संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|पार्वतीखण्डः|
अध्यायः ३७

पार्वतीखण्डः - अध्यायः ३७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नारद उवाच ॥
तात प्राज्ञ वदेदानीं सप्तर्षिषु गतेषु च ॥
किमकार्षीद्धिमगिरिस्तन्मे कृत्वा कृपां प्रभो ॥१॥
 ॥ब्रह्मोवाच ॥
गतेषु तेषु मुनिषु सप्तस्वपि मुनीश्वर ॥
सारुन्धतीषु हिमवान् यदकार्षीद्ब्रवीमि ते ॥२॥
तत आमन्त्र्य स्वभ्रातॄन् मेर्वादीन् ससुतप्रियः ॥
महामनास्स मुमुदे हिमवान् पर्वतेश्वरः ॥३॥
तदाज्ञप्तस्ततः प्रीत्या हिमवान् लग्न पत्रिकाम् ॥
लेखयामास सुप्रीत्या गर्गेण स्वपुरोधसा ॥४॥
अथ प्रस्थापयामास तां शिवाय स पत्रिकाम् ॥
नानाविधास्तु सामग्र्यः स्वजनैर्मुदितात्मभिः ॥५॥
ते जनास्तत्र गत्वा च कैलासे शिवसन्निधिम् ॥
ददुश्शिवाय तत्पत्रं तिलकं सम्विधाय च ॥६॥
सन्मानिता विशेषेण प्रभुणा च यथोचितम् ॥
सर्वे ते प्रीतिमनस आजग्मुश्शैलसन्निधिम् ॥७॥
सन्मानितान्विशेषेण महेशेनागताञ्जनान् ॥
दृष्ट्वा सुहर्षिताञ्च्छैलो मुमोदातीव चेतसि ॥८॥
ततो निमन्त्रणं चक्रे स्वबन्धूनां प्रमोदितः ॥
नानादेशस्थितानाञ्च निखिलानां सुखास्पदम् ॥९॥
ततस्स कारयामास स्वर्णसंग्रहमादरात् ॥
नानाविधाश्च सामग्रीर्विवाहकरणोचिताः ॥१०॥
तण्डुलानां बहूञ्छैलान् पृथुकानां तथैव च ॥
गुडानां शर्कराणाञ्च लवणानां तथैव च ॥११॥
क्षीराणां च घृतानाञ्च दध्नां वापीश्चकार सः ॥
यवादिधान्यपिष्टानां लड्डुकानां तथैव च ॥१२॥
शष्कुलीनां स्वस्तिकानां शर्कराणां तथैव च ॥
अमृतेक्षुरसानां च तत्र वापीश्चकार सः ॥१३॥
बह्वीर्हैयंगवानाञ्च ह्यासवानां तथैव च ॥
नाना पक्वान्नसंघांश्च महास्वादुरसाँस्तथा ॥१४॥
नाना व्यञ्जनवस्तूनि गणदेवहितानि च ॥
अमूल्यनानावस्त्राणि वह्निशौचानि यानि च ॥१५॥
मणिरत्नप्रकाराणि सुवर्णरजतानि च ॥
द्रव्याण्येतानि चान्यानि संगृह्य विधिपूर्वकम् ॥१६॥
मंगलं कर्तुमारेभे गिरिर्मंगलकृद्दिने ॥
संस्कारं कारयामासुः पार्वत्याः पर्वतस्त्रियः ॥१७॥
ता मंगलं मुदा चक्रुर्भूषिता भूषणैः स्वयम् ॥
पुरद्विजस्त्रियो दृष्ट्वा लोकाचारं प्रचक्रिरे ॥१८॥
सोत्सवं विविधं तत्र सुमंगलपुरस्सरम् ॥
हिमालयोऽपि हृष्टात्मा कृत्वाचारं सुमंगलम् ॥१९॥
सर्वभावेन सुप्रीतो बन्धुवर्गागमोत्सुकः ॥
एतस्मिन्नन्तरे तस्य बान्धवाश्च निमन्त्रिताः ॥२०॥
आजग्मुस्सस्त्रियो हृष्टास्ससुतास्सपरिच्छदाः ॥
तदैव शृणु देवर्षे गिर्य्यागमनमादृतः ॥२१॥
वर्णयामि समासेन शिवप्रीतिविवृद्धये ॥
देवालय गिरिर्यो हि दिव्यरूपधरो महान् ॥२२॥
नानारत्नपरिभ्राजत्समाजस्सपरिच्छदः ॥
नानामणिमहारत्नसारमादाय यत्नतः ॥२३॥
सुवेषालंकृतः श्रीमान् जगाम स हिमालयम् ॥
मन्दरस्सर्वशोभाढ्यस्सनारीतनयो गिरिः ॥२४॥
सूपायनानि संगृह्य जगाम विविधानि च ॥
अस्ताचलोपि दिव्यात्मा सोपायन उदारधीः ॥२५॥
बहुशोभासमायुक्त आजगाम मुदान्वितः ॥
उदयाचल आदाय सद्रत्नानि मणीनपि ॥२६॥
अत्युत्कृष्टपरीवार आजगाम महासुखी ॥
मलयो गिरिराजो हि सपरीवार आदृतः ॥२७॥
सुदिव्यरचनायुक्त आययौ बहुसद्बलः ॥
सद्यो दर्दुरनामा च मुदितस्सकलत्रकः ॥२८॥
बहुशोभान्वितस्तातः ययौ हिमगिरेर्गृहम् ॥
निषदोपि प्रहृष्टात्मा सपरिच्छद आययौ ॥२९॥
ससुतस्त्रीगणः प्रीत्या ययौ हिमगिरेर्गृहम् ॥
आजगाम महाभाग्यो भूधरो गन्धमादनः ॥३०॥
करवीरस्तथैवापि महाविभव संयुतः ॥
महेन्द्रः पर्वतश्रेष्ठ आजगाम हिमालयम् ॥३१॥
सगणस्ससुतस्त्रीको बहुशोभासमन्वितः ॥
पारियात्रो हि हृष्टात्मा मणि रत्नाकरस्सयुत् ॥३२॥
सगणस्सपरीवार आययौ हिमभूधरम् ॥
क्रौञ्चः पर्वतराजो हि महाबलपरिच्छदः ॥
आजगाम गिरिश्रेष्ठस्स मुपायन आदृतः ॥३३॥
पुरुषोत्तमशैलोपि सपरिच्छद आदृतः ॥
महोपायनमादायाजगाम हिमभूधरम् ॥३४॥
नीलः सलीलस्स सुतस्सस्त्रीको द्रव्यसंयुतः ॥
आजगाम हिमागस्य गृहमानन्दसंयुतः ॥३५॥
त्रिकूटश्चित्रकूटोपि वेंकटः श्रीगिरिस्तथा ॥
गोकामुखी नारदश्च हिमगेहमुपागमत् ॥३६॥
विन्ध्यश्च पर्वतश्रेष्ठो नानासम्पत्समन्वितः ॥
आजगाम प्रहृष्टात्मा सदारतनयश्शुभः ॥३७॥
कालंजरो महाशैलो बहुहर्षसमन्वितः ॥
बहुभस्सगणः प्रीत्याजगामहिमभूधरम् ॥३८॥
कैलासस्तु महाशैलो महाहर्षसमन्वितः ॥
आजगाम कृपां कृत्वा सर्वोपरि लसत्प्रभुः ॥३९॥
अन्येपि भूभृतो ये हि द्वीपेष्वन्येष्वपि द्विज ॥
इहापि येऽचलास्सर्वे आययुस्ते हिमालयम् ॥४०॥
निमन्त्रिता नगास्तत्र तेन पूर्वं मुदा मुने ॥
आययुर्निखिलाः प्रीत्या विवाहश्शिवयोरिति ॥४१॥
तदा सर्वे समायाताश्शोणभद्रादयः खलु ॥
बहुशोभा महाप्रीत्या विवाहश्शिवयोरिति ॥४२॥
नद्यस्सर्वास्समायाता नानालंकारसंयुताः ॥
दिव्य रूपधराः प्रीत्या विवाहश्शिवयोरिति ॥४३॥
गोदावरी च यमुना ब्रह्मस्त्रीर्वेणिका तथा ॥
आययौ हिमशैलम्वै विवाहश्शिवयोरिति ॥४४॥
गंगा तु सुमहाप्रीत्या नानालंकारसंयुता ॥
दिव्यरूपा ययौ प्रीत्या विवाहश्शिवयोरिति ॥४५॥
नर्मदा तु महामोदा रुद्रकन्या सरिद्वरा ॥
महाप्रीत्या जगामाशु विवाहश्शिवयोरिति ॥४६॥
आगतैस्तैस्ततः सर्वैस्सर्वतो हिमभूधरम् ॥
संकुलासीत्पुरी दिव्या सर्वशोभासमन्विता ॥४७॥
महोत्सवा लसत्केतुध्वजातोरणकाधिका ॥
वितानविनिवृत्तार्का तथा नानालसत्प्रभा ॥४८॥
हिमालयोपि सुप्रीत्यादरेण विविधेन च ॥
तेषां चकार सन्मानं तासां चैव यथायथम् ॥४९॥
सर्वान्निवासयामास सुस्थानेषु पृथक् पृथक् ॥
सामग्रीभिरनेकाभिस्तोषयामास कृत्स्नशः ॥५०॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पावतीखण्डे लग्नपत्रसंप्रेषणसामग्रीसंग्रहशैलागमनवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : October 07, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP