सत्त्वशीलाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
नमोऽस्तु भावनामात्रनानावर्णविधायिने ।
त्र्यक्षचित्रकृते लक्ष्यत्रैलोक्याश्चर्यकारिणे ॥१॥
नरवाहनदत्तोऽथ प्रौढयौवनमण्डितः ।
अभूद्विलासलतिकाविकाशकुसुमाकरः ॥२॥
( स हेमकदलीकुञ्जे पारिजातलतावने ।
मन्दारामोदसुभगे विजहार सुहृद्वृतः ॥३॥
ततः प्राह समभ्येत्य हर्षपूर्णस्तपन्तकः(?) ।
आश्चर्यदर्शनाकोशनयनो नयनोत्सुकः ॥४॥
सखे व्योमावती नाम दृष्टा विद्याधरी मया ।
मनोजकुञ्जरस्येव निमज्जनसरोजिनी ॥५॥
त्वां द्रष्तुमिच्छति क्षिप्रमेहीत्याकर्ण्य तद्वचः ।
तूर्णं तद्देशमभ्यागात्कौतुकान्नरवाहनः ॥६॥
पतितं लाञ्छनमृगं स्वयमन्वेष्टुमागतम् ।
स ददर्श शशाङ्कस्य कान्तिं मूर्तिमतीमिव ॥७॥
त्रिवलीकुलसंसर्पिहारहंसा मनोभुवः ।
हरहुंकारहुतभुङ्निर्वापणनदीमिव ॥८॥
निमग्नामिव श्रृङ्गारे संक्रान्तामिव यौवने ।
बिम्बितामिव लावण्ये मिलितामिव विभ्रमे ॥९॥
तां विलोक्य मनोमीनविस्तीर्णगुणजालिकाम् ।
बालिकां मन्मथस्येव यात्रामङ्गलमालिकाम् ॥१०॥
अर्च्यमान इवालोलकटाक्षोत्पलदामभिः ।
तया मनोभवधिया प्रोवाच नरवाहनः ॥११॥
कस्यासि कान्तिकल्लोलमाला कमललोचने ।
कैर्भागधेयैरस्माकं दर्शितामृतवाहिनी ॥१२॥
श्रुत्वेति तद्वचो हृष्टा सावदद्दशनांशुभिः ।
चन्द्रोपमा म्लानिमिव क्शालयन्ती कपोलयोः ॥१३॥
अस्ति युष्मद्यशःशुभ्रः श्रीमान्मलयभूधरः ।
यस्य प्रमाणं माहात्म्ये गौरीगुरुरिति श्रुतिः ॥१४॥
नलिनासनहंसालीकलक्काणमनोहरा ।
स्वकीर्तिर्वैजयन्तीव भाति य अस्य त्रिमार्गगा ॥१५॥
कान्तिपिञ्जरितव्योम्नि तस्य काञ्चनशेखरे ।
अस्ति हेमप्रभो नाम विद्याधरधरापतिः ॥१६॥
अलंकारप्रभा नाम दयिता तस्य सुन्दरी ।
दिशो विभाति यत्कान्तिभ्रान्तिसीमन्तिता इव ॥१७॥
सा कदाचित्प्रियं दृष्ट्वा चिन्तास्तिमितलोचनम् ।
उवाच देव कोऽयं ते वीरस्य धृतिविप्लवः ॥१८॥
भयप्रदोऽसि शत्रुभ्यो द्विजेभ्यः कनकप्रदः ।
प्रीतिप्रदोऽसि कान्ताभ्यो राजकुञ्जर गीयसे ॥१९॥
इति प्रियावचः श्रुत्वा प्राह हेमप्रभो मुहुः ।
चिन्तानलपरिस्पन्दमुच्छ्वासैर्दीपयन्निव ॥२०॥
वंशमुक्तामणिः पुत्रो नास्त्यधन्यस्य मे शुभम् ।
न्ष्फला चन्दनस्येव न श्रीः प्रीणाति मे मनः ॥२१॥
नेत्रामृतं श्रुतिसुधाहृदयानन्दनिर्भरः ।
पीयूषपेशलस्पर्शः किं किं नाम न पुत्रकः ॥२२॥
अवाप्यते धनं धन्यैर्यशश्च विशदाशयैः ।
निरवद्यैस्तथा विद्यास्तनयस्तु सुदुर्लभः ॥२३॥
राजा ब्रह्मधनो नाम चित्रकूटाधिपोऽभवत् ।
सेवकः सत्त्वशीलाख्यस्तस्याभूदुचिताशयः ॥२४॥
स सुवर्णशतं लेभे राज्ञः प्रत्यहवेतनम् ।
निजभोजनपर्यन्तं तच्चार्थिभ्यः सदा ददौ ॥२५॥
विवृत्तानि निधानानि तस्योदारमतेः पुरः ।
आसंस्तद्द्रविनैः सोऽर्थिसार्थसंख्यामपूरयत् ॥२६॥
सगोत्रैः शत्रुभिर्दाता स राज्ञे विनिवेदितः ।
निधिपूर्ण इति क्षिप्रं नृपाहूतश्च सोऽवदत् ॥२७॥
देव प्राप्तनिधानोऽहमिहापि त्वत्पुरो लभे ।
गृहाणेति समुद्धाट्य निधानं भूभुजे ददौ ॥२८॥
एवं स सत्तसंप्राप्तविभवो नृपपूजितः ।
त्र्यम्बकव्रतसंपन्नो दाता पुत्रमयाचत ॥२९॥
तमाह तुष्टो भगवान्वत्स सिद्धिमवाप्स्यसि ।
न तु द्रक्ष्यसि पुत्रस्य जन्मन्यस्मिन्मुखाम्बुजम् ॥३०॥
इत्येवं सत्त्वशीलेन तुष्टेऽपि शशिशेखरे ।
न प्राप्तस्तनयो देवि कुलश्रीमणिदर्पणः ॥३१॥
इति सत्त्वशीलाख्यायिका ॥१॥
N/A
References : N/A
Last Updated : October 27, 2017
TOP