गन्धर्वदत्ताप्राप्तिः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति तद्वचसा व्योमयानारूढो नृपात्मजः ।
ददर्श कुलशैलेन्द्रान्बलाकानिव भूतले ॥६०॥
जलपात्रमिवाम्भोधिं नदीं शतपदीमिव ।
पश्यन्समीरणपथा स ययौ दयिताङ्कगः ॥६१॥
क्षणं वेगवतीवक्त्रशशाङ्कोद्भसितं नभः ।
बभूवामृतकल्लोलक्षाल्यमानमिवाभितः ॥६२॥
कुतिलावर्तविधुरं राजसूनोः सितांशुकम् ।
कर्पूरकर्णपूरत्वमगमद्गगनश्रियः ॥६३॥
तस्य सूर्यकरोच्चण्डकुण्डलाताण्डवैर्बभौ ।
आखण्डलधनुर्दण्डामण्डितेवाभ्रमण्डली ॥६४॥
वेगाद्गतिविलोलेन तस्या हारेण हारिणा ।
रराजोद्दण्डडिण्डीरपाण्डुराब्धिनिभं नभः ॥६५॥
अत्रान्तरे नरपतेः सहसान्तःपुरोदरे ।
उदतिष्ठद्गते तस्मिन्करुणो रोदनध्वनिः ॥६६॥
प्रियासखः क्क यातो मे पुत्रको नरवाहनः ।
सा गत्वा तं समुद्रस्य तीरे कनकपर्वते ॥६७॥
नीत्वास्थाप्य पुरं याता द्रष्टुं मदनमञ्चुकाम् ।
तत्र विद्याधरपतिं सा तमन्धगृहेऽक्षिपत् ॥६८॥
वीणादत्ताभिधानोऽथ श्रीमान्दिव्यकुमारकः ।
तमुज्जहार सख्येन कुलं सुकृतवानिव ॥६९॥
कथितान्वयनामानं नरवाहनमाह सः ।
इह सागरदत्ताख्यो गन्धर्वाधिपतेः पतिः ॥७०॥
गन्धर्वदत्ता तस्यास्ति पुत्री तस्या मृगीदृशः ।
विष्णुगीतिकृतज्ञाय देयाहमिति निश्चयम् ॥७१॥
वयं तच्च न विद्मेह गीताभ्यासपरायणाः ।
निःशब्दजनसंचारे वल्लकीपाणयः स्थितः ॥७२॥
श्रुत्वेति गीतिकाभिज्ञं सत्यमस्मीतिवादिनम् ।
वीणादत्तो निनायाशु तत्पुरं नरवाहनम् ॥७३॥
तत्र गन्धर्वराजस्य सभायामभिपूजितः ।
शुश्राव वीणां तत्पुत्र्याः सारमञ्जुलमूर्च्छनाम् ॥७४॥
केशांशमिश्रया तन्त्र्या श्रुत्यंशो विस्तरीकृतः ।
इत्युक्त्वा राजपुत्रस्तां स्वयं जग्राह वल्लकीम् ॥७५॥
वाललेशं विचार्यासौ गायन्वैष्णवगीतकम् ।
वीणास्वनस्य वाद्येन गन्धर्वा विस्मयं ययुः ॥७६॥
प्रतिज्ञापाठमुच्चार्य वरपुत्रीं वरे स्थिताम् ।
ततो गन्धर्वदत्तां स ददर्श वरवर्णिनीम् ॥७७॥
दृशा कुवलयाकीर्णां त्विषा शशिसमाकुलाम् ।
भ्रुवा स्मरधनुर्व्याप्तं विदधानामिवाखिलाम् ॥७८॥
पित्रार्पितां तां लावण्यनलिनीं नरवाहनः ।
प्राप्य फुल्लोत्पलदृशं विजहार स्मराकृतिः ॥७९॥
इति गन्धर्वदत्ताप्राप्तिः ॥३॥

N/A

References : N/A
Last Updated : October 27, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP