प्रथमपरिच्छेदः - सप्तमोऽध्यायः

प्रकाशसंहिता


श्रीहंस उवाच

नारीकेलफलाकारो लिङ्गदेहस्त्रिवृन्मतः ।
मूर्ध्निच्छिद्रयुतो गर्भावकाशकलितः सदा ॥१॥

अन्तर्निबद्धा जीवास्ते त्रिविधा अपि मोचने ।
न शक्तः रमयाश्चन्न मूर्ध्निच्छिद्रावसन्त्यलं ॥२॥

दुःखस्पृष्टा लिङ्गबद्धाः दुःखास्पृष्टा रमैव हि ।
यस्मन्नकाले यस्य सूक्ष्मः नाशो भवति विष्णुना ॥३॥

अनिरुद्धेन तन्नीच क्रमतोन्डान्तरे बहिः ।
तदुत्तरक्षणे लिङ्गदेहे च गुणसाम्यता ॥४॥

भूम्याकृता भवति सा (स्वरूपज्ञानरूपिणी)जीवानां ज्ञानरोधिनी ।
स्वारूपिकज्ञानसुखे प्रयत्नेच्छाः सतां लये ॥५॥

रुद्धा भवन्ति साम्ये तु वैषम्ये व्यक्तिमञ्जसा ।
यान्त्यवस्थाद्वयं लिङ्गे लये सृष्टौ क्रमात्किल ॥६॥

क्षणक्षणेन भ्रमतां स तां सव्येन चान्यथा ।
भ्रमतां लिङ्गदेहस्थगुणत्रयसुयोगतः ॥७॥

सृष्टिकाले त्रिधाभिन्ना जीवानां बुद्धिरिष्यते ।
सात्विकी राजसी चेति तामसीति समस्तशः ॥८॥

योग्यानां सात्विकीबुद्धिः बहुला अन्येऽल्पके मते ।
मध्यमानान्तु जीवानां राजसी तामसी मतिः ॥९॥

क्रमात्बहुतरेऽन्येतु स्वल्पमात्रे भविष्यतः ।
पञ्चमात्रागताज्ञानपञ्चकं लिङ्गदेहगं ॥१०॥

अनाद्यज्ञानमुद्दिष्टं बाह्यमस्वारूपिकं तु तत् ।
साक्षीन्द्रियाणां (तमसा)मनसा योगे तद्धि भविष्यति ॥११॥

साक्षीन्द्रियाणां सत्वस्थमनसा सङ्गमो यदि ।
बाह्या स्वारूपिकञ्ज्ञानं त्रिविधानां चितामिह ॥१२॥

साक्षीन्द्रियाणां रजसा मनसा सङ्गमो यदि ।
बाह्यमस्वारूपिकं च कामक्रोधादिकं च यथ् ॥१३॥

अनादिकामो जीवानां त्रिविधानां भविष्यति ।
रजः परिच्छेदगताः ज्ञानेन्द्रियकलाः यदि ॥१४॥

साक्षीन्द्रिययुताबाह्यशब्दादीच्छा भविष्यति ।
अनादिकामःसा प्रोक्ता त्रिविधानां चितामिह ॥१५॥

रजः परिच्छेदगताः कर्मेन्द्रियकलाः यदि ।
साक्षीन्द्रियुताः कर्मजनयन्त्यप्यनादिकं ॥१६॥

बाह्यलिङ्गगतं कर्म न तु स्वारूपिकं मतं ।
अनाद्यविद्याकामौ चानादि कर्म च लिङ्गगं ॥१७॥

मदीयमितिमत्वा तु बद्धो भवति चेतनः ।
कालेन भारते वर्षे लब्धजन्मापि मानुषं ॥१८॥

ब्राह्मण्यं सद्गुरोः सङ्गं भक्तिज्ञानेधिगम्य च ।
प्रसादात्श्रीहरेः कर्म देवतानामथान्तरे ॥१९॥

अण्डाद्बहिस्तात्विकानां वैकुण्ठपरिघालये ।
अण्डखर्परसंस्पृष्ट श्रीभागेवा हरीच्छया ॥२०॥

परान्त्यवृत्तिपरितः स्थितेवारि निमज्य च ।
अभिव्यक्तस्वरूपाणां सतां लिङ्गविपर्यये ॥२१॥

हरीरमासुराद्वेषाद्भारते मर्त्यजन्मनि ।
दुःसङ्गवृद्धातण्डान्तर्लिङ्गदेहस्य नाशने ॥२२॥

सतिवायोर्गदाघातादसतां कालयोगतः ।
अनाद्यविद्याकामौ चानादिकर्मापि नश्यति ॥२३॥

अतो बाह्यं न स्वरूपा अविद्याद्याः प्रकीर्तिताः ।
ज्ञानाज्ञाने स्वरूपस्थे नित्ये नैव च नश्वरे ॥२४॥

अनाद्यविद्याकामाद्याः साम्यावस्था यदा भवेत् ।
तदा जीवस्य सर्वस्य न भवन्ति कदाचन ॥२५॥

राजसाणुशतांशाभाः द्विषट्कास्तामसाणवः ।
लये तेषु रजस्येकः सत्वपार्श्वगतादश ॥२६॥

भवन्त्येकस्तमो मध्ये संस्थितो भवति ध्रुवं ।
रजोगतोणुस्तमसः सतो द्विगुणराजसं ॥२७॥

राजसाणुशतांशाभाः सत्वगास्तामसाणवः ।
दशापिदशतोत्कृष्टान्सात्विकाणून्लये ध्रुवं ॥२८॥

नीलीकुर्वन्त्येवमेषा साम्यावस्था प्रकीर्तिता ।
तामसी राजसी चेति साम्यावस्था द्विधा मता ॥२९॥

साम्यावस्था सात्विके तु न क्वापि किल विद्यते ।
द्वाभ्यान्तु साम्यवस्थाभ्यां लिङ्गस्ताभ्यां जनस्य तु ॥३०॥

लये सर्वस्य तां निद्रां नाशं प्राहुर्मनीषिणः ।
यदा योगेच्छोपरमः तदा ज्ञापयति प्रभुः ॥३१॥

अयोग्येच्छा प्रयत्नादि कर्तुराशां छिनत्ति च ।
वैषम्ये सति लिङ्गे तु जननेच्छा हि जायते ॥३२॥

यदेच्छा जायते जन्तोस्तदा सृजति तं प्रभुः ।
सृज्यानां सर्वजीवानां अण्डाद्बहि रथान्तरे ॥३३॥

नैकदा विषमावस्था ह्यजादीनां क्रमाद्भवेत् ।
व्युत्क्रमात्पूर्वमानेन अण्डान्तर्बहिरेव च ॥३४॥

साम्यावस्था च नीचानां प्राक्पश्चादुत्तमस्य च ।
लये सत्वप्रविष्टा ये दशते राजसाणवः ॥३५॥

स्वशताधिकसत्वस्थपरमाणु समन्विताः ।
सृष्टिकाले श्रियानुन्ना रजो भागं विशन्ति हि ॥३६॥

तमः परिच्छेदगत राजसाणुर्लये तु यः ।
स्वशतांशं तामसाणुं गृहीत्वा दुर्गयेरितः ॥३७॥

रजोभागं प्रविशन्ति सृष्टिकाले समागते ।
लये रजोभागमध्यगतोणू राजसस्य यः ॥३८॥

रजो मध्ये व्यक्तिमेति सृष्टिकाल उपागते ।
प्रकृतौ लिङ्गदेहोऽपि एवं यदि गुणस्थितिः ॥३९॥

साम्यावस्थां जगुः प्राज्ञाः तया सृष्टिर्भविष्यति ।
लये सत्वप्रविष्ठा ये दशैतत्तामसाणवः ॥४०॥

राजसाणु शतांशाभाः सात्विकैः स्वसमाणुभिः ।
युक्तास्तामस भागं हि विशन्ति श्रीसमीरिताः ॥४१॥

रजोविष्टस्तामसाणुः पूर्वाणु(सत्वेण)तुलितः स्वयं ।
स्वतो(सत्वाच्च) द्विगुणेनैव संयुक्तो राजसाणुना ॥४२॥

तत्र स्थित्वा लये भूयः सृष्टिकाल उपागते ।
भुवानुन्नः तमोभागं विशन्ति श्रीहरीच्छया ॥४३॥

एकशुद्धस्तामसाणुः पूर्वैस्तामससात्विकैः ।
दशाभिश्चैकतमसा तथा राजसतामसं ॥४४॥

प्राप्यसंमिलिताःसर्वे तमो वैषम्यनामकं ।
सहस्रसात्विकाणुभ्यः दशराजसकाणुभिः ॥४५॥

शुद्धेन रजसैकेन रजसायुक्त तामसः ।
अणुर्यदैकीभवति रजो वैषम्य उच्यते ॥४६॥

रजो वैषम्यतः सृष्टिः तमो वैषम्यतो लयः ॥४७॥

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे सप्तमोऽध्यायः

N/A

References : N/A
Last Updated : January 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP