मराठी मुख्य सूची|स्तोत्रे|देवी स्तोत्रे|
बन्धूकवर्णामरुणां सुगात्र...

स्वयंवर पार्वती स्तोत्रम् - बन्धूकवर्णामरुणां सुगात्र...

देवी आदिशक्ती माया आहे. तिची अनेक रूपे आहेत. जसे ती जगत्‌कल्याणकारी तसेच दुष्टांचा संहार करणारीही आहे.
The concept of Supreme mother Goddess is very old in India. The divine mother has been worshipped as 'Shakti' since vedic times


बन्धूकवर्णामरुणां सुगात्रां
शंभुं समुद्दिश्य शनैरुपेताम् ।
अम्भोजमृद्वीमभिलाषदात्रीं
संभावये निर्जरदारुकल्पाम् ॥१॥
ह्रींमन्थराणि चरणाग्र गतिप्रपाते-
ष्वामञ्जुसंक्वणित कङ्कण किङ्किणीनि ।
कामं कुमारि! तव तानि शिवे! स्मरामि
क्षेमङ्कराणि जनकालय खेलनानि ॥२॥
योगेन बाल्यवयसो ललितां पुरस्तात्
द्रागेव कण्ठविलसत् कनकोर्मिकौघाम् ।
आकम्रनद्धरशनां भवतीं निरीक्षे
श्रीकण्ठभामिनि कदा प्रपदीनवेणीम् ॥३॥
गीर्यल्पमुग्धविशदं,नवयौवनश्री-
धुर्यं,विलासमयमक्ष्णि,कृशं विलग्ने ।
पर्युच्छ्रितं कुचभरे,जघने घनं यत्
पर्युत्सुकोऽस्मि सततं जननि प्रसीद ॥४॥
निर्धूतकुण्डलमुदञ्चितघर्मलेशं
विस्रस्तकेशमभितश्चलदीक्षणान्तम् ।
निर्ध्वानिकङ्कणमुदग्रकुचान्तमन्त-
र्बध्नामि तातगृहकन्दुकखेलनं ते ॥५॥
योगेश्वरं प्रचुरभक्ति गिरीशमारा-
 देकान्तवर्तिनमुपेत्य तपश्चरन्तम् ।
आकांक्षया परिचरिष्णुमनाकुलां त्वां
ये केचिदीश्वरि भजन्ति त एव धन्याः ॥६॥
गिर्यात्मजे! मदनदाहमहावमान-
पर्याकुला पुरहरे हृदयं निधाय ।
कुर्यास्तपो विदधती कुशलानि भूभृत्-
पर्यायपीनकुचकुम्भविशुंभदङ्गी ॥७॥
निध्याय मानसदृशा मुहुरिन्दुचूडं
मध्ये स्थिता रहसि पञ्चहुताशनानां ।
तत्तादृशेन तपसा जगदण्डभाजां
वित्रासदात्रि! परिपाहि सदाशिवे! नः ॥८॥
योग्यं वटोर्वपुरुपस्थितमात्मभक्तिं
दीर्घां परीक्षितुमनुक्षणमाक्षिपन्तं ।
साक्षात् गिरीशमवधूय त्वया प्रयाते
द्राक्तेन संश्रितपदां भवतीं भजामः ॥९॥
गेहे निजे वरणदामलसत्कराब्जां ।
व्याहारिनूपुरमुदञ्चितमन्दहासां ।
नीहारभानुधरमुच्चलितां वरीतुं
मोहावहां त्रिभुवनस्य भजामहे त्वाम् ॥१०॥
श्वस्ताहि कङ्कणविलोकनभीतभीतं
प्रत्यग्ररागविवशं मम तं निधेहि ।
उत्स्वेदवेपथु पिनाकिभृता गृहीतं
रुद्राणि दक्षिणकरांबुजमुत्तमाङ्गे ॥११॥
रिष्टापहं भवतु भर्तृनखेन्दुबिंब-
स्पष्टानुबिंबिततनुं विबुधापगां ताम् ।
दृष्ट्वाशु रागरभसोदयशोणकोणं
दृष्टिद्वयं तव करग्रहणे स्थितं नः ॥१२॥
योगे नवे तव भवानि शिवानि दद्यात्
द्रागेव सत्वरमपत्रपया निवृत्तम् ।
साकम्पमालिवचनैर्विहिताभिमुख्यं
द्रागुत्स्मितं पुरभिदा परिरब्धमङ्गम् ॥१३॥
गत्या नितंबभरमन्थरया सलज्जै-
रर्धेक्षणैरसकलाक्षरवाग्विलासैः ।
हृद्यैश्च विभ्रमगुणैर्मदनारिधैर्य-
प्रस्तारहारिणिशिवे! जननि! प्रसीद ॥१४॥
भद्रा मुखेन्दुनमनादभिवीक्षणेषु
प्रत्युक्तिदानविरमान्नवसत्कथासु ।
उद्वेपनादपि हठात् परिरंभणेषु
पत्युः प्रमोदजननी जननि! प्रसीद ॥१५॥
यं नाथमादिमुनयो निगमोक्तिगुंभे-
ष्वालक्ष्य तान्तमनसो विमुखी भवन्ति ।
सन्नह्य तेन दयितेन मनोजविद्या-
नन्दानुभूतिरसिके! जननि! प्रसीद ॥१६॥
कल्याणकुन्तलभरं नवकल्पवल्ली-
पुष्पोल्लसद् बहुलसौरभलोभनीयम् ।
कल्याणधाम शशिखण्डमखण्डशोभा-
कल्लोलितं तव महेश्वरि संश्रयामः ॥१७॥
रिञ्चोलिका तव शिवे! निटिलालकानां
न्यञ्चत् पटीर तिलके निटिले विभान्ती ।
मञ्जुप्रसन्नमुखपद्म विहारि लक्ष्मी-
पिञ्छातपत्ररुचिरा हृदि नः समिन्धाम् ॥१८॥
सम्यग्भ्रुवौ तव विलासभुवौ स्मरामः
संमुग्ध मन्मथ शरासन चारुरूपे ।
हृन्मध्यगूढनिहितं हरधैर्यलक्ष्यं
यन्मूलयन्त्रितकटाक्षशरैर्विभिन्नम् ॥१९॥
कम्राः सितासितरुचा श्रवणान्तदीर्घाः
बिम्बोकडम्बरभृतो निभृतानुकम्पाः ।
संपातुका मयि भवन्तु पिनाकिवक्त्र-
बिंबाम्बुजन्ममधुपाः सति! ते कटाक्षाः ॥२०॥
लग्नाभिराममृगनाभि विचित्रपत्रं
मग्नं प्रभासमुदये तव गण्डबिम्बम् ।
चित्ते विभातु सततं मणिकुण्डलोद्य-
द्रत्नानुबिम्बपरिचुंबितमंबिके नः ॥२१॥
स्थाणोः सदा भगवतः प्रियतानिधानं
प्राणादपि प्रविललत्स्मितलोभनीयम् ।
स्थानीकुरुष्व गिरिजे! तव बन्धुजीव-
श्रेणीसगन्धमधरं धिषणान्तरे नः ॥२२॥
वन्दामहे कनकमंगलसूत्रशोभा-
सन्दीप्तकुङ्कुमवलित्रयभंगि रम्यम् ।
मन्द्रादिकस्वर विकस्वरनादविद्या-
सन्दर्भगर्भमगजे! तव कण्ठनालम् ॥२३॥
रक्षार्थमत्र मम मूर्धनि धत्स्व नित्यं
दक्षारिगाढपरिरंभरसानुकूलम् ।
अक्षामहेमकटकाङ्गदरत्नशोभं
लाक्षाविलं जननि! पाणियुगं त्वदीयम् ॥२४॥
जंभारिकुम्भिवरकुम्भनिभामुरोज-
कुंभद्वयी ललितसंभृतरत्नमालाम् ।
शंभोर्भुजैरनुदिनं निबिडाङ्कपाली-
संभावितां भुवनसुन्दरि! भावयामः ॥२५॥
गर्वापहे वटदलस्य तनूदरान्ते
निर्व्यूढभासि तव नाभिसरस्यगाधे ।
शर्वावलोकरुचि मेदुररोमवल्ली-
निर्वासिते वसतु मे धिषणामराली ॥२६॥
मच्चेतसि स्फुरतु माररथाङ्गभंगीं
उच्चैर्द्दधानमतिपीवरतानिधानम् ।
स्वच्छन्दरत्नरशनाकलितान्तरीय-
प्रच्छन्नमम्ब! तव कम्रनितंबबिम्बम् ॥२७॥
स्यन्दानुरागमदवारिपुरारिचेत-
स्सन्नागबन्धमणिवेणुकमूरुकाण्डम् ।
बन्दीकृतेन्द्रगजपुष्करमुग्धरंभं
नन्दाम सुन्दरि! शिवे! हृदि सन्दधानाः ॥२८॥
मुग्धोल्लसत्कनकनूपुरनद्ध नाना-
रत्नाभयोर्ध्वगतया परितोऽभिरामम् ।
चित्तप्रसूति जयकाहलकान्ति जंघा-
युग्मं त्वदीयमगनन्दिनि! चिन्तयामः ॥२९॥
खट्वांगपाणिमकुटेन तदा तदा सं-
घृष्टाग्रयोः प्रणतिषु प्रणयप्रकोपे
अष्टाङ्गपातसहितं प्रणतोस्मि लब्धु-
मिष्टां गतिं जननि! पादपयोजयोस्ते ॥३०॥
हृद्यर्पणं मम मृजन्तु तदा त्वदंग-
मुद्यद्रविद्युति भवेदिह सानुबिम्बम् ।
उत्तुङ्गदैत्यसुरमौलिभिरुह्यमाना:
रुद्रप्रिये! तव पदाब्जभवाः परागाः ॥३१॥
दद्यात् सुखानि मम चक्रकलान्तरस्था
रक्तांबराभरणमाल्यधरा जपाभा ।
रुद्राणि पाशसृणिचापशराग्रहस्ता
कस्तूरिकातिलकिनी नवकुंकुमार्द्रा ॥३२॥
यत्पङ्कजन्मसुषमंकरपद्मशुंभ-
दंभोरुहं भुवनमङ्गलमाद्रियन्ते ।
अंभोरुहाक्षसुकृतोत्करपाकमेकं
संभावये हृदि शिवे! तव शक्तिभेदम् ॥३३॥
मन्दारकुन्दसुषमा करपल्लवोद्यत्
पुण्याक्षदामवरपुस्तकपूर्णकुंभा ।
चन्द्रार्धचारुमकुटा नवपद्मसंस्था
सन्देदिवीतु भवती हृदि नस्त्रिनेत्रा ॥३४॥
मध्येकदंबवनमास्थितरत्नडोलां
उद्यन्नखाग्रमुखरीकृतरत्नवीणाम् ।
अत्यन्तनीलकमनीयकलेबरां त्वां
उत्संगलालित मनोज्ञ शुकीमुपासे ॥३५॥
वर्तामहे मनसि सन्दधतीं नितान्त-
रक्तां वराभयविराजिकरारविन्दाम् ।
उद्वेलमध्यवसतिं मधुरांगि! मायां
तत्त्वात्मिकां भगवतीं भवतीं भजन्तः ॥३६॥
शंभुप्रियां शशिकलाकलितावतंसां
संभाविताभयवरां कुशपाशपाणिम् ।
संपत्प्रदाननिरतां भुवनेश्वरीं त्वां
शुम्भज्जपारुचमपारकृपामुपासे ॥३७॥
आरूढतुङ्गतुरगां मृदुबाहुवल्लीं
आरूढपाशसृणिवेत्रलतां त्रिनेत्राम् ।
आरोपितामखिलसन्तनने प्रगल्भां
आराधयामि भवतीं मनसा मनोज्ञाम् ॥३८॥
कर्मात्मिके जयजयाखिलधर्ममूर्ते
चिन्मात्रिके जय जय त्रिगुणस्वरूपे ।
कल्माषघर्मपिशुनान् करुणामृतार्द्रैः
संमार्ज्य सम्यगभिषिञ्च दृगञ्चलैर्नः ॥३९॥
षण्णामसि त्वमधिदैवतमक्षराणां
वर्णत्रयोदितमनुप्रकृतिस्त्वमेव ।
त्वन्नाम विश्वमनुशक्तिकलं त्वदन्यत्
किन्नाम दैवतमिहास्ति समस्तमूर्ते ॥४०॥
या कापि विश्वजनमोहनदिव्यमाया
श्री कामवैरिवपुरर्धहरानुभावा ।
प्राकाश्यते जगदधीश्वरि! सा त्वमस्मान्
मूकाननन्यशरणान् परिपाहि दीनान् ॥४१॥
कर्त्र्यै नमोऽस्तु जगतो निखिलस्यभर्त्र्यै
हर्त्र्यै नमोऽस्तु विधिविष्णुहरात्मशक्त्यै ।
भुक्त्यै नमोऽस्तु भुवनाभिमतप्रसूत्यै
मुक्त्यै नमोऽस्तु मुनिमण्डलदृश्यमूर्त्यै ॥४२॥
षड्वक्त्रहस्तिमुखजुष्टपदस्य भर्तु-
रिष्टोपगूहनसुधाप्लुतमानसस्य
दृष्ट्या निपीय वदनेन्दुमदक्षिणाङ्के
तुष्ट्या स्थिते! वितर देवि! दयावलोकान् ॥४३॥
यत्नान्तरं भवितृभूतभवं मया यत्
स्वप्नप्रजागरसुषुप्तिषु वाङ्मनोऽङ्गैः ।
नित्यं त्वदर्चनकलासु समस्तमेतत्
भक्तानुकम्पिनि! ममास्तु तव प्रसादात् ॥४४॥
स्वाहेति सागरसुतेति सुरापगेति
व्याहाररूपसुषमेति हरिप्रियेति ।
नीहारशैलतनयेति पृथक्प्रकाश-
रूपां परेशमहिषीं भवतीं भजामः ॥४५॥
हारस्फुरत्कुचगिरे! हरजीवनाथे!
हारिस्वरूपिणि! हरिप्रमुखाभिवन्द्ये! ।
हेरंबशक्तिधरनन्दिनि! हेमवर्णे!
हे चण्डि! हैमवति! देवि!नमोनमस्ते ॥४६॥
ये तु स्वयंवरमहास्तवमन्त्रमेतं
प्रातर्नराः सकलसिद्धिकरं जपन्ति ।
भूतिप्रभावजनरञ्जनकीर्तिसौन्द-
र्यारोग्यमायुरपि दिर्घममी लभन्ते ॥४७॥
शतक्रतुप्रभृत्यमर्त्यतत्यभिप्रणित्युप-
क्रमप्रसृत्वरस्मितप्रभाञ्चितास्यपङ्कजे! ।
हरप्रिये! वरप्रदे! धराधरेन्द्रकन्यके
हरिद्रया समन्विते दरिद्रतां हर द्रुतं ॥४८॥

N/A

References : N/A
Last Updated : January 03, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP