श्री चन्द्राष्टाविंशतिनामस्तोत्रम्

मनुष्य आपल्या पूर्व जन्मींच्या कर्मानुसार हा जन्म भोगत असतो, पण या जन्मीच्या सर्व पीडा नवग्रहांच्या पूजा अर्चा करून जीवन सुखमय बनवू शकतो.


चन्द्रस्य शृणु नामानि शुभदानि महीपते ।
यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥१॥

सुधाकरोविधुः सोमो ग्लौरब्जः कुमुदप्रियः ।
लोकप्रियः शुभ्रभानुः चन्द्रमा रोहिणीपतिः ॥२॥

शशी हिमकरो राजा द्विजराजो निशाकरः ।
आत्रेय इन्दुः शीतांशुरोषधीशः कलानिधिः ॥३॥

जैवातृको रमाभ्राता क्षीरोदार्णवसंभवः ।
नक्षत्रनायकः शंभुशिरश्चूडामणिर्विभुः ॥४॥

तापहर्ता नभोदीपो नामान्येतानि यः पठेत् ।
प्रत्यहं भक्तिसंयुक्तः तस्य पीडा विनश्यति ॥५॥

तद्दिने च पठेद्यस्तु लभेत् सर्वं समीहितम् ।
ग्रहादीनां च सर्वेषां भवेत् चन्द्रबलं सदा ॥६॥

N/A

References : N/A
Last Updated : December 31, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP