पुरुषोत्तमसंहिता - अष्टमोध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


ऋषयः-
भक्तभाव विलक्षण विषये ऋषि प्रश्नः
श्लो ॥भगवन्मुनिशार्दूल(हरिध्यानपरायणा) सदाहरि परायणा।
पुरात्वयोदितास्सर्वाःप्रपन्न स्यतुलक्षणाः ॥१॥
किंत्वद्यश्रोतुमिच्छामो तस्यभाव विलक्षणं।
केनभावेनमहता लोकेसर्वजनास्सदा ॥२॥
भवसागरमग्नाश्च अमग्नायिव श्रीपतेः।
सायुज्यं प्राप्तुमर्हंति (तदद्यवदनोमुने)तद्वदन्व महामुने ॥३॥
श्रीनारदप्रतिवचनं भक्तभाव विलक्षण कधनं भावनाधिक्य निरूपणं
श्रीनारदः-
शृणुध्वं मुनयस्सर्वेलोकानुग्रहकांक्षया।
अपेक्षितंयदुष्माभि श्श्रोतुमद्यबुथोत्तमाः ॥४॥
तद्भावनाक्रमंचैकं लोके(मुख्यमितीरितं)मुख्यतमंस्मृतं।
कर्मण्यस्मिन् चकस्मिन्‌वा यद्भावंतद्भवेद्धृवं ॥५॥
सत्कार्य निर्वहणाशक्तानां भावमात्रेण फलप्राप्तिकथनं भावरहित कर्मणो निष्फलत्व निरूपणं
हरिकैंकर्य करणे अंगलोपादि हेतुभिः।
आलयादिकनिर्माणे धनहीनतयापिच ॥६॥
येवर्तंति जनालोके तेचभावनयातया।
प्राप्नुवंतिहरेस्थ्सानं दुर्लभंपरमंमहत् ॥७॥
येभवेयुस्सदापुण्यक्षेत्रयात्रापरानराः!
सर्वदापुण्यतिर्धेषु सुस्नाताश्चतधैवच ॥८॥
हरिमंदिरनिर्माता स्तधायज्ञपरा(पिच)भुवि।
तद्भावरहिताश्चान्य भावेनयदिवर्तते ॥९॥
तेषांतुतद्भलं(नास्तिकिंचिच्चावि मुनीश्वराः)भूयान्नकिंचिच्चमुनीश्वराः।
गजस्नानवदेतेषां सर्वेकार्याश्चनिष्फलाः ॥१०॥
प्रसन्नयिवभावकरणे विशेषकधनं
अद्याहंते प्रवक्ष्यामि प्रपन्न स्यमहामतेः।
भावनालक्षणंतद्व द्यःकरोतिधरातले ॥११॥
तस्यवैनिश्चयंविष्णो स्सायुज्यंमुनिसत्तमाः।
देवालयादि निर्माणे कर्तव्य भाव निरूपण विधिः
पुरायेवमयाप्रोक्तं हरिपूजाविधानके ॥१२॥
देवालयादिनिर्माणे प्रसादादिकभक्षणे।
तधैवसर्वशास्त्रोक्त धर्माद्याचरणे(षुच)पिच ॥१३॥
भोजनादिक सामान्यकर्म सुभावमात्रेण विशेष प्राप्तिः
यद्भावेनप्रवर्तव्यं तत्सर्वं विस्तरेणवः।
अद्यवक्ष्याम्यशक्तानां भक्तानांभावनाक्रमं ॥१४॥
एनभावेनलोकेस्मिन् सर्वसामान्य कर्मसु।
भोजनस्नानपानादि सर्वेषुचमहाफलं ॥१५॥
स्वगृहेदेवालय भावः। स्वात्मनि पूजक भावः दारापुत्रादिष्वालय परिचारक भावः तद्भल निरूपणं
प्रपन्नस्समनाप्नोति तच्छ्रुणुध्वंमुनीश्वराः।
गृहस्थस्सर्वदास्वीय गृहंतुहरिमंदिरं ॥१६॥
आत्मानमर्चकंदारा पुत्रास्त्वन्येतुसेवकाः।
इति(भावेन)मत्वाप्रवर्तेतयदि तस्यहरेर्गृहे ॥१७॥
स्वकळत्रपुत्रादिक भूषणादिषु भगवत्समर्पण भावः तद्भलंच
सर्वदाप्यर्चितंपुण्यं लभतेनात्रसंशयः।
स्वकीयदारापुत्राणां पोषणेभूषणेपिच ॥१८॥
तेषामंतस्थितंशौरिं ध्यायन्तस्मैहिसर्वदा।
समर्पितं(चेतिभाव्य यजमानस्तुभूतले)सर्वमेत दितिमत्वाधरातदले ॥१९॥
स्वशरीरक्षाळने भगवदालय सम्मार्जनादिक भावः स्ववस्त्रधारणेधामालंकार भावः
हरेस्समर्पितंपुण्यं प्राप्नोतिसनरोत्तमः।
यस्तुकुर्वीतसद्भावं(स्वकीयस्नानकर्मणि! मार्जनप्रोक्षणानि)स्वशरीरस्यक्षाळने ॥२०॥
सम्मार्जनादिकंचेि भगवन्मंदिरेबुधाः।
स्ववस्त्रधारणेचैव अलंकारंहरेर्गृहे ॥२१॥
भोजने भगवन्निवेदन भावः तेषां फल निरूपणं
भोजनेचस्वकीयांतः प्रविष्ठस्यनिवेदनं।
इत्येवं भावमात्रेण सर्वदासनराग्रणिः ॥२२॥
तद्भलंसर्वमाप्नोति (संशयोनास्ति भूसुराः)नास्त्यस्मिन् संशयंभुवि।
वैष्णवादिक वंदने भगवद्वंचन फल निरूपणं
वंदनेवैष्णवादीनां तेषांतुहृदयस्थितं ॥२३॥
श्रीहरिंमनसाध्यात्वा तद्मंदनफलंलभेत्।
संध्योपासना द्यैर्भगवत्प्रीतिरकणं नष्टवस्त्रादिके हरि समर्पण भावनं
संध्याद्युपासनेचैव देवर्षिपितृतर्पणे ॥२४॥
केवलंभावमात्रेण सर्वदेव स्वरूपिणं।
हरिंसंतर्प्यतेभूमौ निश्चयंमुनिसत्तमाः ॥२५॥
प्रमादाद्यदिवस्त्रंवा भूषावाधरणीतले।
यदिस्यात्पतितंनष्टं यस्यकस्यच भूसुराः ॥२६॥
तद्वस्त्रादिक सर्वंच हरेरर्पण भावनात्।
तद्भलप्राप्ति कधनं चोरापहृतवस्तुषु हरिसमर्पण भावनं तेनफलप्राप्ति कधनं
लभतेतद्भवंसर्वं संशयोनास्ति(भूसुराः)भूतले ॥२७॥
चोरेणापहृतंयद्यप्यस्यकस्यधनादिकं।
तत्सर्वंश्रीमहाविष्णो रर्पितंचेतिभावयेत् ॥२८॥
तेनभावेनमहता चोरस्यहृदयेस्थितः।
शौरिस्तृप्यतिपूर्वोक्त थनाद्यैर्मुनिपुंगवाः ॥२९॥
दुःखितयेव भगवत्कृपापात्रः भगवत्कृपया दुःखसंभ हेतु निरूपणं भक्तानां दुःखहेतुः
यस्यलोकेमहद्दुःखं (भवेद्भुविद्विजोत्तमाः)भविष्यतिधरातले।
तस्मिन्नेवतुदेवेशः प्रसन्नयितिभावयेत् ॥३०॥
किंतुयस्मीन् महाविष्णुः प्रसन्नस्याद्धरातले।
सतुसर्वंचप्रारब्धं जन्मजन्मांतरार्डितं ॥३१॥
अद्ययेवतुभक्त्वांते हरेसायुज्यमाघ्नयात्।
तस्मादेवहिलोकेस्मिन् भक्तानांदुःख संभवं ॥३२॥
धनधान्याधिक्य तयाभवबंधाधिक्य कधनं भक्तशोधनं
किंसलोकेनराणांतु धनाधिक्यतयासतं।
भवबंधाधिकताचैव संभविष्यतिभूतले ॥३३॥
तस्मादेवहरिर्यस्य सायुज्यंदातुमिच्छते।
महद्दुःखानितत्पूर्वं दत्वाशोधतितंस्वयं ॥३४॥
सुखदुःखादिषु समानभाव निरूपणं
(जगत्सृष्ट्यौतु देवस्य)सृष्ट्यौतुदेवदेवस्य सुखंदुःखं समंस्मृतं।
तस्मात्प्रपन्नस्तुसुखे दुःखेचसमभावनं ॥३५॥
कृत्वाहरिप्रसादैव भावयेद्दुःख संभवं।
लोकेस्मिन् यस्यवैभूया (द्विशेषधन गौरवं)दधिकं गौरवंधनं ॥३६॥
सौख्याद्याधिक्यतया भक्तिलोप कथनं दुःखितस्यमोक्ष प्राप्तिः
सौख्यंचदारापुत्राश्च सहाकीर्तिश्चमान्यता।
तस्यश्रीभगवद्भक्तिरल्पमेवभवेत्सदा ॥३७॥
तस्मात्सुदुःखितोप्यत्र प्रपन्नस्तुधरातले।
सदाहरिपदध्यान(परतो)निरतोमोक्षमाप्नुयात् ॥३८॥
मृत्युप्राप्तिर्नज्ञात विषयः तद्ञ्जानेनप्रपन्नस्यकर्तव्य निरूपणं
जगत्यस्मिन्‌हिसर्वेषां मृत्युर्देहेनजायते।
किंत्वस्यप्राप्तिमात्रंतु (सज्ञातुंशक्त्यतेनरः)ज्ञातुंकोपिनशक्त्यते ॥३९॥
तस्मात्प्रपन्न स्स्वात्मानं मृत्युदंष्ट्रांतरस्थितं।
सर्वदाभूतलेज्ञात्वा जन्मराहित्यकांक्षया ॥४०॥
माधवंहृदयेध्यायन् सर्वकार्येषुवर्तयेत्।
मार्गसमीप देवालय प्रवेशादिषु स्नानादिनाम नावश्य कधनं भगवन्नामस्मरणेन भक्तानांशुद्धि निरूपणं
यस्तुगच्छेद्थरेर्गेह समीपेमार्गतोपिच ॥४१॥
अस्नातस्त्वशुचिश्चैव मंदिरंसंप्रविश्यच।
भगवद्दर्शनंकुर्या द्भक्त्यानिर्मलचेतसा ॥४२॥
यस्स्मरेद्भर्तिभावेन हरिंस्वहृदयेवरः।
सभूयात्सस्वदा(भूमौ परिशुद्धस्तुनिर्मलः)लोके परिशुद्धोविनिर्मलः ॥४३॥
तस्माद्यस्ययदाशौरेर्दर्शनंतुहठाल्लभेत्।
तदाबाह्यविशुद्ध्यापि रहितोदर्शनंचरेत् ॥४४॥
भगवद्दर्शने सर्वशुद्धि निरूपणं-भगवद्दर्शन महिमा
किंच शौरेर्दर्शनंच स्वयंशुद्थिंकरिष्यति।
महापातक वर्गंच स्वमहिम्नाहिकेवलं ॥४५॥
स्नानदान जपादिभ्यो यद्भलं(नलभेद्द्विजाः) दुर्लभं भुवि।
तत्सर्वं हरिसेवायां लभिष्यति धरातले ॥४६॥
शरिरस्य अस्थिरत्वनिरूपणं-हठाल्लब्द हरिदर्शनत्यागे प्रत्यवायः
लोकेस्मिन् यस्यकस्यापि शरीरं बुद्बुदं भवेत्।
सर्वेजना(श्चलोकेस्मिन्)स्सदालोके मृत्युदंष्ठ्रातरस्थिताः ॥४७॥
तस्मादयत्न सिद्धंश्री हरिदर्शन सद्भलं।
यःत्यजेन्मूढ भावेन अशुद्ध्यादि क(भावनात्)हेतुना ॥४८॥
तस्यस्नानाद्यनुष्ठाना नंतरं हरिदर्शनं।
कर्तुंचाप्यु चितंकालं (लभेतनपनर्भुवि)नलभेच्चधरातले ॥४९॥
तस्मात्प्रपन्नस्तुसदा भगवद्दर्श नादिकं।
भगवद्दर्शस्य प्रधम कर्तव्य निरूपणं
सर्वाधिक्यं तुसंभाव्य यत्रकुत्र चतल्लभेत् ॥५०॥
यदाकदावातन्मुख्य मग्रेकृत्वान्य दाचरेत्।
सर्वधर्माणां भगवत्कैंकर्य भावेन कर्तव्यत्व निरूपणं
लोकेसमस्त(कार्याणि धर्माणिच मुनीश्वराः)धर्माणि सर्वेकार्याश्च भूसुराः ॥५१॥
हरिकैंकर्यरूपेण भगवच्छास नादिति।
प्रसन्नानां काम्य राहित्येनापि अभीष्ट सिद्धि निरूपणं
मत्वाकुर्वंतु तस्माद्वै जगन्नाधोरमापति ॥५२॥
तेषुतृप्तस्सदाभूत्वा सर्वाभीष्टानि (दास्यति)दीयते।
यःकरोति सकामश्च पुण्यकार्याणि भूतले ॥५३॥
सकामानांच अर्ह फलसिद्धिरेव-नत्दिष्ट सिद्धिः- काम्यकर्म विसर्जन हेतुः-
तस्यापि श्रीपतिस्त्वर्ह फलान्येवददातिवै।
यदाकॄर ज्वरोपेतो जल्पते भोजनादिकं ॥५४॥
तथाभवज्व रोपेत स्सर्वाकामान् चवांछति।
यधातुप्रधमं वीक्ष्य माताप्यन्नंनदीयते ॥५५॥
तधाद्वितीय मालोक्य हरिश्चेष्टान् नदीयते।
सर्वभारसन्यास निरूपणं
तस्मादेव सदाकाम्यं कर्मत्याज्यंहि सज्जनैः ॥५६॥
किंतुप्रपन्न स्सर्वंच हर्यधीनं विभावयन्।
सर्वभारंच श्रीनाधौ सन्न्यस्य भुविवर्तयेत् ॥५७॥
तस्यदोषादिकंयस्मिन् कस्मिन्‌कार्येच नाभवेत्।
प्रसन्नानां दिव्यक्षेत्र यात्रावसर कधनं-
प्रसन्नस्सर्वदालोकेयदिशक्त्यति भूसुराः ॥५८॥
दिव्यक्षेत्रादि कंसर्वं गत्वातेषु जनार्दनं।
तत्रतत्र स्थितानंत महिमादिकस्सयुतं ॥५९॥
संवीक्ष्यश्रीहरेर्लीला विशेषादिर दर्शनात्।
ब्रह्मानंदमवाप्यांतेहरेस्सायुज्यमाप्नुयात् ॥६०॥
दिव्यक्षेत्रादि कानांतु अधिक्यंशृणु तांद्विजाः।
प्रतिष्ठादिक भाव निरूपणं-
प्रतिष्ठांतेतु देवस्य आचार्यस्स्वात्म निस्थितं ॥६१॥
तपश्शक्तिं(समस्तंच)कळांचैव ब्रह्मरंध्रेण विग्रहे।
स्वहस्तस्पर्शना देव स्थावयिष्यति भूतले ॥६२॥
तदारभ्य महाभक्ताः प्रपन्नास्संयमीश्वराः।
स्वतपश्शक्ति महिमां लोकानुग्रहकाम्यया ॥६३॥
दिव्यक्षेत्र महिमंतक्षेत्राः ऋष्यादीणां तपोनिथयः- दिव्यक्षेत्र दर्शन महिमा
केवलंभाव मात्रेण प्रविश्यंतिच विग्रहे।
तस्माद्दिव्यस्थलाःप्रोक्ता देवर्ष्यादि(प्रपूजिताः) प्रतिष्यिताः ॥६४॥
सद्भक्तानां तपश्शक्ति निधयो (यितिभावयेत्)क्षेत्रेनामकाः।
केवलंदर्शनात्तेषां सर्वेपापाः प्रमुच्यते ॥६५॥
दिव्यक्षेत्र निवास, शरीर विसर्जनादिषु विशेष निरूपणं-
तक्षेत्रेषु निवासंच(तत, देह विसर्जनं)स्वशरीर विसर्जनं।
केवलं(श्रीहरेस्थ्सान प्राप्तिसाथन मीरितं)सद्गतिप्राप्ति हेतुभूत मितीरितं ॥६६॥
तक्षेत्रेषु निर्माल्य धारण तीर्थ प्रसादादिक भक्षणे विशेषः-
तक्षेत्राथिपतेश्शौरेः निर्माल्यादि कधारणं।
तत्रतीर्थ प्रसादादि भक्षणंच धरातले ॥६७॥
सर्वाघ (शमनंभूयात्)शमनंचैव सर्वसौख्य प्रदायकं।
निरामय करणचैव अयुराकोग्य साधनं ॥६८॥
तक्षेत्र निवासाना माथिक्यता-तेषांदर्शन सेवनादिषु विशेषः
भक्तामोदकरं(शौरेःप्रियकारणमुच्यते)भूयान्निश्चयंमुनि सत्तमाः।
पुण्यक्षेत्रेषु येभक्ता स्सर्वदानिव संतिते ॥६९॥
विशेष महिमोवेता स्संभवंति धरातले।
तस्मात्तेषांच सांगत्ये दर्शनेच महाफलं ॥७०॥
अयुरारोग्य संवृद्धि र्ङ्ञानसिद्धि (र्भवेद्द्विजाः)र्लभेद्धृवं।
यस्तुदद्यात्तुतेषांवै गोभूवस्त्रधनादिकं।
सहस्र फलदंभूयान्निश्चयं मुनिसत्तमाः।
वैष्णव द्विजमेकंतु भुजित्वाक्षेत्र वासिनं।
सहस्रविप्रसंतृप्ति फलंप्राप्नोति भूतले।
अध्यायांतः
एतत्सर्वंपुरात्वंबु जासनःप्रधमंस्वयं ॥७१॥
शृत्वातुहरिणातद्व न्मयिप्रीत्यावभोधयत्।
तदिदानींतुयुष्माकं बोधितं (मुनिसत्तमाः)गोप्यमुत्तमं ॥७२॥
इति श्रीपांचरात्रागमरहस्यसारे श्रीपरमपुरुष संहितायां
भक्तभाव विलक्षण कथनं नाम अष्टमोध्यायः.

N/A

References : N/A
Last Updated : March 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP