शिवराजाभिषेकप्रयोग: - सप्तमेऽहनि

गागाभट्टकृत राजाभिषेकप्रयोग: ।


[ज्येष्ठ शु० १२ शुक्रवार शके १५९६:  ५ जून १६७४]
अथैन्द्री शांति: । सप्तमेऽहनि आचार्यो नवकुंभेन सं सं स्रवन्तु नद्य: घेतां तर्हदा इति तिसृभि: शुध्दजलमानीय शं त आपो हैमवती इति पंचमि: रत्नैरुत्तरत: स्थाप्य तेनोदकेन संभारान्‍ संप्रोक्ष्य । त्यमू ष वाजिनं त्रातारमिंद्र आ मन्द्रैरिन्द्रं हरिभिरिति तिस्र: : स्वस्तिदा विशस्पतिरित्युपस्थाव अग्रे पुरतो गोचर्ममात्रमुपलिप्प । तत्र कुंभं संस्थाप्य । तत्र श्वेतवस्त्रे कुंकुमेनाष्टदलं लिखित्वा । तत्र कर्षसुवर्णनिर्मितां इन्द्रप्रतिमां अग्न्युतारणपंचगण्याशोधनपूर्व निधाय । इंद्र जुषस्वेति तत्र इन्द्रमावाह्य । षोडशोपचारै: प्रपूजयेत्‍ । पंचामृतै: स्नापयेत्‍ । वस्त्रगंधपुष्पाणि पीतानि पूजांते मधुपर्के कुंडलमुद्रिकाचामरछन्नोयानाव्दितानध्वजपताका निषेद्य । दक्षिणां पुष्पांजलिं समर्प्य नत्वा । इन्द्र जुषस्वेति सूक्तेन सफलमर्ध्य दद्यात्‍ । ततो अग्रे: परिसमूहनादि ऐन्द्रचरु निर्वापपूर्वकं आज्यभागांतं कुर्यात्‍ । कांस्यपात्रे अतिसृष्टोऽपां भाग इति उदकमानीय सर्वा इमा आप ओषधय: सान्त्विति ब्रह्माणमावेद्य तेन तथैवानुज्ञात: तत्रौषधीरावाहयामि । इत्यौषधीरावाह्य गायत्र्या अम्बयो यम ऋ.८ आपो हि ष्ठा ऋ.१ हिरण्यवर्णा ऋ. १५ शिवा न : शंतमा भव शं नो वात: १ इन्द्र जुषस्वेति सूक्तेन तज्जलमभिमंत्र्य तेन भिरग्रिं प्रोक्ष्य कांस्योदकशेषं पूर्वकुंभे निक्षिप्य । तत: अश्ववस्तुलोमानि व्रीहिमुकुउशीरगुग्गुलपिपल्पलाबुबीजानि विषसह देवी शरपुष्पशरमूलानि चातनगणेन जुहुयात्‍ । आजमाविकं वा माहिषं वा घृतं चातनगणेन हुत्वा । आश्चत्थ-आतसी -पारिजात-जारुषी-त्रापसी-खादिरी-आपमार्ग-पलाश-शमी-समिधोऽभावे पलाशारेव चातनगणेन जुहुयात्‍ । तेनैवाग्रिमुपस्थाय । तत सप्तधान्य-खादिर - अपामार्ग:-शुठी-वचा-भृंगराज: शतावरी शाल्मली चंदनं सहदेवी गुर्जरप्रसिध्दपीठणीनामकं पृष्णीपणी मुर्दीरसिंग प्रसिध्द अजशृंगी श्वेतदूर्वान्‍ इत्येतानेकीकृत्य तूष्णी तद्‍हुत्वा कलशसमीपे औदुंबरदंडं गौरसर्षपान्‍ शतपुष्पपुत्रकदशाश्मसिकता: पोटलिकां शरावे स्थापयेत्‍ । तत्रैवान्यस्मिन्‍ क्षरावे कुशमूलमणि सुवर्णसूत्र निबध्य स्थापयेत्‍ । ततो वक्ष्यमाणमंत्रै: राज्यहोमं कुर्वन्‍  होमशेषं संपातेन मणिं प्रतिसरं कुभीदकं चाभिधारयेत्‍ । ततो  होममंडपाद्वहि: चतुर्दिक्षु उपलिप्य सिकता विकीर्य शांत्यभि: संप्रोक्ष । तत्र पाषाणान्‍ स्थापयेत्‍ । व्दारो परिदेशं च लेपयेत्‍ । तत: सुर्वण पूर्वा दिदिक्षु येस्यां पृथिव्यो मस्यायुषानाम्ने हियत्तेनाधुष्ठं नाम यज्ञियं तेन त्वा दधे स्वाहा । ये व्दितीयस्यां अपि तृतीयस्यां ये चतुर्थस्यां पृथिव्यामिति चतुर्दिक्षु हुत्वा । प्राचीं दिशमवधायेति मंत्रचतुष्टयेन प्रतिदिशं उपतिष्टेत्‍ । तत: प्राड्‍मुख उपविश्य । शांतिगणेन कृत्यागणेन चातनगणेन मातृनामगणेन वास्तेष्पतिगणेन पाप्महागणेन यक्षनाशनगणेन दु:स्वप्रनाशनगणेन आयुष्यगणेन वर्चस्यगणेन स्वस्त्ययनगणेन अभयगणेन अपराजितगणेन शर्मवर्मगणेन रौद्रगणेन पात्नीवतागणेन च जुहुयात्‍ । ते चाग्रे वक्ष्यन्ते । ततो दधिसक्तून रक्षोम्यो नम: इति दक्षिणत: क्षिपेत्‍ । तत: संपातकलशोदकेन पवित्रं शतधारमित्याभिषेकमंत्रै: सपत्नीकं यजमानं अभिषिच्य । पूर्वस्थापितमणिं दधिमध्वक्तं कृत्वा इंद्र जुषस्वेति सूक्तेनाभिमंच्य बहौ वध्नीयात्‍ ।
ऊँ इमं वध्नामि ते मणिं दीर्घायुत्वाय तेजसे । दर्भ सपत्नदंभनं व्दिषतस्तपनं दृद: ॥१॥
व्दिषतस्तापयन्हृद: शत्रूणां तापयन्मण: । दुर्हार्द: सर्वास्त्वं दर्भ धर्म इवाभिन्त्संतापयन्‍ ॥२॥
धर्म इवाभितपन्दर्भ व्दिषतो नितपन्मणे । हृद: सपत्नानां भिन्ध्दिन्द्र इव विरुजं बलम्‍ ॥३॥
भिन्ध्दि दर्भ सपत्नानां हृदयं व्दिषतां मणे । उद्यन्त्वचमिव भूम्या: शिरं एषां वि पातय ॥४॥
भिन्ध्दि दर्भ मे व्दिषतो मणे ॥५॥
छिम्ध्दि दर्भ सपत्नान्मे छिन्ध्दि मे पृतनायत: । छिन्ध्दि मे सर्वान्‍ दुर्हार्दान्‍ छिन्ध्दि मे व्दिषतो मणे ॥६॥
वृश्च दर्भ सपत्नान्मे वृश्च मे पृतनायत: । वृश्च मे सर्वान्दुर्हार्दो वृश्च मे व्दिषतो मणे ॥७॥
कृन्त दर्भ सपत्नान्मे कृन्त मे पृतनायत: । कृन्त मे सर्वान्दुर्हार्दा कृन्त मे व्दिषतो मणे ॥८॥
पिंश दर्भ सपत्नान्मे पिंश मे पृतनायत: । पिंश मे सर्वान्दुर्हार्द: पिंश मे व्दिषतो मणे ॥९॥
विध्य मे व्दिषतो सपत्नान्मे विध्य मे पृतनायत: । विध्य मे सर्वान्दुर्हार्दो विध्य मे व्दिषतो मणे ॥१०॥
ऊँ निक्ष दर्भ सपत्नान्मे निक्ष मे पृतनायत: । निक्ष मे सर्वान्दुर्हार्दो निक्ष मे व्दिषतो मणे ॥१॥
तृन्ध्दि दर्भ सपत्नान्मे तृन्ध्दि मे पृतनायत: । तृन्ध्दि मे सर्वान्‍ दुर्हार्दस्तृन्ध्दि मे व्दिषतो मणे ॥२॥
रुन्ध्दि दर्भ सपत्नान्मे रुन्ध्दि मे पृतनायत: । रुन्ध्दि मे सर्वान्दुर्हार्दो रुन्ध्दि मे व्दिषतो मणे॥३॥
मृण दर्भ सपत्नान्मे मृण मे पृतनायत: । मृण मे सर्वान्दुर्हार्दो मृण मे व्दिषतो मणे ॥४॥
मन्थ दर्भ सपत्नान्मे मन्थ मे पृतनायत: । मन्थ मे सर्वान्‍ दुर्हार्दो मन्थ मे व्दिषतो मणे ॥५॥
पिंढ्ढी दर्भ सपत्नान्मे पिंढ्ढि मे पृतनायत: । पिंढ्ढि मे सर्वान्दुर्हार्द: पिढ्ढि मे  व्दिषतो मणे ॥६॥
ओष दर्भ समत्नामे ओष मे पृतनायत: । ओष मे सर्वान्दुर्हार्द ओष मे व्दिषतो मणे ॥७॥
दह दर्भ सपत्नान्मे दह मे पृतनायत: । दह मे सर्वान्दुर्हार्दो दह मे व्दिषतो मणे ॥८॥
जहि दर्भ सपत्नान्मे जहि मे पृतनायत: । जहि मे सर्वान्दुर्हार्दो जहि मे व्दिषतो मणे ॥९॥
ऊँ यत्ते दर्भ अरामृत्यु: शतं वर्मसु कर्म ते । तेनेमं धर्मिणं कृत्वा सपलां जहि वीर्ये: ॥१॥
शतं ते दर्भ धर्माणि सहस्रं वीर्याणि ते । समस्मै विश्वे त्यां देवा अरसे भर्तवा अदु: ॥२॥
त्वामाहुदेवधर्म त्या दर्भ ब्रह्मणस्यतिम्‍ । त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥३॥
सपत्नक्षयणं दर्भ व्दिषतस्तपनं हृद: । मणिं क्षत्रस्य वर्धानं तनूपानं कृणोमि ते ॥४॥
यत्समुद्रो अभ्यक्रन्दत्य र्जभ्यो बिद्युता सह । ततो हिरण्ययो बिन्दुस्ततो दर्भो अजायत ॥५॥
ततो नवबवस्त्रव्दयं परिधाय चरुं इन्द्र जुषस्वेति सत्पृचमबदान धर्मेणावदाय हुत्वा पूर्णाहुतिं हुत्वा वसोध्दारा च पाययित्वा आचार्याय ग्रामं ऋत्विग्भ्यो यथाशक्तिदक्षिणां दद्यात्‍ । तत: उत्तरपूजां विसर्जनं च विधाय । प्रतिमां आचार्याय प्रतिपाद्य । गच्छगच्छत्यग्रि विसृज्य । अयुतं सहस्रं शतं वा ब्राह्मणान्‍ भोजयित्वा कर्मसंपूर्णतां वाचयित्वा ईश्वरार्पणं कुर्यात्‍ । इत्यैन्द्रीशान्ति: ॥

N/A

References : N/A
Last Updated : January 14, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP