प्रथमपरिच्छेदः - दशमोऽध्यायः
प्रकाशसंहिता
श्रीहंस उवाच
सर्वत्र भाविःऋजवो विष्णोर्वायोर्भवन्ति हि ।
अण्डान्तर्बहिस्था वा नानैर्जन्म लभन्ति ते ॥१॥
व्यामोहायासुराणान्तु अन्यजा इव भान्ति ते ।
ब्रह्मापरोक्षिणःसर्वे रुद्राद्याः भावितात्विकाः ॥२॥
अहङ्कारेश्वरैर्वायुजातैर्जता भवन्ति हि ।
उत्तमैःसर्वनीचानां सृष्टिरङ्गेर्धदेशतः ॥३॥
एवं क्रमात्सृष्टिरुक्ता व्युत्क्रमेण लयः स्मृतः ।
अण्डोर्ध्वदेशतत्वेशा अत्र पूर्वोक्तरीतितः ॥४॥
सुप्रारब्धा बहुविधा दोषसम्बन्धवर्जिताः ।
ये ये यथा यथा जाताः सृष्टिकाले भवन्ति हि ॥५॥
गुणसृष्ट्युत्तरं जाताः सर्वेस्थूलशरीरिणः ।
अंशानन्दबलज्ञानदेशकालापरोक्षकाः ॥६॥
लयसृष्टिपदावेश गुणलक्षणकान्तयः ।
एवं चतुर्दशमहातारतम्याः प्रकीर्तिताः ॥७॥
वेदेषु देशकालेषु लिङ्गदेहेषु चाक्षरे ।
प्रकृतौ सर्वजीवानां महत्तत्वगुणत्रये ॥८॥
अंशा ऋजूनां सन्त्येव विपाद्यंशा न तेषु हि ।
अहङ्कारे विपाद्यंशा न तत्रेन्द्रादिकांशकाः ॥९॥
नीचनीचामरमनो देहादिषु सुरोत्तमाः ।
वसन्त्यंशैर्ननीचास्तु स्वोत्तमेषु विशन्ति हि ॥१०॥
अण्डादन्तर्बहिस्त्वेवमंशोत्था तारतम्यधीः ।
विधेः सर्वाङ्गसायुज्यं वाण्याः वाचिमनस्यपि ॥११॥
स्वोत्पत्यङ्गेषु देवानां सायुज्यं दिशतीश्वरः ।
उत्तमानां महानन्दा नीचनीचेषु सङ्गताः ॥१२॥
शतांशादवरा नीचानन्दादुत्तमगामि तत् ।
शतांशादुत्तमा मुक्तौ श्वेतद्वीपादिषु स्फुटं ॥१३॥
त्रिषु स्थानेषु श्रीभागे चिन्मात्रानन्दमूर्जितं ।
भूदुर्गाभागयोः प्राप्तव्यानन्द(दं शुद्ध) सात्विकैः ॥१४॥
देहैर्भोगोचितानन्त शुद्धसात्विकवस्तुभिः ।
भूदुर्गाभ्यां कल्पितैस्तैर्भगवान्भक्तसन्ततेः ॥१५॥
उत्तमानां स बहुलं नीचानामल्पमेव च ।
तत्तद्योग्य निजानन्दं ददाति पुरुषः स्वराठ् ॥१६॥
मुक्तौ स्वोत्तम भोग्योरु मुदपेक्षाल्पिकस्य तु ।
न विद्यते हि स्वानन्दपूर्णस्य न पुनर्जनिः ॥१७॥
दुःखाज्ञानानादिकं भूयो भग्नलिङ्गस्य नेष्यते ।
शतशब्दो दशसहस्रपरं प्राप्तं वदन्ति हि ॥१८॥
उत्तमानां बलं भूरिनीचानामल्पमेव तु ।
गर्भोदकागतः शेषः मूर्ध्नैकेनाखिलं भुवं ॥१९॥
स द्वीपाब्धिसरिच्छैलां धत्ते सर्षपवत्सदा ।
तं वै शेषं सहस्रास्यं वायुकूर्मो महाबलः ॥२०॥
धत्ते पुच्छाग्रतः शक्रपूर्वाः शेषाद्बलावराः ।
बहवो गोमहिष्याद्या एक कुञ्जर भोजने ॥२१॥
यावत्तावत्कूर्महस्तितोप्येते हि कोटिशः ।
मिलिता अपि नागेन योद्धुमर्हति न क्वचितु ॥२२॥
तथोत्तमसुरैर्नीचसुराः कोटिसहस्रशः ।
मिलिताः प्रथनेनेशाः किमुमर्त्यास्तु राक्षसाः ॥२३॥
अतो बलेन सर्वेषां तारतम्यं विवेचितं ।
अनालोच्यानन्तकल्पेष्वण्डान्तर्बहिरास्थितं ॥२४॥
अतीतं वर्तमानं चानागतं वस्तु सञ्चयं ।
सदा करतलामलकवद्वेत्ति विष्ण्वनुग्रहाथ् ॥२५॥
अनादि नित्यानधिकान्निर्विशेषादनन्तरान् ।
सोपि नारायणगुणानालोच्याप्यतिकालतः ॥२६॥
अनन्तकल्याणगुणपूर्णस्यानन्तभागतः ।
विभक्तानन्तभागैकभाग ज्ञप्तौ न हि क्षमः ॥२७॥
विनेश्वरगुणज्ञानेज्ञानं ऋजुगणस्य हि ।
अतीतानागतजगद्विषयीकरणे क्षमं ॥२८॥
आलोच्य वैष्णवज्ञानेप्यधिकं सर्वजीवतः ।
विपशेषादिकज्ञानं सर्वदालोचनादपि ॥२९॥
स्वोत्तमैर्भिन्नजगतः विषयीकरणे क्षमं ।
न भवेदेकदेशेन जानन्त्येते न चान्यथा ॥३०॥
जडञ्चाचेतनं वापि शिवाद्याः पुष्करान्तिमाः ।
लिङ्गबद्धाः पदस्थाश्च भाविनश्चापरोक्षिणः ॥३१॥
अण्डान्तरे बहिश्चापि तात्विका बहुरूपतः ।
स्थिता अपि न जानन्ति साकल्येन जगद्गतं ॥३२॥
अनादिसर्वजीवानां ज्ञानं तद्विविधं मतं ।
स्वारूपिकं च बाह्यञ्च नित्यं स्वारूपिकं मतं ॥३३॥
अजन्यं शाश्वतं विष्णोः बन्धस्य वशगं सदा ।
जीवङ्गेशाधीनमायावशगं क्रमयोगतः ॥३४॥
साधनेन व्यञ्ज्यमानमामुक्त्यन्तं ततः परं ।
एकप्रकारमज्ञानं रहितं स्वोत्तमाश्रिताथ् ॥३५॥
ज्ञानाच्छतगुणन्यूनरं इश्वरे वा जगत्यलं ।
अनन्तवेदोक्तगुणान्विष्णेर्जानाति पद्मभूः ॥३६॥
पदस्थो वा विमुक्तो वा तदन्ये तद्गुणस्थिताः ।
क्रमेणैव शतंन्यूनज्ञानं विष्णोरुपासकाः ॥३७॥
प्राकृतोप्राकृतशरीराश्रितस्य ऋजोःसदा ।
मनस्यनित्यं यज्जन्यं पुनः पुनरपि स्फुटं ॥३८॥
तद्बाह्येवृत्तिरुपं च यथार्थं सर्वदापि च ।
तेषां पञ्चविधज्ञानं क्वचिदेव न सर्वदा ॥३९॥
दैत्यावेशादि शून्यास्ते सदा दुर्विषयोज्झिताः ।
साक्षीन्द्रियैः सहाप्येतल्लिङ्गसूक्ष्मेन्द्रियावृतैः ॥४०॥
स्थूलेन्द्रियैः सुविषयासक्तैः प्रात्यक्षकी मतिः ।
यदार्थैव तया दोषशून्या सद्युक्तिजा मतिः ॥४१॥
युक्तिजन्यं तु यज्ञानमानुमानिकमीरितः ।
प्रत्यक्षमनुमानञ्च आगमस्तस्य साधनं ॥४२॥
यथार्थैव तथा वेदशास्त्रार्थश्रवणादपि ।
मनोजातं स्वागमजं यथार्थज्ञानमेव हि ॥४३॥
देशादवरदेशेतु क्रमात्तत्वेषु संश्रिताः ।
तत्वव्यापारकाले तु स्वरूपोचितशक्तयः ॥४४॥
यथागमसमुद्भूतं त्रिविधं परिकीर्तितं ।
ज्ञानं मनःसमुद्भूतं बाह्यकार्यमितीरितं ॥४५॥
यत्प्रत्यक्षानुमानं च आगमस्तस्य साधनं ।
जीवः प्रमाताविषया अर्थास्ते कारणामताः ॥४६॥
रूद्रादीनान्तु यज्झानं बाह्यं मनसि सम्भवं ।
प्रत्यक्षाद्यैस्त्रभिः सद्भिः साधनैरप्यनित्यकं ॥४७॥
क्वचिद्यथार्थं तज्ञानमयथार्थं क्वचिद्भवेत् ।
कर्मदेवाजानजाद्याः देवदासाः क्रमावराः ॥४८॥
देवगन्धर्वपर्यन्ताः सांशाः सर्वे प्रकीर्तिताः ।
निरंशास्ते सदामर्त्यगन्धर्वाद्या स्तृणान्तिमाः ॥४९॥
जीवा एषां स्वरूपन्तु ज्ञनं नित्यं यथार्थकं ।
उत्तमोत्तमतो न्यूनं अयथार्थादिकं क्रमाथ् ॥५०॥
बाह्यं जन्यमनित्यं च यथार्थं प्रायशः सदा ।
रिश्वरे वा जगति वा क्रमादल्पावगाहि च ॥५१॥
इति ज्ञाने तारतम्यं देवेषूच्चावचेष्वलं ।
महद्गणत्रयेष्वंशाः ऋजूनां सन्ति चोन्नते ॥५२॥
देशे तत्र न रुद्रादि देवांशास्तदधस्तने ।
देशेहङ्कृतिरुद्रादि देवांशाःसन्ति सर्वदा ॥५३॥
तत्रेन्द्राद्या न तिष्ठन्ति ततोप्यवरदेशगाः ।
भूताव्यतीनां मर्यादा यद्देशे यादृशीरिता ॥५४॥
कलाषोडशतद्गाश्च तत्तदा वृत्तिसन्तताः ।
मनः शब्दः श्रोत्रवाचां कलास्त्वाकाशसन्तताः ॥५५॥
त्वक्स्पर्शपाणिसंज्ञास्तु कलावायुसमाश्रिताः ।
नेत्ररूपाङ्घ्रिसंज्ञास्तु कलास्तेजः शरीरगाः ॥५६॥
रसनारसगुह्यानां कलावारिसमाश्रिताः ।
गन्धघ्राणोपस्थकला पृथिव्यावरणाश्रिता ॥५७॥
मनोमात्रेन्द्रियकला भूतेषु क्रमयोगतः ।
तदाधिकारा हरिणा शक्राद्याः पुष्करान्तिमाः ॥५८॥
सूक्ष्मस्थूलोत्पत्तिकाले उत्तमास्तूर्ध्वदेशगाः ।
नीचनीचास्तूच्चदेशस्थितोच्चोच्चसुराश्रयाथ् ॥५९॥
देशादवरदेशे तु क्रमात्तत्वेषु संस्थिताः ।
तत्वव्यापारकाले तु स्वरूपोचितशक्तयः ॥६०॥
इति देशोचित महातारतम्यं वदन्ति हि ।
देवमानेनाब्दशतं पौर्वापर्यव्यवस्थया ॥६१॥
ऋजूनां च जनिः प्रोक्ता सहस्राब्दान्तरामताः ।
विपाद्यास्तु तथेन्द्राद्या दशसाहस्रवत्सरैः ॥६२॥
क्रमात्पौर्वापर्यजाताः कालान्नीचोच्चभाविनः ।
अथ सर्वस्यापरोक्षतारतम्यं विविच्यते ॥६३॥
तृणादिसर्वजीवानां स्वरूपोद्धार आगते ।
काले तत्तद्योग्यजीवसाधनोचितकालके ॥६४॥
हरिश्च श्रीब्रह्मवायू सभार्यौ च तदाज्ञया ।
एतदन्यद्वीपवर्षजायामानान्हि सर्वशः ॥६५॥
स्वकर्मवशगान्स्वर्गान्तरिक्षधरान्चरन् ।
नानायोनिगतान्जीवानतलाद्याधरस्थितान् ॥६६॥
उद्धर्तुकामो भगवान्भारते जनयिष्यति ।
तत्र मानुषयोन्युत्थांस्तत्रापि ब्राह्मणोत्तमान् ॥६७॥
तत्र सर्वस्वरूपोरुव्यक्तिकारककर्मणा ।
संयोज्य सर्वसद्योग्यज्ञानदानगुरूत्तमान् ॥६८॥
भिन्नदेशे भिन्नकाले योजयत्यखिलं हरिः ।
तृणादिमर्त्यपर्यन्तगन्धर्वास्ते ह्यनन्तशः ॥६९॥
निरंशास्ते प्रतीकालम्बनास्ते कर्मयोगिनः ।
देवगन्धर्वपूर्वास्त्वाजानजान्ता समस्तशः ॥७०॥
अप्रतीकालम्बना सांशाः क्रमोच्च ज्ञानयोगिनः ।
प्रतीकस्थं शरीरस्थं पश्यन्तीति तथाह्वयाः ॥७१॥
प्रतीकाद्बहिरीशस्य दर्शानात्कर्मदेवताः ।
अप्रतीकालम्बनाश्च प्रायोविज्ञानयोगिनः ॥७२॥
एषामण्डान्तरे जन्मापरोक्षादि प्रशस्यते ।
निरंशाः पक्वकाले तु उत्क्राम्यैव महरादिगाः ॥७३॥
एषां लये स्वोत्तमेषु प्रवेशो नैव विद्यते ।
देवगन्धर्वपूर्वाणां भूमावुत्क्रमणाल्लयः ॥७४॥
महालये स्वोत्तमेषु प्रवेशः लूक्ष्मदेहतः ।
उत्क्रमानुत्क्रमान्योगिनोह्यतत्वेश्वरवशान्जगुः ॥७५॥
पुष्करान्ता तात्विकाश्च क्वापि नोत्क्रमणाल्लयाः ।
यान्ति स्थूलशरीरैस्ते स्वोत्तमेषु विशन्ति हि ॥७६॥
ताननुक्रमणान्याहुः योगिनो भक्तियोगिनः ।
सत्कर्मज्ञानभक्ती च सर्वेषां सर्वदापि हि ॥७७॥
अवश्यकास्ते सर्वेपि तत्तत्प्राचुर्यतस्तथा ।
निरंशाःसत्साधनायोचितजन्मसहस्रतः ॥७८॥
ज्ञानन्तु दशभिः प्राप्य सद्भक्तिं त्रिभिराप्य च ।
दृष्ट्वा हृदिस्थं मुच्यन्ते ह्यतस्ते कर्मयोगिनः ॥७९॥
सत्कर्मकृत्वा निष्काम्यं लभन्ति गुरुसन्तती ।
अतात्विका देवदासाः सत्कर्मशतजन्मभिः ॥८०॥
कृत्वा दशसहस्रोरुजन्मभिर्ज्ञानमाप्य च ।
भक्तिं त्रिशतकैराप्य मुच्यन्ते ज्ञानयोगिनः ॥८१॥
अतस्ते कर्मदेवतास्तदूर्ध्वं भक्तियोगिनः ।
तृणाद्याः स्वहृदिस्थं तं पश्यन्त्युचितजन्मभिः ॥८२॥
दीपकान्तिविशिष्टेशं न देवान्नैव मर्त्यगं ।
घटिकार्धं शरीरे वा मुक्तौ शक्तिस्तु तादृशी ॥८३॥
चिन्मात्रोपासनाशक्तिः नैवाधिकगुणोत्तरे ।
तेषारं इदृश एवं स्यातपररोक्षो हि नाधिकः ॥८४॥
रामकृष्णादि रूपाणि बहिः पश्यन्त्यपि क्वचित् ।
मानुषत्वेन पश्यन्ति अपरोक्षेन संस्मृतः ॥८५॥
स्थूलहृद्गापरोक्षास्तु बाह्यस्तादपरोक्षकाः ।
स्वस्वरूपस्थजीवाभस्वतन्त्रस्य च दर्शनं ॥८६॥
स्वरूपाभ्यापरोक्षस्तु सर्वेषामेवमेव हि ।
पादोनघटिकामात्रं स्वरूपे प्राकृते हृदि ॥८७॥
पश्यन्ति क्रिमिकीटाद्याः प्रदीपप्रभया हरिं ।
स्वरूपचक्षुषादृष्टिः अपरोक्ष इतीर्यते ॥८८॥
वेद देशाक्षरोकालो जीवेशौ प्राकृतेन्द्रियैः ।
न वेद्या हि स्वरूपेण वेद्या एव प्रकीर्तिताः ॥८९॥
भक्त्या हरिप्रसादेन नष्टेत्वज्ञानपञ्चके ।
रत्नवद्भासुरे लिङ्गे सूक्ष्मदेहेस्थितस्य तु ॥९०॥
जीवस्य चक्षुषी व्यक्तो भवतः स्वेन पश्यति ।
तेजोमयस्वरूपस्थं स्थूलहृद्गं क्रमेण तु ॥९१॥
यवमात्रं हरिन्तार्णाः कीटाद्याः बदरीमितं ।
अङ्गुष्टाग्रमितं वृषाः प्रदीपदशसन्निभं ॥९२॥
हरिं पश्यन्ति घटिकामितं कालं रमापतिं ।
समं दीपं चिदानन्दं चिदानन्दात्मकं मृगाः ॥९३॥
खगाश्च पशवो गावः हृद्गं जीवगतं हरिं ।
प्रदीपशतभायुक्तं घटिकार्धतदर्धकं ॥९४॥
सच्चिदान्द आत्मेति मानुष्यैर्ध्यैयरिश्वरः ।
विद्युद्वन्मानुषा विद्युर्दशविद्युन्मितं नृपाः ॥९५॥
राजानस्तद्विगुणाभं सूर्यमण्डलवत्सुराः ।
गन्धर्वाः पितरःसूर्यशतसन्निभमीश्वरं ॥९६॥
गोप्यः कृष्णाङ्गसङ्गार्हाः पञ्चसाहस्रसूर्यभं ।
आजानजादशसाहसस्रार्काभं त्वग्निजा अपि ॥९७॥
चतुर्लक्षाधिकाशीतिलक्षजीवगणेष्वपि ।
दशैव पुरुषाः प्रोक्तास्तात्विकास्तेषु पञ्च च ॥९८॥
पर्जन्यादवराः पञ्च पुष्करादुत्तमा मताः ।
सस्त्रीकाःसोमहीना अण्डादन्तर्बहिस्थिताः ॥९९॥
त्रिंशच्चारणरक्षांसि सप्ततिः सर्वजातिषु ।
अन्तरालेतु पद्मोत्था ब्रह्मायावद्धितिष्ठति ॥१००॥
तावत्संवत्सरगत प्रतिप्रतिदिनेष्वपि ।
सांशा अतात्विकाः सर्वेसंख्यया वक्ष्यमाणया ॥१०१॥
मितास्तु प्रतिकल्पेपि पदस्था ह्यपरोक्षिणः ।
उर्वश्याद्याह्यप्सरसः शतंशा स्व(स्वष्ट)संख्यया ॥१०२॥
मिता अजानजैस्तुल्याः कर्मदेवसमापराः ।
शतं पितॄणां सप्तैव तेषूर्वश्यादिभिः समाः ॥१०३॥
अन्ये आजानजेभ्यस्तु न्यूनास्तेभ्योवराः क्रमात् ।
गन्धर्वास्तु शतं तेषु अष्टौ तुल्याश्च कर्मजैः ॥१०४॥
शतकोटिमिताः सर्वे ऋषयो विंशदुत्तमाः ।
तेष्वेव तावत्विष्टाभिः शतकं कर्मजैः समं ॥१०५॥
तदन्ये आजानजेभ्यस्तुल्या अग्निसुता अपि ।
द्व्यष्टौसहस्राणि शतन्त्रिंशच्चारणरक्षसां ॥१०६॥
साध्यसिद्धास्तथान्यास्तु सप्ततिः सर्वजातिषु ।
शतं सिद्धाजानजाख्या पश्यन्ति हृदि जीवगं ॥१०७॥
कोटिसूर्यप्रभं कर्मदेवा हृद्गं बहिस्थितं ।
द्विसप्तलोकसमितं ते प्रतीकावलम्बनाः ॥१०८॥
मर्त्याः द्विघटिकामात्रं त्रिनाड्यन्तं नृपोत्तमाः ।
तथा मानुषगन्धर्वाश्चतुर्नाड्यन्तमीश्वरं ॥१०९॥
षण्णाड्यन्तं सुगन्धर्वा गोप्यायामान्तमञ्जसा ।
शतोनशतकोट्यस्तु ऋषयोग्निसुता अपि ॥११०॥
साजानजादशघटिकामितं कालं जगद्गुरुं ।
पश्यन्ति कर्मदेवास्तु मध्याह्नान्तं परेश्वरं ॥१११॥
स्वोत्तमस्पर्धयाहीनाः दुष्प्रारब्धविवर्जिताः ।
भावरूपाज्ञानशून्याः दैत्यावेशविवर्जिताः ॥११२॥
पूर्वोक्तकान्त्याकाले तं पश्यन्ति जगदीश्वरं ।
पूर्वोक्तदोषरहितास्तात्विकाःसर्वदा हरिं ॥११३॥
पश्यन्तिदिवपर्यन्ता दोषा एते हि नीचकैः ।
उत्तमेषूत्तमेष्वल्पास्तथा चान्यतरामताः ॥११४॥
ब्रह्मणो दोष सम्बन्धो न क्वापि क्व चद्दृश्यते ।
राजानो मर्त्यगन्धर्वपूर्वा षट्दशपूर्वकान् ॥११५॥
शतं दशसहस्रांश्च लक्षकोटिमितान्गुणान् ।
विष्णोर्गुणानर्बुदांश्च सर्वानपि ततोधिकान् ॥११६॥
अनन्तवेदोक्तगुणान्ब्रह्मोपास्यति नेतरः ।
मर्त्योच्चा हृदि देवांश्च पदस्था पीठदेवताः ॥११७॥
तथावरणगान्देवान्पश्यन्त्यपि च मण्डलं ।
सुषुम्नां सप्तकमलान्यपि तद्गहरीश्वरे ॥११८॥
स्थानेशं चैव मूलेशं राजानो मर्त्यगायकाः ।
इडापिङ्गलनाडिस्थान्क्रमोच्चान्सर्वदेहगान् ॥११९॥
तत्वेशां स्तद्गतहरेः रूपाणि अ(नि)खिलान्यपि ।
ध्यात्वोपास्य विमुच्यन्ते देवा आजानजाह्वयाः ॥१२०॥
इमे ते च प्रतीकस्थ हरिपादावलम्बिनः ।
कर्मदेवा अतत्वेशा अपि रूपाणि सर्वशः ॥१२१॥
उपास्यापि विराड्रूपं मुच्यन्ते समुपास्य च ।
अप्रतीकालम्बनास्ते तु कर्मदेवाः सुरा अपि ॥१२२॥
त्यक्तलिङ्गस्य मुक्तस्य तृणकीटादिकस्य च ।
स्वरूपदेह ते सर्वे दशयोजनसन्तता ॥१२३॥
वृक्षादीनां मृगादीनां ततो द्विगुणरुग्भवेत् ।
विमुक्तानान्तु मर्त्यानां शूद्रादीनामतः परं ॥१२४॥
एकद्वित्रिचतुष्पादाधिकरुक्सन्तताः सदा ।
राजन्यामर्त्यगन्धर्वास्ततोद्वित्र्याधिकप्रभाः ॥१२५॥
परितो मेरुतुल्यात्विट्देवगन्धर्वसन्ततेः ।
चिरान्तो पितरो मुक्ता भुवर्लोकान्तकान्तयः ॥१२६॥
गोप्यः कृष्णाङ्घ्रिसङ्गार्हाः उपसन्तति दीप्तयः ।
आजनाजातत्समाश्च स्वर्गान्ता तत्प्रकाशिनः ॥१२७॥
यस्य यस्य च जीवस्य प्रकाशो यत्र चेरितः ।
दैवाद्बहिर्दृष्टिगतो भाति मर्त्योच्चवद्धरिः ॥१२८॥
न सच्चिदानन्दतनुर्बाह्यदृग्गोचरो भवेत् ।
दृष्ट्वोपास्य विमुच्यन्ते कर्मदेवा विराट्तनुं ॥१२९॥
तादृज्जोतिस्तावदन्तं विष्णुं पश्यति चक्षुषा ।
स्वारूपिकेण बाध्येन नैव पश्यन्ति चेश्वरं ॥१३०॥
पश्यन्ति नैवोपास्यन्ति ब्रह्माण्डे व्याप्तमीश्वरं ।
पुष्कराद्यास्तु शक्रान्ताः पूर्वोक्ताखिलरूपिणं ॥१३१॥
अण्डाद्बहिः पृथिव्यादि मनस्तत्वादि सन्ततेः ।
दृष्ट्वाध्यात्वोपास्य सर्वे मुक्तिं यास्यन्ति कालतः ॥१३२॥
अहङ्कारगतं द्रष्टुमीशानोपासने क्षमाः ।
पुष्कराद्या महेन्द्रान्ताः क्रमादधिककान्तयः ॥१३३॥
कोट्यर्बुदार्काभं देवं वामदेवादयो हरिं ।
उपास्याहङ्कारतत्वव्याप्तसत्तनुमीश्वरं ॥१३४॥
मुच्यते च महत्तत्वे तमस्यपि ततं हरिं ।
पश्यन्तीवारुणीपूर्वा नेष्यन्ति तमसिस्थितं ॥१३५॥
अनन्तार्करुचा सत्वावृत्यन्तं व्याप्तमव्ययं ।
उपास्य गीर्मुक्तिमेति ततोप्यधिकरुक्ततः ॥१३६॥
वासुदेवावरणगं ब्रह्मा पश्यति नेतरः ।
यावत्पश्यन्ति तं जीवं तावत्सामान्यरुक्स हि ॥१३७॥
यावनुपास्यो वै विष्णुस्तावत्तेषां विशेषभा ।
ब्रह्मणो नैव सामान्यरुग्विशेषप्रभो हि सः ॥१३८॥
अत्यल्पसुखरूपांशा जीवानां योग्यतावसन् ।
यादृशी भारमायास्तु व्याप्तायाः सर्वदेशगा ॥१३९॥
भानुप्रभागता दीपप्रभा यद्वन्न रोचते ।
तथा विष्णुप्रभानुन्नामाप्रभा नैव रोचते ॥१४०॥
एवं नीचप्रभास्वोच्चप्रभासु प्रविलीयते ।
तथापि च यथार्थज्ञा मुक्ताप्तै तत्ववेत्तमाः ॥१४१॥
यो यावतीं हरौ कान्तिं वेत्यसौ तच्छतांशभाक् ।
प्रभात्येव प्रकाशस्य तारतम्यं विदुत्तमाः ॥१४२॥
इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे दशमोऽध्यायः
N/A
References : N/A
Last Updated : January 15, 2021
TOP