प्रथमोऽध्यायः - चतुर्थः पादः
ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति
च ॥१॥
सूक्ष्मं तु तदर्हत्वात् ॥२॥
तदधीनत्वादर्थवत् ॥३॥
ज्ञेयत्वावचनाच्च ॥४॥
वदतीति चेन्न प्राज्ञो हि ॥५॥
प्रकरणात् ॥६॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥७॥
महद्वच्च ॥८॥
चमसवदविशेषात् ॥९॥
ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॥१०॥
कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥११॥
न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥१२॥
प्राणादयो वाक्यशेषात् ॥१३॥
ज्योतिषैकेषामसत्यन्ने ॥१४॥
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥१५॥
समाकर्षात् ॥१६॥
जगद्वाचित्वात् ॥१७॥
जीवमुख्यप्राणलिङ्गादिति चेत् तद्व्याख्यातम् ॥१८॥
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥१९॥
वाक्यान्वयात् ॥२०॥
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥२१॥
उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॥२२॥
अवस्थितेरिति काशकृत्स्नः ॥२३॥
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥२४॥
अभिध्योपदेशाच्च ॥२५॥
साक्षाच्चोभयाम्नानात् ॥२६॥
आत्मकृतेः परिणामात् ॥२७॥
योनिश्च हि गीयते ॥२८॥
एतेन सर्वेव्याख्याताव्याख्याताः ॥२९॥
इति ब्रह्मसूत्रेषु
प्रथमाध्यायस्य चतुर्थः पादः समाप्तः
॥ इति प्रथमोऽध्यायः॥
N/A
References : N/A
Last Updated : March 16, 2021
TOP