सृष्टिखण्डः - अध्यायः ११

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः॥
सूतसूत महाभाग व्यासशिष्य नमोस्तु ते॥
श्राविताद्याद्भुता शैवकथा परमपावनी ॥१॥
तत्राद्भुता महादिव्या लिंगोत्पत्तिः श्रुता शुभा॥
श्रुत्वा यस्याः प्रभावं च दुःखनाशो भवेदिह ॥२॥
ब्रह्मनारदसंवादमनुसृत्य दयानिधे॥
शिवार्चनविधिं ब्रूहि येन तुष्टो भवेच्छिवः ॥३॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्वा पूज्यते शिवः॥
कथं कार्यं च तद् ब्रूहि यथा व्यासमुखाच्छ्रुतम् ॥४॥
तच्छ्रुत्वा वचनं तेषां शर्मदं श्रुतिसंमतम्॥
उवाच सकलं प्रीत्या मुनि प्रश्नानुसारतः ॥५॥
सूत उवाच॥
साधु पृष्टं भवद्भिश्च तद्रहस्यं मुनीश्वराः॥
तदहं कथयाम्यद्य यथाबुद्धि यथाश्रुतम् ॥६॥
भवद्भिः पृच्छयते तद्वत्तथा व्यासेन वै पुरा॥
पृष्टं सनत्कुमाराय तच्छ्रुतं ह्युपमन्युना ॥७॥
ततो व्यासेन वै श्रुत्वा शिवपूजादिकं च यत्॥
मह्यं च पाठितं तेन लोकानां हितकाम्यया ॥८॥
तच्छ्रुतं चैव कृष्णेन ह्युपमन्योर्महात्मनः॥
तदहं कथयिष्यामि यथा ब्रह्मावदत्पुरा॥९॥
ब्रह्मोवाच॥
शृणु नारद वक्ष्यामि संक्षेपाल्लिंगपूजनम्॥
वक्तुं वर्षशतेनापि न शक्यं विस्तरान्मुने ॥१०॥
एवं तु शांकरं रूपं मुखं स्वच्छं सनातनम्॥
पूजयेत्परया भक्त्या सर्वकामफलाप्तये ॥११॥
दारिद्र्यं रोगदुःखं च पीडनं शत्रुसंभवम्॥
पापं चतुर्विधं तावद्यावन्नार्चयते शिवम् ॥१२॥
सम्पूजिते शिवे देवे सर्वदुःखं विलीयते॥
संपद्यते सुखं सर्वं पश्चान्मुक्तिरवाप्यते ॥१३॥
ये वै मानुष्यमाश्रित्य मुख्यं संतानतस्सुखम्॥
तेन पूज्यो महादेवः सर्वकार्यार्थसाधकः ॥१४॥
ब्राह्मणाः क्षत्रिया वैश्याश्शूद्राश्च विधिवत्क्रमात्॥
शंकरार्चां प्रकुर्वंतु सर्वकामार्थसिद्धये ॥१५॥
प्रातःकाले समुत्थाय मुहूर्ते ब्रह्मसंज्ञके॥
गुरोश्च स्मरणं कृत्वा शंभोश्चैव तथा पुनः ॥१६॥
तीर्थानां स्मरणं कृत्वा ध्यानं चैव हरेरपि॥
ममापि निर्जराणां वै मुन्यादीनां तथा मुने ॥१७॥
ततः स्तोत्रं शुभं नाम गृह्णीयाद्विधिपूर्वकम्॥
ततोत्थाय मलोत्सर्गं दक्षिणस्यां चरेद्दिशि ॥१८॥
एकान्ते तु विधिं कुर्यान्मलोत्सर्गस्स यच्छ्रुतम्॥
तदेव कथयाम्यद्य शृण्वाधाय मनो मुने ॥१९॥
शुद्धां मृदं द्विजो लिप्यात्पंचवारं विशुद्धये॥
क्षत्रियश्च चतुर्वारं वैश्यो वरत्रयं तथा ॥२०॥
शूद्रो द्विवारं च मृदं गृह्णीयाद्विधिशुद्धये॥
गुदे वाथ सकृल्लिंगे वारमेकं प्रयत्नतः ॥२१॥
दशवारं वामहस्ते सप्तवारं द्वयोस्तथा॥
प्रत्येकम्पादयोस्तात त्रिवारं करयोः पुनः ॥२२॥
स्त्रीभिश्च शूद्रवत्कार्यं मृदाग्रहणमुत्तमम्॥
हस्तौ पादौ च प्रक्षाल्य पूर्ववन्मृदमाहरेत् ॥२३॥
दंतकाष्ठं ततः कुर्यात्स्ववर्णक्रमतो नरः ॥२४॥
विप्रः कुर्याद्दंतकाष्ठं द्वादशांगुलमानतः॥
एकादशांगुलं राजा वैश्यः कुर्याद्दशांगुलम् ॥२५॥
शूद्रो नवागुलं कुर्यादिति मानमिदं स्मृतम्॥
कालदोषं विचार्य्यैव मनुदृष्टं विवर्जयेत् ॥२६॥
षष्ट्याद्यामाश्च नवमी व्रतमस्तं रवेर्दिनम्॥
तथा श्राद्धदिनं तात निषिद्धं रदधावने ॥२७॥
स्नानं तु विधिवत्कार्यं तीर्थादिषु क्रमेण तु॥
देशकालविशेषेण स्नानं कार्यं समंत्रकम् ॥२८॥
आचम्य प्रथमं तत्र धौतवस्त्रेण चाधरेत्॥
एकान्ते सुस्थले स्थित्वा संध्याविधिमथाचरेत् ॥२९॥
यथायोग्यं विधिं कृत्वा पूजाविधिमथारभेत्॥
मनस्तु सुस्थिरं कृत्वा पूजागारं प्रविश्य च ॥३०॥
पूजाविधिं समादाय स्वासने ह्युपविश्य वै॥
न्यासादिकं विधायादौ पूजयेत्क्रमशो हरम् ॥३१॥
प्रथमं च गणाधीशं द्वारपालांस्तथैव च॥
दिक्पालांश्च सुसंपूज्य पश्चात्पीठं प्रकल्पयेत् ॥३२॥
अथ वाऽष्टदलं कृत्वा पूजाद्रव्यं समीपतः॥
उपविश्य ततस्तत्र उपवेश्य शिवम् प्रभुम् ॥३३॥
आचमनत्रयं कृत्वा प्रक्षाल्य च पुनः करौ॥
प्राणायामत्रयं कृत्वा मध्ये ध्यायेच्च त्र्यम्बकम् ॥३४॥
पंचवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम्॥
सर्वाभरणसंयुक्तं व्याघ्रचर्मोत्तरीयकम् ॥३५॥
तस्य सारूप्यतां स्मृत्वा दहेत्पापं नरस्सदा॥
शिवं ततः समुत्थाप्य पूजयेत्परमेश्वरम् ॥३६॥
देहशुद्धिं ततः कृत्वा मूल मंत्रं न्यसेत्क्रमात्॥
सर्वत्र प्रणवेनैव षडंगन्यासमाचरेत् ॥३७॥
कृत्वा हृदि प्रयोगं च ततः पूजां समारभेत्॥
पाद्यार्घाचमनार्थं च पात्राणि च प्रकल्पयेत् ॥३८॥
स्थापयेद्विविधान्कुंभान्नव धीमान्यथाविधि॥
दर्भैराच्छाद्य तैरेव संस्थाप्याभ्युक्ष्य वारिणा ॥३९॥
तेषु तेषु च सर्वेषु क्षिपेत्तोयं सुशीतलम्॥
प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् ॥४०॥
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत्॥
जातीकं कोलकर्पूरवटमूल तमालकम् ॥४१॥
चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके॥
एतत्सर्वेषु पात्रेषु दापयेच्चन्दनान्वितम् ॥४२॥
पार्श्वयोर्देवदेवस्य नंदीशं तु समर्चयेत्॥
गंधैर्धूपैस्तथा दीपैर्विविधैः पूजयेच्छिवम् ॥४३॥
लिंगशुद्धिं ततः कृत्वा मुदा युक्तो नरस्तदा॥
यथोचितं तु मंत्रौघैः प्रणवादिर्नमोंतकैः ॥४४॥
कल्पयेदासनं स्वस्तिपद्मादि प्रणवेन तु॥
तस्मात्पूर्वदिशं साक्षादणिमामयमक्षरम् ॥४५॥
लघिमा दक्षिणं चैव महिमा पश्चिमं तथा॥
प्राप्तिश्चैवोत्तरं पत्रं प्राकाम्यं पावकस्य च ॥४६॥
ईशित्वं नैर्ऋतं पत्रं वशित्वं वायुगोचरे॥
सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते ॥४७॥
सोमस्याधस्तथा सूर्यस्तस्याधः पावकस्त्वयम्॥
धर्मादीनपि तस्याधो भवतः कल्पयेत् क्रमात् ॥४८॥
अव्यक्तादि चतुर्दिक्षु सोमस्यांते गुणत्रयम्॥
सद्योजातं प्रवक्ष्यामीत्यावाह्य परमेश्वरम् ॥४९॥
वामदेवेन मंत्रेण तिष्ठेच्चैवासनोपरि॥
सान्निध्यं रुद्रगायत्र्या अघोरेण निरोधयेत् ॥५०॥
ईशानं सर्वविद्यानामिति मंत्रेण पूजयेत्॥
पाद्यमाचनीयं च विधायार्घ्यं प्रदापयेत् ॥५१॥
स्थापयेद्विधिना रुद्रं गंधचंदनवारिणा॥
पञ्चागव्यविधानेन गृह्यपात्रेऽभिमंत्र्य च॥ ॥५२॥
प्रणवेनैव गव्येन स्नापयेत्पयसा च तम्॥
दध्ना च मधुना चैव तथा चेक्षुरसेन तु ॥५३॥
घृतेन तु यथा पूज्य सर्वकामहितावहम्॥
पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत् ॥५४॥
पवित्रजलभाण्डेषु मंत्रैः तोयं क्षिपेत्ततः॥
शुद्धीकृत्य यथान्यायं सितवस्त्रेण साधकः ॥५५॥
तावद्दूरं न कर्तव्यं न यावच्चन्दनं क्षिपेत्॥
तंदुलैस्सुन्दरैस्तत्र पूजयेच्छंकरम्मुदा ॥५६॥
कुशापामार्गकर्पूर जातिचंपकपाटलैः॥
करवीरैस्सितैश्चैव मल्लिकाकमलोत्पलैः ॥५७॥
अपूर्वपुष्पैर्विविधैश्चन्दनाद्यैस्तथैव च॥
जलेन जलधाराञ्च कल्पयेत्परमेश्वरे ॥५८॥
पात्रैश्च विविधैर्देवं स्नापयेच्च महेश्वरम्॥
मंत्रपूर्वं प्रकर्तव्या पूजा सर्वफलप्रदा ॥५९॥
मंत्राँश्च तुभ्यं ताँस्तात सर्वकामार्थसिद्धये॥
प्रवक्ष्यामि समासेन सावधानतया शृणु ॥६०॥
पाठयमानेन मंत्रेण तथा वाङ्मयकेन च॥
रुद्रेण नीलरुद्रेण सुशुक्लेन सुभेन च ॥६१॥
होतारेण तथा शीर्ष्णा शुभेनाथर्वणेन च॥
शांत्या वाथ पुनश्शांत्यामारुणेनारुणेन च ॥६२॥
अर्थाभीष्टेन साम्ना च तथा देवव्रतेन च ॥६३॥
रथांतरेण पुष्पेण सूक्तेन युक्तेन च॥
मृत्युंजयेन मंत्रेण तथा पंचाक्षरेण च ॥६४॥
जलधाराः सहस्रेण शतेनैकोत्तरेण वा॥
कर्तव्या वेदमार्गेण नामभिर्वाथ वा पुनः ॥६५॥
ततश्चंदनपुष्पादि रोपणीयं शिवोपरि॥
दापयेत्प्रणवेनैव मुखवासादिकं तथा ॥६६॥
ततः स्फटिकसंकाशं देवं निष्कलमक्षयम्॥
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥६७॥
ब्रह्मेन्द्रोपेन्द्रविष्ण्वाद्यैरपि देवैरगोचरम्॥
वेदविद्भिर्हि वेदांते त्वगोचर मिति स्मृतम् ॥६८॥
आदिमध्यान्तरहितं भेषजं सर्वरोगिणाम्॥
शिवतत्त्वमिति ख्यातं शिवलिंगं व्यवस्थितम् ॥६९॥
प्रणवेनैव मंत्रेण पूजयेल्लिंगमूर्द्धनि॥
धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैः सुन्दरैस्तथा ॥७०॥
नीराजनेन रम्येण यथोक्तविधिना ततः॥
नमस्कारैः स्तवैश्चान्यैर्मंत्रैर्नानाविधैरपि ॥७१॥
अर्घ्यं दत्त्वा तु पुष्पाणि पादयोस्सुविकीर्य च॥
प्रणिपत्य च देवेशमात्मनाराधयेच्छिवम् ॥७२॥
हस्ते गृहीत्वा पुष्पाणि समुत्थाय कृतांजलिः॥
प्रार्थयेत्पुनरीशानं मंत्रेणानेन शंकरम् ॥७३॥
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया॥
कृतं तदस्तु सफलं कृपया तव शंकर ॥७४॥
पठित्वैवं च पुष्पाणि शिवोपरि मुदा न्यसेत्॥
स्वस्त्ययनं ततः कृत्वा ह्याशिषो विविधास्तथा ॥७५॥
मार्जनं तु ततः कार्यं शिवस्योपरि वै पुनः॥
नमस्कारं ततः क्षांतिं पुनराचमनाय च ॥७६
अघोच्चारणमुच्चार्य नमस्कारं प्रकल्पयेत्॥
प्रार्थयेच्च पुनस्तत्र सर्वभावसमन्वितः ॥७७॥
शिवे भक्तिश्शिवे भक्तिश्शिवे भक्तिर्भवे भवे॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ॥७८॥
इति संप्रार्थ्य देवेशं सर्वसिद्धिप्रदायकम्॥
पूजयेत्परया भक्त्या गलनादैर्विशेषतः ॥७९॥
नमस्कारं ततः कृत्वा परिवारगणैस्सह॥
प्रहर्षमतुलं लब्ध्वा कार्यं कुर्याद्यथासुखम् ॥८०॥
एवं यः पूजयेन्नित्यं शिवभक्तिपरायणः॥
तस्य वै सकला सिद्धिर्जायते तु पदे पदे ॥८१॥
वाग्मी स जायते तस्य मनोभी ष्टफलं ध्रुवम्॥
रोगं दुःखं च शोकं च ह्युद्वेगं कृत्रिमं तथा ॥८२॥
कौटिल्यं च गरं चैव यद्यदुःखमुपस्थितम्॥
तद्दुःखं नाश यत्येव शिवः शिवकरः परः ॥८३॥
कल्याणं जायते तस्य शुक्लपक्षे यथा शशी॥
वर्द्धते सद्गुणस्तत्र ध्रुवं शंकरपूजनात् ॥८४॥
इति पूजाविधिश्शंभोः प्रोक्तस्ते मुनिसत्तम॥
अतः परं च शुश्रूषुः किं प्रष्टासि च नारद ॥८५॥
इति श्रीशिवमहापुराणे द्विती यायां रुद्रसंहितायां प्रथमखण्डे सृष्ट्युपाख्याने शिवपूजाविधिवर्णनो नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : October 05, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP