चतुर्थोऽध्यायः - तृतीयः पादः
ब्रह्मसूत्र, वेदान्त दर्शनचा एक अधारभूत ग्रन्थ आहे. ह्या ग्रंथाचे रचयिता बादरायण होत.
अर्चिरादिना तत्प्रथितेः ॥१॥
वायुशब्दादविशेषविशेषाभ्याम् ॥२॥
तटितोऽधि वरुणः संबन्धात् ॥३॥
आतिवाहिकस्तल्लिङ्गात् ॥४॥
उभयव्यामोहात्तत्सिद्धेः ॥५॥
वैद्युतेनैव ततस्तच्छ्रुतेः ॥६॥
कार्यं बादरिरस्य गत्युपपत्तेः ॥७॥
विशेषितत्वाच्च ॥८॥
सामीप्यात्तु तद्व्यपदेशः ॥९॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥१०॥
स्मृतेश्च ॥११॥
परं जैमिनिर्मुख्यत्वात् ॥१२॥
दर्शनाच्च ॥१३॥
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥१४॥
अप्रतीकालम्बनान्नयतीति बादरायणरुभयथा च दोषात् तत्क्रतुश्च ॥१५॥
विशेषं च दर्शयति ॥१६॥
इति ब्रह्मसूत्रेषु
चतुर्थाध्यायस्य तृतीयः पादः समाप्तः
N/A
References : N/A
Last Updated : March 16, 2021
![Top](/portal/service/themes/silver/images/up.gif)
TOP