॥२७॥
धन्यः सुतो मे यस्य त्वं श्रेयसे स्वयमुद्यतः ।
त्वादृशां दर्शनेनापि भवन्तीप्सितसिद्धयः ॥२८॥
इति ब्रुवाणं भूपालं तमथामन्त्र्य तद्गिरा ।
सूर्यप्रहं स सुचिरं पातालमनयत्प्रभुः ॥२९॥
तत्र तस्मै ददौ विद्यां सानुगाय यथाविधिः ।
भूतासनं विमानं च स्वयमेव विनिर्मितम् ॥३०॥
प्राप्तविद्यो विमानेन तूर्णमेत्य रसातलात् ।
ववन्दे राजतनयो जननीं जनकं तथा ॥३१॥
इतस्ततो विमानेन विचरन्पितुराज्ञया ।  
दिक्षु स्मराकृतिः प्राप्य स कन्याः स्वयमागताः ॥३२॥
गान्धर्वेण विवाहेन भेजे पूर्वं सुलोचनाम् ।
लावानकपतेः पुत्रीं पौरवस्य महीभृतः ॥३३॥
राज्ञो वीरभटाख्यस्य ताम्रलिप्तापतेः सुताम् ।
लेभे मदनसेनाख्यां मदनोद्यानमञ्जरीम् ॥३४॥
चीनकोट्टाधिनाथस्य सुरम्भाख्यस्य चात्मजाम् ।
संफूर्णचन्द्रवदनां विद्युन्मालामवाप्तवान् ॥३५॥
सुभटाख्यस्य तनयां कौङ्कणाधिपतेस्तथा ।
आससाद सुधासादिसौन्दर्यां चन्द्रिकावतीम् ॥३६॥
जनमेजयपुत्रीं च कौशाम्बीं हरिणेक्षणाम् ।
परपुष्टाभिधां प्राप जित्वा विघ्नार्थमुद्यताम् ॥३७॥
खेचरं हरिणा साक्षात्समरे परिपालितम् ।
दामोदराभिधं वीरं माषार्थपुरवासिनम् ॥३८॥
राज्ञो रम्भाभिधानस्य सुतां वज्रपुरप्रभोः ।
प्राप तारावलीं नाम श्यामां शीतांशुसुन्दरः ॥३९॥
तेषां महीभुजां गत्वा सानुगो गगनाग्रगः ।
पुराणि क्रमतो भेजे ताभिः परिणयोत्सवम् ॥४०॥
स ताभिः सह कान्ताभिः संनिवृत्तोत्सवोऽभितः ।
भेजे निजां पुरीं प्राप्य वाहिनीभिरिवाम्बुधिः ॥४१॥
ततः कदाचिदास्थानसभां पित्रा समाश्रिताम् ।
समेत्य पूजितः प्राह श्रीमान्मयमहासुरः ॥४२॥
राजपुत्र रिपुध्वंसे किमद्यापि विलम्बसे ।
प्रतापः कुण्ठतां सत्यं यात्यनुद्योगमन्थरः ॥४३॥
मानिनां सत्त्वमहतां वीराणां शौर्यवर्तिनाम् ।
उत्साहारम्भमात्रेण वर्धन्ते सर्वसंपदः ॥४४॥
इति तद्वचसा क्षिप्रं राजसूनुर्जयोन्मुखः ।
नृपेभ्यः प्राहिणोद्दूतं तूर्णमागम्यतामिति ॥४५॥
राज्ञासृष्टेषु दूतेषु सुहृत्संबन्धिबन्धुषु ।
सूर्यप्रभः सहामात्यो बभूव समरोत्सुकः ॥४६॥
अत्रान्तरे सुरमुनिः प्रभापिञ्जरिताम्बरः ।
तां सभां नारदोऽप्यायाद्विसृष्टः शतमन्युना ॥४७॥
स प्रविश्याप्तसत्कारः संप्राप्य कनकासनम् ।
शनैरुवाच राजानं दानवाधिपसंनिधौ ॥४८॥
अभिधत्ते सहस्राक्षः क्ष्मापते त्वां प्रमादिनम् ।
रुद्रयज्ञोद्धतः किं त्वं ममाप्यप्रियमीहसे ।४९॥
कुलक्रमागतो राजा श्रुतशर्मा महाबलः ।
विद्याधराणां तस्य त्वं प्रतिपक्षदशां श्रितः ॥५०॥
तस्य सर्वे वयं युद्धे विजयाशंसिनः स्वयम् ।
रुद्रयज्ञकृताश्वासः किं वृथा नृप माद्यसि ॥५१॥
एकयज्ञोद्धतो राजन्सहस्रशतयाजिभिः ।
स्पर्धां दधानस्त्रिदशैः कथमेको न लज्जसे ॥५२॥
बलवद्भिर्विरोधो हि हास्यायैव न सिद्धये ।
विफलो दुर्गतस्येव धनिकस्पर्धयोत्सवः ॥५३॥
नारदेनेति कथिते जातक्रोधे च भूपतौ ।
मयः प्राह स्फुरत्कोपकम्पव्याकुलकुण्डलः ॥५४॥
भगवन्न परिज्ञाय वीर्यसत्त्वबलाबलम् ।
संदिष्टं सुरराजेन रुद्रयज्ञावमानिना ॥५५॥
सहस्राक्षमुखा यस्य गीर्वाणाः पक्षमाश्रिताः ।
स खेचरश्रियं भुङ्क्ते श्रुतशर्मा किमद्भुतम् ॥५६॥
किं नु सूर्यप्रभजये स रुद्रः स्वयमुद्यतः ।
यदिच्छामात्रसंपत्तिर्जगतः प्रलयादयः ॥५७॥
शक्रः क्रतुशतावाप्तसत्त्वः सत्यं तदुच्यते ।
तत्र ब्रूमः क्रतुर्नाम बाह्यद्रविणडम्बरः ॥५८॥
किं यज्ञैर्विपुलायासैः किं व्रतैः कायशोषणैः ।
निर्व्याजसेवा सुभगा भक्तिर्येषां महेश्वरे ॥५९॥
पक्षपाते स्थिता यूयमस्मद्वैरिकुलेषु यत् ।
तन्न शङ्कास्पदं युष्मत्प्रभावो विदितो हि नः ॥६०॥
छलेन वञ्चितो यश्च बलिस्तत्कस्य मानसम् ।
प्रीणाति यच्च तेनैव ते वृत्रप्रमुखा हताः ॥६१॥
मयस्येति वचः श्रुत्वा समामन्त्र्य नृपं ययौ ।
भगवान्नारदो व्योम्ना चन्द्रराशिरिवोज्ज्वलः ॥६२॥
ततश्चन्द्रप्रभो राजा दूतैः संबन्धिनो नृपान् ।
आनिनाय मयेनोक्तः पुत्रस्य जयसिद्धये ॥६३॥
सुरम्भः पौरवो वीरः प्रभटो जनमेजयः ।
रम्भोदयश्च ते वीरास्ततस्तूर्णं समाययुः ॥६४॥
सूर्यप्रभं हरादिष्टः सानन्द नन्दिकेश्वरः ।
समेत्याह स्म दिव्यां त्वं स्वां श्रियं प्राप्स्यसीत्यथ ॥६५॥
इरावतीचन्द्रभागासंगमे व्रतदीक्षितम् ।
कृत्वा चन्द्रप्रभं हृष्टः सपुत्रमवदन्मयः ॥६६॥
भार्याः सूर्यप्रभस्यैता भूपते जनकैः सह ।
तिष्ठन्त्विहैव पातालं प्रविशामो वयं नृप ॥६७॥
इति दानवनाथेन निर्दिष्टो वसुधाधिपः ।
चन्द्रप्रभस्तथा कृत्वा सभार्यः ससुतोऽविशत् ॥६८॥
सूर्यप्रभे प्रविष्टेऽथ पित्रा सह रसातलम् ।
श्रुतशर्मा समभ्यायान्नभसा गुटिकाधरः ॥६९॥
स राजपुत्रदयितास्ता जहार बहिः स्थितः ।
मायया मोहयित्वशु तान्नृपान्युद्धसंमुखान् ॥७०॥
सुतावियोगशोकेन व्याकुला वसुधाधिपाः ।
ते भर्तुमुद्यतास्तत्र शुश्रुवुर्नभसो वचः ॥७१॥
रक्षिताः शंकरेणाप्ता राजपुत्रस्य वल्लभाः ।
श्रुतशर्मा न शक्तोऽसावेतन्मुखनिरीक्षणे ॥७२॥
दुःखं भजत मा यूयं जित्वा सूर्यप्रभा रिपून् ।
करिष्यत्येव कान्तानां बन्दिग्रहविमोक्षणम् ॥७३॥
इति व्योम्नि वचः श्रुत्वा राजानस्ते धृतिं श्रिताः ।
जहुः शोकं च मोहं च बबन्धुश्च जये मनः ॥७४॥
चन्द्रप्रभादयस्तेऽपि सानुगाः स्वप्रभोज्ज्वलम् ।
पातालगृहमासाद्य शुश्रुवुर्मयभाषितम् ॥७५॥
यूयं विपुलसन्त्वाद्यां पृथक्कर्मसहं वपुः ।
भजध्वं वज्रकठिनं तुल्यं दानवभूभुजाम् ॥७६॥
अत्र भावोऽसुसंदेहः स्मृत्याहं भावविभ्रमे ।
इयं देहपरवृत्तिश्चन्द्रावरणसंनिभा ॥७७॥
वासनानुगतो देही गृहाद्गृहमिवागतः ।
शरीरान्तरमासाद्य भुङ्क्ते कर्म शुभाशुभम् ॥७८॥
देहान्तरे स्वदेहे वा नायं नश्यति सर्वदा ।
धेनुस्वर्णादिदानानां फलभोगः कुतोऽन्यथा ॥७९॥
जपध्यानमयं योगं राजेन्द्र भज सांप्रतम् ।
भोगापव्र्गसंकल्पकल्पवृक्षो यतो जपः ॥८०॥
अत्रैव श्रूयतां राजन्पौराणीं जपिनः कथाम् ।
बभूव कालको नाम द्विजातिर्जपतत्परः ॥८१॥
वरं गृहाणेत्यवदत्तं कालेन प्रजापतिः ।
भूत्वा स निश्चलध्यानो जप इत्यवदच्च सः ॥८२॥
तस्यान्यवरवैमुख्यात्प्रवृद्धे जपिनः फले ।
भीताः शतक्रतुमुखास्तद्विघ्नं समचिन्तयन् ॥८३॥
तत्प्रभावाग्निसंतप्तैरपि देवैः पुरस्थितैः ।
पुनः पुनः प्रार्थ्यमानो नाग्रहात्प्रचचाल सः ॥८४॥
ततस्तदर्थितः प्रायात्तुहिनाचलकन्दरम् ।
भवन्तु मन्दसंतापास्त्रिदशा इति शीतलम् ॥८५॥
जपन्तं तत्र भूपालो ब्रह्मणा प्रेरितोऽथ तम् ।
उवाचेक्ष्वाकुरभ्येत्य गृहाण द्विज मद्वरम् ॥८६॥
भवान्ददातु वा मह्यमिति श्रुत्वा स जापिकः ।
मानी राजानमवदद्ददाम्येवास्मि तद्वरम् ॥८७॥
इति विप्रवचः श्रुत्वा सहसा क्षितिपोऽभ्यधात् ।
प्रयच्छ मे जपस्यार्धमित्युक्त्वानुशयं ययौ ॥८८॥
सहस्रांशुकुले जातः कथं नु पृथिवीपतिः ।
उत्तानपाणिर्निर्लज्जः सहे याचकतामिति ॥८९॥
ततो यदृच्छयायातौ विवादाकुलितौ द्विजौ ।
तत्रैव न्यायमिक्ष्वाकुनृपं पप्रच्छतुर्मिथः ॥९०॥
एकः पप्रच्छ नृपतिं गौरनेन समर्पिता ।
प्रतिप्रदत्तां गृह्णाति नायमित्युद्धताशयः ।
दत्तं नैव पुनर्ग्राह्यमित्यन्योऽप्यवदद्द्विजः ॥९१॥
अत्र न्यायं नृपः पृष्टो विचार्येक्ष्वाकुरब्रवीत् ।
दीयमानं न गृह्णीयात्स तु दुर्नयवानिति ॥९२॥
ततो देवा नृपं प्राहुस्त्वमप्येवंविधो नृप ।
दत्तं यो नैव गृह्णति जपस्यार्धं द्विजन्मनः ॥९३॥
परोपदेशे सर्वो हि सदा भवति पण्डितः ।
इति राजा सुरगिरा जपार्धं फलमग्रहीत् ॥९४॥
ततो दिव्यविमानेन प्रययौ शिवमच्युतम् ।
धाम भूमिपतिर्वन्द्यं सुरासुरनमस्कृतम् ॥९५॥
व्ययीकृतं च संपूर्य जपस्यार्धमथ द्विजः ।
स बभूव ततः क्षिप्रं तेजः परममाश्रितः ॥९६॥
इत्येवं जपयोगेन दुर्लभं प्राप्यते नृप ।
तस्माद्भवानपि क्षिप्रं जपतां जपमुत्तम म् ॥९७॥
इति कालकजापकाख्यायिका ॥१॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP