प्रथमस्थानम् - अष्टमोऽध्यायः

हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.


अथातः सम्प्रवक्ष्यामि क्षीरवर्गन्तु वत्सक
दधिसर्पिर्वसातक्रं तेषां सर्वगुणागुणम् ॥१॥
यद्यदाहारजातन्तु रसं क्षीरशिरानुगम्
रसो जलं च भुक्तं च तथा पित्तेन संयुतम् ॥२॥
पाचितं जाठरे वह्नौ पित्तेन सह मूर्च्छितम्
पच्यमानं शिराप्राप्तं क्षीरतोयेन पुत्रक ॥३॥
तेन क्षीरमिति ख्यातमग्निसामात्मकं पयः
अमृतं सर्वभूतानां जीवनं वलकृन्मतम् ॥४॥
हारीतः संशयापन्नः पप्रच्छ पितरं पुनः
कथं रसस्य सम्पत्तिः कथं सञ्चीयतै विभो ॥५॥
कथं रक्तस्य संस्थाने क्षीरं पाण्ड समीरितम्
कथं तत्र कुमारीणां वन्ध्यानां न कथं भवेत् ॥६॥
एवं पृष्टो महावीर्यः प्रोवाच मुनिपुङ्गवः
शृणु पुत्र महाप्राज्ञ यदुक्तं पूर्वसूरिभिः ॥७॥
क्षीरं स्निग्धं तथा रक्तं पित्तेन पाकतां गतम्
रक्तं श्वेतत्वमायाति तथा क्षीरं सितं भवेत् ॥८॥
क्षीरनाडी कुमारीणां वन्ध्यानां च कथं भवेत्
अल्पधातुबलं यस्मात्तस्मात् क्षीरं न जायते ॥९॥
वन्ध्यानां क्षीरनाड्यस्तु वातेन परिपूरिताः
क्षीरं च न भवेत्तस्मादार्त्तवं चाधिकं यतः ॥१०॥
प्रसूतासु च नारीषु बलेन सह सूयते
तेन स्रोतोविशुद्धिः स्यात् क्षीरमाशु प्रवर्त्तते ॥११॥
तस्मात् सद्यः प्रसूतायां जायते श्लैष्मिकं पयः
तेन कठिनतां याति तस्मात्तत् परिवर्जयेत् ॥१२॥
स्रोतोविशुद्धिकरणं बलकृद्दोषनाशनम्
पयस्त्रिदोषशमनं वृष्यञ्चाग्निप्रवर्द्धनम् ॥१३॥
कृष्णा वृष्या च वातघ्नी पयस्तस्या विशिष्यते
श्वेतापयः श्लेष्मकृच्च वातलं रक्तिकापयः ॥१४॥
पित्तसंशमना पीता तस्याः क्षीरं विशिष्यते
कृष्णासृक्पित्तसंयुक्ता श्वेता श्लेष्मगुणान्विता ॥१५॥
कफवाताश्रिता पीता रक्ता वातगुणान्विता
यद्यद्वर्यगुणास्ते तु ज्ञातव्याः सुमहात्मना ॥१६॥
धारोष्ण शस्यते गव्यं धाराशीतन्तु माहिषम्
शृतोष्णमाविकं पथ्यं शृतशीतमजापयः ॥१७॥
गव्यं पवित्रं च रसायनं च पथ्यं च हृद्यं बलपुष्टिदं स्यात्
आयुष्प्रदं रक्तविकारपित्तत्रिदोषहृद्रोगविषापहं स्यात् ॥१८॥
छागं कषायं मधुरञ्च शीतं ग्राहि लघु पित्तक्षयापहारि
कासज्वराणां रुधिरातिसारे हितं पयश्छागलजं त्रिदोषजित् ॥१९॥
औरभ्रं मधुरं रूक्षमुष्णवातकफापहम्
न शस्तं रक्तपित्तानां वातिकानां हितं भवेत् ॥२०॥
स्निग्धं मरुच्छीतकरं च तन्द्रानिद्राकरं वृष्यतमं श्रमघ्नम्
बलप्रदं पुष्टिकरं कफस्य सञ्जीवनं माहिषमुच्यते पयः ॥२१॥
रूक्षं तथोष्णं लवणं कफस्य निवारणं वातविकारहारि
लघु प्रशस्तं कटुकं कृमीणां शोफार्शसामौष्ट्रपयोऽनुकूलम् ॥२२॥
सञ्जीवनं बृंहणमेव सात्म्यं सन्तर्पणं नेत्ररुजापहं च
पित्तस्य रक्तस्य च नाशनं च नारीपयः स्नेहनमेव शस्तम् ॥२३॥
निशाशीतांशुसंशीतं निद्रालस्यश्रमानुगम्
सघनं शीतकफकृत्क्षीरं प्राभातिकं भवेत् ॥२४॥
वासरे सूर्यसन्तापात्सद्योष्णं कफवातजित्
हितं तत्पित्तशमनं सुशीतं भोजने निशि ॥२५॥
अल्पाम्बुपानव्यायामात् कटुतिक्ताशने लघु
पिण्याकाम्लाशिनीनान्तु गुर्वभिष्यन्दि शीतलम् ॥२६॥
क्षीणानां दुर्बलानाञ्च तथा जीर्णज्वरार्दिते
दीप्ताग्नीनामतन्द्राणां श्रमशोषविकारिणाम् ॥२७॥
व्यवायिनामल्परेतसां श्वासिनां विषमाग्नीनाम्
तथा च राजयक्ष्मणां क्षीरपानं विधीयते ॥२८॥
न शस्तं लवणैर्युक्तं क्षीरं चाम्लेन वा पुनः
करोति कुष्ठं त्वग्दोषं तस्मान्नेव हितं मतम् ॥२९॥
अम्ल स्वादुरसं ग्राहि गुरूष्णं वातरोगजित्
मेदःशुक्रबलश्लेष्मरक्तपित्ताग्निशोफकृत् ॥३०॥
स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम्
वातापहं पवित्रं च दधि गव्यं रुजापहम् ॥३१॥
आजं दधि भवेच्चोष्णं क्षयवातविनाशनम्
दुर्नामश्वासकासेषु हितमग्निप्रदीपनम् ॥३२॥
विपाके मधुरं वृष्यं रक्तपित्तप्रसादनम्
शस्तं प्राभातिकं प्रोक्तं वातपित्तनिबर्हणम् ॥३३॥
घनं माहिषमुद्दिष्टं मधुरं रक्तदोषकृत्
कफशोफहरं स्वस्थं पित्तकृद्वातकोपनम् ॥३४॥
विपाके कटु सक्षारं गुरु भेद्यौष्ट्रिकं दधि
वातमर्शांसि कुष्ठानि क्रिमीन्हंत्युदरं परम् ॥३५॥
स्निग्धं विपाके मधुरं बल्यं सन्तर्पणं हितम्
चक्षुष्यं ग्राहि दोषघ्नं दधि नार्या गुणोत्तमम् ॥३६॥
कोपनं कफवातानां दुर्नाम्नां चाविकं दधि
दीपनीयं तु चक्षुष्यं पाण्डुकृच्चापि वातुलम् ॥३७॥
रूक्षमुष्णं कषायं स्यादत्यभिष्यन्दिदोषलम्
रसे पाके च मधुरं कषायं कुष्ठवर्द्धनम् ॥३८॥
वार्षिकं पित्तकृद्वातशमनं कफकोपनम्
गुल्मार्शःकुष्ठरोगे च रक्तपित्ते न शस्यते ॥३९॥
शारदं दधि गुर्वम्लं रक्तपित्तविवर्द्धनम्
शोफतृष्णाज्वरार्त्तानां करोति विषमज्वरम् ॥४०॥
गुरु स्निग्धं सुमधुरं कफकृद्बलवर्द्धनम्
वृष्यं मेध्यं च हैमन्तं पुष्टिदं तुष्टिवृद्धिदम् ॥४१॥
वृष्यं बलकरं पैत्तं श्रमस्यापहरं परम्
शैशिरं सघनं चाम्लं पिच्छलं गुरु चैव च ॥४२॥
वातलं मधुरं स्निग्धं किञ्चिदम्लं कफात्मकम्
बलकृद्वीर्यकृत्प्रोक्तं वसन्ते न प्रशस्यते ॥४३॥
लघु चाम्लं भवेद्ग्रीण्मे चात्युष्णं रक्तपित्तकृत्
शोषभ्रमपिपासाकृद्दधि प्रोक्तं न ग्रैष्मिके ॥४४॥
शरद्ग्रीष्मवसन्तेषु दोषकृन्न हितं भवेत्
न नक्तं दधि भुञ्जीत न चाऽप्यघृतशर्करम् ॥४५॥
लवणं दधि भुञ्जीत भुञ्जीताऽप्युदकेन च
तल्लवणाम्बुसंयुक्तं दधि शस्तं निशि ध्रुवम् ॥४६॥
ज्वरासृक्पित्तविसर्पकुष्ठिनां पाण्डुरोगिणाम्
सम्प्राप्तकामलानाञ्च शोफिनाञ्च विशेषतः ॥४७॥
तथा च राजयक्ष्मणामपस्मारे च पीनसे
प्रतिश्यायार्दितानाञ्च भोजने न हितं दधि ॥४८॥
हिक्काश्वासार्शःप्लीहानामतीसारे भगन्दरे
शस्तं प्रोक्तं दधि चैषां लवणेन विमूर्च्छितम् ॥४९॥
गव्यं त्रिदोषशमनं पथ्ये श्रेष्ठं तदुच्यते
दीपनं रुचिकृन्मेध्यमर्शोदरविकारजित् ॥५०॥
माहिषं कफकृत्किञ्चिद्घनं शोफकरं नृणाम्
शस्तं प्लीहार्शोग्रहणीदोषेऽतीसारिणामपि ॥५१॥
छागलं लघु सन्दिग्धं त्रिदोषशमनं परम्
गुल्मार्शोग्रहणीशूलपाण्ड्वामयविनाशनम् ॥५२॥
तथा च त्रिविधं तक्रं कथ्यते शृणु पुत्रक
यथा योगेन तत् तम्यक् शस्यते येषु रोगिषु ॥५३॥॥
समुद्धृतघृतं तक्रमर्द्धोद्धृतघृतञ्च यत्
अनुद्धृतघृतञ्चान्यदित्येतत्त्रिविधं मतम् ॥५४॥
सर्वं लघु च पथ्यञ्च त्रिदोषशमनं परम्
ततः परं वृष्यतरं क्रमेण समुदीरितम् ॥५५॥
अनुद्धृतघृतं सान्द्रं गुरु विद्यात्कफात्मकम्
बलप्रदन्तु क्षीणानामामशोफातिसारकृत् ॥५६॥
गरोदरार्शोग्रहणीपाण्डुरोगे ज्वरातुरे
वर्चोमूत्रग्रहे वापि प्लीहव्यापदमेहिषू ॥५७॥
हितं सम्प्रीणनं बल्यं पित्तरक्तविरोधकृत्
मधुरं पित्तरक्तघ्नमत्युष्णं रक्तपित्तकृत् ॥५८॥
बहूदकं दीपनीयं रक्तपित्तप्रकोपनम्
पीनसे श्वासकासे च न शस्तमिह कथ्यते ॥५९॥
अर्द्धोदकमुदश्वित्स्यात्तक्रं पादजलान्वितम्
वातं कफं हरेद्घोरमुदश्विच्छ्लेष्मलं भवेत् ॥६०॥
करेण मर्दितं जन्तुतर्पणं बलकृन्मतम्
श्रमापहरणं स्निग्धं ग्रहण्यर्शोऽतिसारनुत् ॥६१॥
ऋते शोफे च क्षीणानां नोष्णकाले शरत्सु च
न मूर्च्छाभ्रमतृष्णासु तथा रक्ते सपैत्तिके
न शस्तं तक्रपानञ्च करोति विविधान् गदान् ॥६२॥
शीतकालेऽग्निमान्द्ये च कफोच्छ्रायामयेषु च
मार्गावरोधे दुष्टेऽग्नौ गुल्मार्शसि तथामये ॥६३॥
शस्तं प्रोक्तञ्च तक्रं स्यादमीषां सर्वदा हितम्
सर्वकालेषु तच्छस्तमजाजिलवणान्वितम् ॥६४॥
नवनीतं नवग्राहि हृद्यं चोल्बणदीपकम्
क्षयारुच्यर्दितप्लीहग्रहण्यर्शोविकारनुत् ॥६५॥
चक्षुष्यं शिशिरं स्निग्धं वृष्यं जीवनबृंहणम्
क्षीणे द्रवं हिमं ग्राहि रक्तपित्ताक्षिरोगनुत् ॥६६॥
स्मृतिवाय्वग्निशुक्रौजः कफमेदोविवर्द्धनम्
वातपित्तकफोन्मादशोफालक्ष्मीज्वरापहम्
सर्वदोषापहं शीतं मधुरं रसपाकयोः ॥६७॥
कृष्णगोऽश्वपयः फेनमजानां वेत्ति शस्यते
मन्दाग्नीनां कृशानाञ्च विशेषादतिसारिणाम् ॥६८॥
उत्साहदीपनं वल्यं मधुरं वातनाशनम्
सद्यो बलकरञ्चैव तस्य क्षीरविलोडितम् ॥६९॥
क्षीणज्वरातिसारे च सामे च विषमज्वरे
मन्दाग्नौ कफमाश्रित्य पयःफेनं प्रशस्यते ॥७०॥
क्षीरं गवां क्षीरफेनं तक्रं वा हितमेव च
पक्वाम्रभक्षणाद्वापि ग्रहणी तस्य नश्यति ॥७१॥
ताम्बूलं नैव सेवेत क्षीरं पीत्वा तु मानवः
यावत्तच्च द्रवेत्क्षीरं भुक्तान्ताद्वापि शस्यते ॥७२॥
विपाके मधुरं वृष्यं वातपित्तकफापहम्
चक्षुष्यं बलकृन्मेध्यं गव्यं सर्पिर्गुणोत्तमम् ॥७३॥
आज्यं सन्दीपनीयञ्च चक्षुष्यं बलवर्द्धनम्
कासश्वासक्षयाणाञ्च हितं पाके कफापहम् ॥७४॥
सवातपित्तशमनं सुशीतं माहिषं घृतम्
मधुरं गुरु विष्टम्भि बल्यं श्रेष्ठगुणात्मकम् ॥७५॥
औष्ट्रं कटु घृतं पाके शोषकृमिविषापहम्
दीपनं कफवातघ्नं कुष्ठगुल्मोदरापहम् ॥७६॥
पाके लघ्वाविकं सर्पिः सर्वरोगविषापहम्
वृद्धिं करोति चास्थ्नां वै वाश्मरीशर्करापहम् ॥७७॥
वृद्धिं करोति देहाग्नेः पय आश्वं विषापहम्
चक्षुष्यमूषणञ्चाग्नेर्वातदोषनिवारणम् ॥७८॥
वृद्धिं करोति चास्थ्नां वै तत्प्रोक्तञ्च विषापहम्
तर्पणं नेत्ररोगघ्नं दाहनुत्पयसो घृतम् ॥७९॥
सर्पिर्जीर्णं तच्च सन्धुक्षणे च मूर्च्छाकुष्ठोन्मादकर्णाक्षिशूले
शोफार्शसोर्योनिदोषे व्रणेषु शस्तं सर्पिर्जीर्णमेवं नृणां स्यात् ॥८०॥
कफेऽनिले योनिदोषे रोगेष्वन्येषु तद्धितम्
चक्षुष्यमार्त्तं स्त्रीणाञ्च सर्पिः स्यादमृतोपमम् ॥८१॥
बलक्षये तर्पणभोजनेषु श्रमे च पित्तासृजि रेणुयुक्ते
नेत्रामये कामलपाण्डुरोगे क्षये नवं सर्पिर्वदन्ति धीराः ॥८२॥
ज्वरे विबन्धेषु विषूचिकायामरोचके वा शमिते तथाग्नौ
पानात्यये वापि मदात्यये वा शस्तं न सर्पिर्बहु मन्यते सुधीः ॥८३॥

इति आत्रेयभाषिते हारीतोत्तरे क्षीरवर्गो नाम अष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : February 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP