पंचरत्नगीता - अध्यायः ४
श्रीमद्भगवद्गीतामाहात्म्यम्
श्रीभगवानुवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वामनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥१॥
एवं परंपराप्राप्तमिमं राजर्षयो विदु: । स कालेनेह महता योगो नष्ट: परंतप ॥२॥
स एवायं मया तऽद्य योग: प्रोक्त: पुरातन: । भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥३॥
अर्जुन उवाच । अपरं भवतो जन्म परं जन्म विवस्वत: । कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥४॥
श्रीभगवानुवाच । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन । तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥५॥
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाभ्यात्ममायया ॥६॥
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥७॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥८॥
जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वत: । त्यक्त्वा देहं पुनर्नज्म नैति मामेति सोऽर्जुन ॥९॥
वीतरागभयक्रोधा मन्मया मामुपाश्रिता: । बहवो ज्ञानतपसा पूता मद्भावमागता: ॥१०॥
ये यथा मां प्रपद्यंते तांस्तथैव भजाम्यहम् । मम वर्त्मानुवर्तंते मनुष्या: पार्थ सर्वश: ॥११॥
कांक्षंत: कर्मणां सिद्धिं यजंत इह देवता: । क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥१२॥
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश: । तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥१३॥
न मां कर्माणि लिंपंति न मे कर्मफले स्पृहा । इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥१४॥
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि: । कुरु कर्मैव तस्मात्त्वं पूर्वै: पूर्वतरं कृतम् ॥१५॥
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता: । तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥१६॥
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मण: । अकर्मणश्च बोद्धव्यं गहना कर्मणो गति: ॥१७॥
कर्मण्यकर्म य: पश्येदकर्मणि च कर्म य: । स बुद्धिमान् मनुष्येषु स युक्त: कृत्स्त्रकर्मकृत् ॥१८॥
यस्य सर्वे समारंभा: कामसंकल्पवर्जिता: । ज्ञानाग्निदग्धकर्माणं तमाहु: पंडितं बुधा: ॥१९॥
त्यक्त्वा कर्मफलासंगं नित्यतृप्तो निराश्रय: । कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति स: ॥२०॥
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रह: । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥२१॥
यदृच्छालाभसंतुष्टो द्वंद्वातीतो विमत्सर: । सम: सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥२२॥
गतसंगस्य मुक्तस्य ज्ञानावस्थितचेतस: । यज्ञायाचरत: कर्म समग्रं प्रविलीयते ॥२३॥
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गंतव्यं ब्रह्मकर्मसमाधिना ॥२४॥
दैवमेवापरे यज्ञं योगिन: पर्युपासते । ब्रह्मग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥२५॥
श्रोत्रादीनींद्रियाण्यन्ये संयमाग्निषु जुह्वति । शब्दादीन्विषयानन्य इंद्रियाग्निषु जुह्वति ॥२६॥
सर्वाणींद्रियकर्माणि प्राणकर्माणि चापरे । आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥२७॥
द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतय: संशितव्रता: ॥२८॥
अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे । प्राणापानगती रुद्ध्वा प्राणायामपरायणा: ॥२९॥
अपरे नियताहारा: प्राणान्प्राणेषु जुह्वति । सर्वेऽप्येते यजविदो यज्ञक्षपितकल्मषा: ॥३०॥
यज्ञशिष्टामृतभुजो यांति ब्रह्म सनातनम् । नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्य: कुरुसत्तम ॥३१॥
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे । कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥३२॥
श्रेयान् द्रव्यमयाद्यज्ञाज्झानयज्ञ: परंतप । सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥३३॥
तद्विद्वि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यंति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिन: ॥३४॥
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पांडव । येन भूतान्यशेषेन द्रक्ष्यस्यात्मन्यथो मयि ॥३५॥
अपि चेदसि पापेभ्य: सर्वेभ्य: पापकृत्तम: । सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥३६॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन । ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते तथा ॥३७॥
नहि ज्ञानेन सद्दशं पवित्रमिह विद्यते । तत्स्वयं योगसंसिद्ध: कालेनात्मनि विंदति ॥३८॥
श्रद्धावाँल्लभते ज्ञानं तत्पर: संयतेंद्रिय: । ज्ञानं लब्ध्वा परां शांतिमचिरेणाधिगच्छति ॥३९॥
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति । नायं लोकोऽस्ति न परो न सुखं संशयात्मन: ॥४०॥
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् । आत्मवंतं न कर्माणि निबध्नंति धनंजय ॥४१॥
तस्मादज्ञानसंभूतं ह्र्त्स्थं ज्ञानासिनात्मन: । छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥४२॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्र. कर्मब्रह्मार्पणयोगो नाम चतुर्थोऽध्याय: ॥४॥
N/A
References : N/A
Last Updated : December 10, 2020
TOP