प्रथमस्थानम् - त्रयोविंशोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
मण्डः परिस्रवो भक्तस्तर्पणो वातनाशनः
मूत्रमेहसमीरघ्नो रुचिकृन्मूत्रलो मतः ॥१॥
आशुमण्डो भवेद्ग्राही मधुरो वा कफात्मकः
तर्पणः क्षयदोषघ्नः शुक्रवृद्धिकरः परः ॥२॥
अप्रसाधितभक्तो युगन्धराणां भक्तश्च घनो विशदमधुरश्च
कफे त्रिदोषशमनश्च कथ्यते कासश्च श्वासात्मक एव स स्मृतः ॥३॥
सन्दीपनी स्वेदकरा यवागूः सम्पाचनी दोषमलामयानाम्
सन्तर्पणी धातुबलेन्द्रियाणां शस्ता भवेत्स्याज्ज्वररोगिणाञ्च ॥४॥
भागैकञ्च भवेत् तत्र द्विभागेन जलं क्षिपेत्
चित्रकं पिप्पलीमूलं पिप्पली चव्यनागरम् ॥५॥
धान्यकस्य समांशानि पिष्ट्वा श्वेतासितण्डुलान्
संशुद्धा शिथिला किञ्चित् सा यवागूर्निगद्यते ॥६॥
यवागूमुपभुञ्जानो जनो नारुचिमाचरेत्
शाकमाषफलैर्युक्ता यवागूः स्याच्च दुर्जरा ॥७॥
पञ्चकोलकधान्याकैर्युक्तो रास्नान्वितः पुनः
मण्डस्त्रिदोषशमनो ज्वराणां पाचनः परः ॥८॥
पायसं गुरु विष्टम्भजननं श्लेष्मवातलम्
पित्तसंशमनं बल्यं वृष्यं श्रेष्ठं रसायनम् ॥९॥
गुरुर्विष्टम्भजननो वातश्लेष्मकरः स्मृतः
पित्तसंशमनो बल्यो बृष्यश्चैव फलप्रदः ॥१०॥
मुहुस्तण्डुलसंयुक्तो माषतण्डुलवान् पुनः
अन्यथा धान्यगुणवान् लक्ष्यते च भिषग्वर ॥११॥
तिलानां संयुतो हृद्यो धातुपुष्टिविवर्द्धनः
गुरुर्विष्टम्भमलकृद्दुर्जरः श्लेष्मकोपनः ॥१२॥
सूपश्चोक्तस्त्रिदोषघ्नो व्यञ्जितश्चैव सर्पिषा
धातुपुष्टिकरः श्रेष्ठो बृंहणो बलवर्द्धनः ॥१३॥
वातकफकरो हृद्यः खलको बलकारकः ॥१४॥
कफानिलहरो हृद्यो दीपनो दाडिमाम्लकः ॥१५॥
पर्पटस्तैलसंभृष्टो दोषाणाञ्च ज्वरापहः
रुचिकृद्बलकृच्चैव दाहशोषतृषापहः ॥१६॥
सण्डाकी च गुरुःस्निग्धा दुर्जरा अतिशीतला
पित्तश्लेष्मकरा बल्या धातूनाञ्च बलप्रदा ॥१७॥
दुर्जरा मधुरा रुच्या वटिका माषकादिभिः ॥१८॥
गुडदधिप्रमुदिता हिता शिखरिणी नृणाम्
धातुवृद्धिकरा वृष्या वातपित्तविनाशिनी ॥१९॥
शीतलः पित्तशमनो भ्रममूर्च्छातृषापहः
खण्डेन संयुतः श्रेष्ठो घृतयुक्तो जलाधिकः ॥२०॥
सक्तवः सर्पिषाभ्यक्ताः शीतवारिपरिप्लुताः
नातिद्रवा नातिसान्द्रा मन्थ इत्यभिधीयते ॥२१॥
मन्थः सद्यो बलच्छर्दिपिपासादाहनाशनः
साम्लः स्नेहश्च सगुडो मूत्रकृच्छ्रस्य साधनः ॥२२॥
सिद्धं मांसं वेसवारेण युक्तं बल्यं श्रेष्ठं स्वादु संदीपनञ्च
त्रिदोषशमनं गुरु लवणस्नेहयुक्तं दुर्जरं दीपनं स्मृतम् ॥२३॥
नहि मांससमं किञ्चिदन्यद्देहमहत्त्वकृत्
मांसादमांसं मांसेन सम्भृतत्वाद्विशिष्यते ॥२४॥
अङ्गारैः परिपक्वञ्च दीपनं श्लेष्मनाशनम्
बल्यञ्च स्नेहसंयुक्तं घनं घनगुणात्मकम् ॥२५॥
अत्युष्णं मण्डकं पथ्यं लघु चैव यथोत्तरम्
त्रिकशूलपार्श्वशूलपरिणामापहं तथा
तृष्णामारुतछर्दिघ्नमामाशयकरं तथा ॥२६॥
तप्तकर्परपक्वा या रोचनी मधुरा घना
कफवृद्धिकरी बल्या पित्तरक्तप्रदायिनी ॥२७॥
पूरिका घृतपूरन्तु त्रिदोषशमनं परम्
वृष्यं संबृहणं स्वादु क्षतक्षयनिवारणम् ॥२८॥
गुरूष्णो दुर्जरो ज्ञेयो वातश्लेष्मकरो गुरुः
पूपकः श्लेष्मको हृद्यो वृष्यो वातानुलोमकः ॥२९॥
सोमालिका घना स्वादू रोचनी बलवर्द्धनी
दुर्जरा दोषशमनी वृष्यानुकरणी मता ॥३०॥
बृंहणी वातपित्तघ्नी पथ्या लघुतरा मता
फेनिका रोचनी बल्या सर्वधातुबलप्रदा ॥३१॥
विष्टम्भी मधुरो हृद्यो घनो वातकफात्मकः
स तिक्तो वा त्रिदोषघ्नो दुर्जरो जायते पुनः ॥३२॥
अभिन्नो दुर्जरो बल्यो घनतृष्णाप्रदः स्मृतः
तीक्ष्णो विपाके विष्टम्भी दुर्जरो जायते पुनः ॥३३॥
कटुकास्तर्पणा बल्या दुर्जराः शोषकारकाः
मन्दाग्नौ न प्रशस्यन्ते मोदका बहुवर्णकाः
द्रव्यं गुणविशेषेण सारस्वादेन वा पुनः ॥३४॥
पोलिका कथिता बल्या कफदोषकरी मता
वृष्या वीर्यप्रदा ज्ञेया दोषला वीर्यवर्द्धिनी ॥३५॥
विदलान्नस्य या पर्णा सिद्धा कर्परकेण तु
रुच्या वान्नविशेषेण दोषान् सर्वान् विभावयेत् ॥३६॥
अन्यानि चान्नपानानि नैवोक्तानि महामते
ग्रन्थविस्तारभीरुश्च लोको वक्तुं न च क्षमः ॥३७॥
श्रमात्तु भोजनं यस्तु पानं वा कुरुते नरः
ज्वरः सञ्जायते तस्य छर्दिर्वा तत्क्षणाद्भवेत् ॥३८॥
कृत्वा तु भोजनं सद्यो व्यायामं सुरतं तथा
यः करोति विपत्तिः स्यात्तस्य गात्रस्य निश्चितम् ॥३९॥
न चातिशीतं भुञ्जीत नात्युष्णं भोजने हितम्
कुर्याद्वातकफौ शीतमुष्णं भवति सारकम् ॥४०॥
न श्रान्तो भोजनं कुर्यान्न व्यायामसमाकुलः
विषमासने न भोक्तव्यं करोति विविधान् गदान् ॥४१॥
आदौ फलानि भुञ्जीत वर्जयित्वा तु कर्कटीम्
न नक्तं दधि भुञ्जीत भोजनार्द्धे न धावनम् ॥४२॥
भोक्तोपविशति स्थौल्यं बलमुत्तानशायिनः
आयुर्वामकटिस्थस्य मृत्युर्धावति धावतः ॥४३॥
नवादौ सलिलं पेयं भोजने पानमाचरेत्
अर्द्धाहारेण भुञ्जीत तृतीयं व्यञ्जनेन तु ॥४४॥
चतुर्थं तोयपानेन पूर्णाहारः सुजायते ॥४५॥
भोजनोर्ध्वं चंक्रमते शतपादं शनैः शनैः
पश्चादुत्तानशयनं ततो वामे क्षणं स्वपेत् ॥४६॥
भुक्त्वोपरि समाचम्य मार्जयेद्दक्षिणाकरैः
पुनर्दक्षिणहस्तेन मार्जयेदुदरं सुधीः ॥४७॥
उद्गीरयेत्समुद्धारं न चोद्धारस्य धारणा ॥४८॥
व्यायामञ्च व्यवायञ्च धावनं पानमेव च
युद्धं गीतञ्च पाठञ्च क्षणभुक्तो विवर्जयेत् ॥४९॥
न सद्यः पीते पठनं गमनं च न कारयेत्
न वा वाहनमारोहं विवादं न च कारयेत् ॥५०॥
दिवास्वापं न कुर्यात्तु भुक्त्वोपरि च विश्रमेत्
अकालशयनाच्छ्लेष्मा प्रतिश्यायः प्रपीनसः ॥५१॥
क्षयशोफशिरोऽर्त्तिश्च जायते चाग्निमदन्ता ॥५२॥
मद्यपीते परिश्रान्ते हिक्काश्वासातुरेषु च
भयशोकक्षुधार्त्तानां पठनान्मैथुनेन च ॥५३॥
तथैव वृद्धबाले च भाराक्रान्ते तथातुरे
अतीसारे च शोफे च तृष्णापानात्ययेऽपि च ॥५४॥
ग्रीष्मे बाल्ये निशादृप्ते दिवास्वप्नं हितं भवेत् ॥५५॥
इति आत्रेयभाषिते हारीतोत्तरे अन्नपानवर्गो नाम त्रयोविंशोऽध्यायः ॥२३॥
प्रथमस्थानं समाप्तम् १
N/A
References : N/A
Last Updated : February 22, 2021
TOP