परमपुरुषसंहिता - द्वितीयाध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


ऋषयः-
ऋषि प्रश्न
श्लो ॥भगवन् मुनिशार्दूल पांचरात्रार्धकोविद
अज्ञापयार्चकादीनां संख्यानिर्णयमुत्तमं ॥१॥
परिचारकवर्गेतु विभेदःकिमुदीरितः
तेषांतुनिर्णयंकस्मिन् कालेकर्तव्यमुत्तमं ॥२॥
तत्कुटुंबाभि वृद्ध्यर्धमुपाथिः किमुदीरतः
(विस्तरेणैव सर्वज्ञ वदत्वंवदतांवर)निस्तरेणैव तेषांतु लक्षणानिचब्रूहिनः ॥३॥
नारदप्रतिवचन
श्रीनारदः-
प्रतिष्ठादिवसेह्यर्चकादिनिर्णयं कार्यं
शृणुध्वंमुनयस्सर्वे भक्तियुक्तैस्तुमानसैः
कल्पितेतुहरेर्धाम्नि राजाराष्ट्राभिवृद्धये ॥४॥
आचंद्रार्कमविच्छिन्न पूजनार्थंमधुद्विषः
निर्णीतव्यार्चकाश्चान्याः प्रतिष्ठादिवसेवहि ॥५॥
अर्चकलक्षणं
वेदवेदांग तत्वज्ञान् सुशीलान् भक्तिपारगान्
जपहोमादि निरतान् युवकान्‌सत्यवादिनः ॥६॥
पापभीतियुतान्चैव पंचसंस्कारसंयुतान्
श्रीवैष्णवान् दीक्षितान्च पांच(रात्रार्धकोविदान्)रात्रविशारदान् ॥७॥
अन्यतंत्रविदश्चैव स्वार्थत्यागे सुशिक्षितान्
सर्वावयव संपूर्णान् सदारोग्यशरीरकान् ॥८॥
वंशपारंपरेणैव विष्ण्वर्चन परायणान्
असंभवेतुचैतेषां(वैष्णवान् भक्तिपारगान्)महाभक्तान् द्विजान्‌तुवा ॥९॥
पंचसंस्कार संयुक्ता नागमज्ञान्‌चकोविदान्
सदाहरि पदध्यान पूजातत्परमानसान् ॥१०॥
परमैकांतिनश्चैव पंचकाल परायणान्
सदाचारपरान्‌सर्वैः पूर्वोकैर्लक्षणैर्युतान् ॥११॥
अर्चकसंख्या
अर्चकान् वरयेत्पूर्वं शतमष्टोत्तरंतुवा
द्वात्रिंशत्संख्ययायद्वा चतुर्विंशतिवाधवा ॥१२॥
षोडशद्पादशाष्टौवा (चतुरोद्वय मेववा)अर्चकद्वयमेववा
अधमाथममेकंवा यजमान स्स्वशक्तितः ॥१३॥
आश्रमनिर्णयं
ब्रह्मचारि र्गृहस्थोवा काननस्थोधवायतिः
परार्धयजने विष्णोरर्हत्येवन संशयः ॥१४॥
अर्चकत्वानर्हतानिरूपणं
अनुपवीतोत्यपत्नीकः आलयेयदि पूजते
तद्देशेसर्वनाशंच (कर्त्रुवंशक्षियंभवेत्)राज्ञोवंशक्षयं धृवं ॥१५॥
देवलकत्व निरूपणं
अदीक्षि(तोप्यनाचारी)तश्चनाचारी (संस्काररहितोजडः)पंचसंस्कारवर्जितः
अंगहीनोव्याधियुक्तो प्यधमान्वय संभवः ॥१६॥
पाषंडश्चागमानज्ञो अवैष्णवनराधमः।
यद्देशेधनलोभेन हरिंपूज(तिचेत्तदा)यतिस्वयं ॥१७॥
देशारिष्टं(सदातस्मिन् देशेभवति निश्चयं)तुतस्मिन् वैदेशेभवति सर्वदा
सवैदेवलकोनाम सर्वकर्मबहिष्कृतः ॥१८॥
तस्यदर्शनमात्रेण(घोरपापोभवेद्धृवं)घोरंपापं भविष्यति
अर्चकछंडाल निरूपणं
अन्यसेवादिकंयस्तु पूजकःकुरुतेभुवि ॥१९॥
सछंडालयितिप्रोक्तो अर्चकेषु मुनीश्वराः
क्षेत्राधिक्यतयामर्चक संख्याधिक्य ताकधनं
तत्कृतैरर्चनेर्लोकेनकिंचिच्च(ल्ळभतेफलं)फलंलभेत् ॥२०॥
क्षेत्राधिक्यंसमालोक्य निर्णीतव्यार्चकद्विजाः
भिन्नगोत्र समुत्सन्ना यधाविभव विस्तरं ॥२१॥
अर्चकोपाधि प्रकल्पनविधिः
तत्कुटुंबाभि वृद्ध्यर्ध मुपाधिं(कल्पयेद्विजाः)परिकल्पयेत्
(शाश्वतंचैववसतिं)वसतिंशाश्वतंतेषां वंशपारं परागतं ॥२२॥
प्रतिष्ठंतेतुदेवस्य यजमानः प्रसन्नधीः
आचार्यस्याज्ञयादेव सन्निधौपूयकद्विजं ॥२३॥
समाहूय सुमूहूर्ते नमस्कृत्ययधाविधि
बद्धांजलिपुटोंभूत्वा (इतिविज्ञापनंचरेत्)विज्ञापन मधाचरेत् ॥२४॥
देवस्याराधनार्धाय त्वत्कुटुंबप्रवृद्धये
(करिष्याम्यद्यभूदानं)मयादत्तामिमां भूमिंगृहाणद्विजपुंगव. ॥२५॥
प्रतिष्ठाफलसंसिद्धि र्येतस्माद्दान कारणात् दीयतां मम श्रीनाधः-
प्रसन्नस्तु दयामयः (इत्यधिकपाठः)
इतिविज्ञा प्यकर्तातु प्रसन्ने नैवचेतसा
अर्चकस्स हरि स्साक्षाच्चररूपीन संशयः ॥२६॥
इतिमत्वातु हृदये प्रणम्य शिरसाभुवि
अर्चकस्य करीभूमिं सहिरण्य फलोदकां ॥२७॥
दत्वाय धोक्तविधिना भूदानं देवसन्निधौ
शिलायां ताम्रपत्रेवा लिखित्वादान शासनं ॥२८॥
अर्चकाय प्रदातव्यं (कर्तानिर्मलचेतसा)निर्मलेनैवचेतसा
यःकरोति प्रसन्नात्मा (चैतद्भूदानमुत्तमं.)विधिनाने नकेवलं ॥२९॥
भृतकनिर्णये प्रत्यवायः
तद्वंशजाः परंयांति शतपूर्वाशतापराः
इत्येवं विधिनाकर्ता भगवत्पूजनार्धकं ॥३०॥
भूदानमेव कुर्वीत भृतकं नकदाचन
भूमीदानं विनाकर्ता भृतकं प्रददातिचेत् ॥३१॥
तस्यवंश क्षयंभूयात्तस्यायु श्श्रीश्चनश्यति
योगृह्णा तिद्विज श्रेष्ठाः भृतकं हरिपूजने ॥३२॥
सवैदेवलकः प्रोक्त स्सर्व कर्म बहिष्कृतः
तस्मात्सर्व प्रयत्नेन भूमीमेवप्रदापयेत् ॥३३॥
दानशासन नामनिर्णयः
भगवत्प्रीत येचैत द्दानशासन मुत्तमं
लिखित्वा भगवन्नाम्मात्वर्चकायप्रदापयेत् ॥३४॥
देवनाम्मातु भूदान मुत्तमं परिचक्षते
अर्चकस्य भवेन्नाम्मा मध्यमं फलदायकं ॥३५॥
अधमं चोदितं कर्ता स्वनाम्मा यदितल्लिखेत्
केवलं परमार्धाय कर्तातु भगवद्ग्रुहं ॥३६॥
देवादायस्वीकरणे अर्चकस्यार्हता यजमानस्य प्रत्यवायश्चछ
यदिनिर्माय तेतर्हि तद्देवाल यरूपतः
आदायं लभतेचैत त्किंचिद्वा(धिकमेववा)घनमेववा ॥३७॥
विषप्रायं(तुतंवीक्ष्य[दृष्ट्वा])समालोक्यअर्चकेभ्यः प्रदापयेत्
कृतेत्वेत न्महात्यागंकर्तासद्यशमाव्मुयात् ॥३८॥
योमोहाद्लव मात्रंवादेवादायं (तुभक्षयेत्)भुजत्यसौ
सगच्छेन्नरकान् घोरान्‌ शारवादीन् नराधमः ॥३९॥
तस्मात्सर्व प्रयत्नेन निष्कामोस्धापयेद्धरिं।
स्थानाचार्यलक्षणं
भगवत्पादतीर्थांबु सेवनार्थंवरेत्ततः ॥४०॥
स्थानाचार्यंचतत्थ्साने हस्तकंचनियोजयेत्
सद्वंशचो सत्यवादी सज्जनोसद्गुकणारः ॥४१॥
सदाचारीच सद्भक्त स्सदाहरि परायणः
क्रोधलोभमदाद्यैस्तु वर्जितोवैष्णवोत्तमः ॥४२॥
वेदवेदांग वेदीच तपस्स्वाध्यायतत्परः
पांचरात्र विधानज्ञः पंचसंस्कार(संयुतः)दीक्षितः ॥४३॥
पांचकालिक धर्मज्ञः परमैकांतिरुत्तमः
सर्वावयवसंपूर्णो सदारोग्यशरीरकः ॥४४॥
तत्कर्तव्यविधयः
वयोवृद्धः कृपामूर्ति स्थ्सानाचार्येभवेच्छुचिः
वंश(पारंपरेणैव)क्रमागतेनैवविधिनाहरिसन्निधौ ॥४५॥
प्रसादं भगवत्तीर्धं प्रधमं(सपरिगृहेत्)तुपरिगृहेत्
आलयेचैव वस्तव्य महोरात्रं स्वयं गुरुः ॥४६॥
सूर्योदयं समारभ्य यावदर्चावसानकं
तत्सम्मानादि तदाश्रमनिर्णयः
ब्रह्मोत्सवादिकेत्वादौ तस्यसन्मानमुत्यते ॥४७॥
ब्रह्मचारिर्ग्रुहस्तोवा यतिर्वा लक्षणैर्युतः
स्थानाचार्योभवेत्सत्यमिति(शास्त्रविनिश्चयः)शास्त्रेषुनिश्चयः ॥४८॥
यतिश्चेदुत्तमः प्रोक्तोगृहस्थुर्मध्य मस्मृतः
अधमो ब्रह्मचारीस्यात्थ्सानाचार्य विनिश्चये ॥४९॥
मठसांप्रदाय निरूपणं
स्थानाधीपोयतियदिस्यात्तन्निवेशार्धमादरात्
द्वितीयावरणेवापि तृतीयावरणेपिवा ॥५०॥
मठमेकंतुनिर्माय दातव्यंकर्त्रुरिच्छया
मठस्यसांप्रदायेन मुख्यशिष्यो भवेद्गुरुः ॥५१॥
यतिश्चेन्मधनाम्नाच गृहस्थस्तस्यनामनि
तदुपाथिप्रकल्पनं
ग्रामंवाभूमिवातस्य जीवनार्धं प्रकल्पयेत् ॥५२॥
तत्संख्या निर्णयः
क्षेत्राधिक्यतयाप्येकद्वि त्रिसंख्याकवैष्णवान्
स्थानाचार्य पदेकर्तानिश्छित्य तदनंतरं ॥५३॥
अध्यापकाः
वेदपारायणार्धेच शास्तप्रस्तोत्रप्रपाठने
द्राविडाम्नायपठने प्रत्यहंदेवसन्निधौ ॥५४॥
(अध्यापक गणं स्थाप्यं) आध्यापकानीचवरये त्पूर्वोक्तेनैववर्त्मना
तत्संख्या निर्णयः
सहस्रमयुतंनापि शतमष्टोत्तरंतुवा ॥५५॥
चतुस्सप्तति संख्यावा द्वात्रिंशद्वायधाविधि
द्वादशाष्टाचतदनु चतुरोप्यधमाधमं ॥५६॥
अध्यापकान् तुवरयेत्ध्सानाधिपतिनासह
अथ्ययन प्रशस्तिः
देवालयेषुसर्वत्र मुख्यमध्ययसंस्मृतं ॥५७॥
शरीरेपोषणंयद्व न्मुख्यमित्यभिधीयते
तधैवाध्यापकैर्नित्य मालयेस्तोत्रमुच्यते ॥५८॥
अथ्यापक संख्या यामुत्तमाधम निरूपणं
अध्यापकानांसंख्यास्या दयुतंदिव्यमुत्तमं
सहस्रनामगणनात्तत्संख्याचोत्तमोत्तमं ॥५९॥
अष्टोत्तरशतंयस्तु तत्स्यादुत्तममध्यमं
चतुस्सप्तति(पीठाख्य)संख्याक मुत्तमाधममीरितं ॥६०॥
द्वात्रिंशदुपचाराणां संख्यास्यान्मध्यमोत्तमा
चतुर्विंशतिनामानां संख्यामध्यममध्यमा ॥६१॥
उपचारैष्षोडशभिः मध्यमाधममुच्यते
भूतादिमुनिसंख्याकं अधमोत्तममीरितं ॥६२॥
अष्टदिक्संख्ययायत्तु तत्स्यादधममध्यमं
व्यूहसंख्यातुसाप्रोक्ता अधमाधमनामकं ॥६३॥
इत्येतेध्यापकाःप्रोक्तावैष्णवार्चाविधानके
एतैस्तुसर्वदागेहे देवदेवस्यशार्ज्गिणः ॥६४॥
आध्येतव्यास्सदावेदशास्त्रस्तोत्रादिकाश्शुभाः
क्षेत्राधिक्यतया अध्यापकसंख्या निर्णयं
दिव्यक्षेत्केषु(सर्वेषु)सर्वत्र उत्तमोत्तमसंख्यया ॥६५॥
अध्यापकगणंस्थाप्यं सर्वलोकसुखावहं
अशक्तश्च्येददाकर्ता अधमोत्तमसंख्यकान् ॥६६॥
अध्यापकांतुवरयेत्तस्मादल्पंनकारयेत्
अथ्यापकानां कर्तव्यविथयः तत्सान्मातादि
ऋग्वेदं पूर्वदिग्भागे यजुर्वेदंच दक्षिणे ॥६७॥
पश्चिमेसामवेदंच अधर्वं चोत्तरेतधा
इतिहासं(चाग्निदेशे.)चाग्निकोणे नैरुत्यांस्तोत्रमुत्यते ॥६८॥
धर्मशास्त्रंतुवायव्ये ईशा(न्यांमंत्रपाठकं.)न्यामागमंस्मृतं
द्राविडाम्नायमेकैकं चतुर्दिक्षुचपाठयेत् ॥६९॥
द्वादशाक्षरसंख्याका श्चैवमध्यापकास्सदा
दिवारात्रंचदेवेशं प्रार्धयेल्लोकरक्षणे ॥७०॥
राजाराष्ट्राभिवृध्यर्धं निर्मलेनैवचेतसा
यात्राकालेपिचैतेषां स्तवंहारिसमीपतः ॥७१॥
वस्तव्यंनान्यधायात्रा पुनातिग्रामवासिनः
तस्मात्तान् केवलंभूत सरोयोगीश्वरादिकान् ॥७२॥
मत्वालोकस्तुसंभाव्य तरिष्यतिविनिश्चयं
देवालयेपिचैतेषां सत्कारंप्रधमं(चरेत्)स्मृतं ॥७३॥
हरिप्रसादतीर्थाद्यै रादौतान्‌परि(तोषयेत्)तृप्त्ययेत्
शेषामुपाधिपरिकल्पनं
ऎतेषांजीवनार्धाय यजमा(नस्स्यशक्तितः)नोयधावसु ॥७४॥
भूमिंवाभृतकंवापि शाश्वतंपरिकल्पयेत्
भूवसत्त्युत्तमंप्रॊक्तं भृतकंत्वधमंभवेत् ॥७५॥
तस्मात्सर्वप्रयत्नेन भूमीमेवप्रदापयेत्
हस्तकाःतत्कर्तव्यविधयः
अर्चकस्यसहायार्धं देवकार्येष्वहर्निशं ॥७६॥
पात्रादिशोधनार्थंच दीपप्रज्वलनार्धकं
हस्तघंटाचालनार्थं प्रोक्षणायस्थलादिकं ॥७७॥
तत्संख्या
एकस्यार्चकविप्रस्य द्वौद्वौसंख्याकवैष्णवौ
अर्चकार्हैश्चसर्वैश्च लक्षणैस्संयुतौशुचौ ॥७८॥
तदुपाधिः
हस्तकौवरयेत्तेषां भूमिंवाभृतकंतुवा
निर्णीतव्यं यधाशक्ति यजमानेनभक्तितः ॥७९॥
पाचकाः त्संख्याच.
त्रिकालंदेवदेवस्य हविःपचनकर्मणि
द्वादशंनवकंवापि षट्त्रिसंख्याकवैष्णवान् ॥८०॥
पाचकान् लक्षणैर्युक्तान् पूर्वोक्तविधिनातुवै
तद्विधयः
पाकशस्त्रेषुनिपुणान् निर्णीतव्यंयधावसु ॥८१॥
हविःचनकालेतु तेबध्वानाशिकापुटं
नैवेद्यांतंप्रवर्तेत भयभक्तियुतास्सतं ॥८२॥
संभाषणंपरित्याज्यं पूक्वोक्तसमयेद्विजाः
तदुपाधिः.
येतेषांजीवनार्धाय भूमिंवाभृतकंतुवा ॥८३॥
कर्तास्वशक्तिमालोक्य(यधाशक्तिविनिश्चयेत्)निर्णीतव्यं द्विजोत्तमाः
तदितर परिचारक निर्णयः
भेरीमृदंगपटह वीणावेण्वादिवाद्यकान् ॥८४॥
घंटाकाहळतूर्यादि मर्दळध्वनिकारकान्
नृत्तगीतादिनिपुणान् वंदिमागथलेखकान् ॥८५॥
वेत्रहस्तान् भटान्चैव गजाश्वोष्ठ्रादिपालकान्
गोपालकान् देवदासीः रधसारधिकान् तधा ॥८६॥
स्धानशुद्धिकरान्‌चैव पात्रशुद्धिकरान्‌तधा
छत्रचामरवेत्रादि धारकान्‌वाहकान्‌ततः ॥८७॥
देवपूजाभिवृध्यर्धं यधाशक्तिनियोजयेत्
देवालयसेवकानर्हतानिरूपणं
सेवकास्सर्वयेवैते पंचसंस्कारसंयुताः ॥८८॥
अन्वास्त्वनर्हाइत्युक्ताहरेर्गेहेबुधोत्तमाः
एदेषांजीवनार्धाय भूमिंवाभृतकंतुवा ॥८९॥
तदुपाथिः प्रकल्पनं फलश्रुतिः
यधायोग्यंविनिश्चित्य यजमानःप्रसन्नधीः
तान्‌तान्‌निश्चितकार्येषु तदाकर्तानियोजयेत् ॥९०॥
एवमुक्तविधानेन पांचरात्रोक्तवर्त्मना
(परिचारकैश्च सर्वैश्च,)परिचारकवर्गैश्च यःप्रतिष्ठाप्यतेहरिं ॥९१॥
सयातिपरमंस्धानं योगीनामपिदुर्लभं
साक्षाद्वैकुंठनगरं(तत्रसायुज्यमाप्नुयात्)तत्रास्तेभगवानिव ॥९२॥
सर्वपरिचारिक निर्णयशक्त्यभावे
यजमानस्यविभवे सर्वानेतान्‌प्रकल्पयेत्
नोचेदर्चकमेकंवा वरयेद्भक्तिभावतः ॥९३॥
अर्चकद्वितयंशौरिं संस्थाप्यचयधाविधि
यजमानोप्यशक्तश्चेत्संपूर्णंफलमाप्नुयात् ॥९४॥
जीर्णोद्धारे यधा पूर्वक संख्या प्रकल्पनंतल्लोपे प्रत्यवाय किधनंच
जीर्णोद्धारादिसमये प्यालयस्यमधुद्विषः
ऋष्यादिपूजितेस्थाने पारंपर्याक्रमंविवा ॥९५॥
विशेषंनाचरेत्किंचि(ल्लोकक्षेमार्ध मेवहि)द्राजाराष्ट्राभिवृद्धये
क्रोधाद्वालोभतोवापि मोहाद्वापत्सरेणवा ॥९६॥
यःकरोतिविभेदोस्मिन् तस्यवंशक्षयं(धृवं)स्मृतं
दिव्यक्षेत्रेषुसर्वत्र पारंपर्याक्रमागते ॥९७॥
परिचारकसंख्याया(मल्पाधिक्या)मल्पाधिक्यंनकारयेत्
आधिक्यंनिष्फलंप्रोक्तं अल्पत्वंलोकनाशकं ॥९८॥
तस्मात्सर्वप्रयत्नेन(विभेदंतुवकारयेत्)न्यूनाधिक्यंनकारयॆत्
इत्येवमर्चकादिनां संख्यानिर्णयमुत्तमं ॥९९॥
हरिणास्वयमेवोक्तं पुराकमलजन्मने
संग्रहेणमया(चैतत्)त्वद्यबोधितं(संयमीश्वराः)गोप्यमुत्तमं ॥१००॥
इति श्रीपांचरात्र रहस्यसारे परमपुरुषसंहितायां
अर्चक परिचारकादि संख्यानिर्णयोनाम द्वितीयोध्यायः

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP