चतुर्थोऽध्यायः

विश्वकर्मकृतायां वास्तुशास्त्रे वास्तुविद्या


प्रमाणलक्षणाध्यायः

श्री विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे भिट्टपीठ लक्षणाध्याय क्रमांक अध्याय ४

भिट्टमान
अतिस्थूलासु विस्तीर्णा प्रासाद घरणीशीला
अति सुद्र ढकार्या इष्टिका चूर्णवारिभिः ॥१॥

शिलोपटि भवेद्भिट्टमेकहस्ते युजाङ्कुलम्
अर्धांगुला भवेदवृयविद् हस्तशतार्धकम् ॥२॥

एकद्वित्रिणि भिट्टानि हीनाहीनानि कारयेत्
स्वस्योदयप्रमाणस्य चतुर्थांशेन निर्गमं ॥३॥

पीठमान
अथातः संप्रवक्ष्यामि प्रासादपीठमानतम्
एकहस्तेषु प्रासादे पीठं च द्वादशांगुलम् ॥४॥

हस्ताद्विपंचपर्यंत हस्तेहस्ते पंवाङ्कुलम्
पंयोर्ध्व दशयावत् वृद्धि वेदाङ्कुलं भवेत् ॥५॥

दशोर्ध्व विशपर्यंतं हस्ते चैवाङ्कुलं त्रयं
विशोर्ध्व षट् त्रिंशति कर वृद्धद्वयाङ्कुलम् ॥६॥

अतःऊर्ध्व शतार्धेन हरतेहरतैकमंङ्गुलम्
अर्धमाने त्रिभाजे वा पीठ चैव नियोजयेत् ॥७॥

स्थानमानाश्रयं ज्ञात्वा तत्र दोषो न विद्यते
प्रथम पीठं भाग
पीठस्यायोछ्रयो ज्ञात्वा भागं वक्ष्यामि तत्वतः
चत्वारिंशद्विभिश्चास्य ऊर्ध्वभागा विभाजिते ॥८॥

अष्टभागैर्भवेध्वत्स । जाडयकुम्भं द्विजोत्तम
कर्णं सार्ध विभागं तु भागार्ध चान्तरपत्रकम् ॥९॥

सार्ध पंचाभिमानं स्कंधकुर्याद्वियक्षणाम्
पट्टिकाचार्ध भागं तु चाष्टभागाश्य निर्गमम् ॥१०॥

कर्णालिकां ततः कुर्यात् भागै चैव चतुर्दशम्
कर्णं सार्धं यं ज्ञेयं भागार्ध चांतरपदम् ॥११॥

चिप्पिका भागमेकं तु चान्तरपदं द्विभागिकः
सार्धद्विभागिका कार्या कपोतालिस्तु शोभना ॥१२॥

भागार्धं तत्र मध्ये तु स्कन्धं चान्तरपत्रिका
ग्रासश्च पद्विका कुर्यात् सार्धपञ्चस्तु उन्नत ॥१३॥

अतो भागार्ध मध्ये तु चिप्पिका दलशोभना
षड्भागास्य भवेत् वत्स निर्गमं तु कणालिका ॥१४॥

चिप्पिका भागमेकं तु कपोतालिर्द्विभागिका
चिप्पिका तत्समा प्रोक्ता त्रिभागं कणकं भवेत् ॥१५॥

अतन्मेतवमाक्ष्यान्तं कणालिका प्रमाणकम्
गजपीठं च वक्ष्यामि भागैर्युक्तं च द्वादशै ॥१६॥

पट्टिका अन्तरपत्रं तु भागार्ध चारु शोभना
कर्ण च भागमेकं च भागार्ध स्कंधपट्टिका ॥१७॥

सार्धचाष्टो समाख्याता गजाःभागेस्तु शोभना
कपोतालिश्च कर्णं च भागमेकं सुविस्तृतम् ॥१८॥

भागार्ध स्कंधपट्टिस्तु त्रिणिभागस्तु निर्गमः
नरपीठं पीठ मध्यैः भागैश्चाष्टैः समन्वितः ॥१९॥

चिप्पिकान्तर पत्रः भागमेकं च कारयेत्
रूपाणि षट्सार्धेन अर्ध स्कन्धं च पट्टिका ॥२०॥

एतन्मेवतमं वत्स द्विभागाश्चैव निर्गमे
पीठमानो समादिष्ट प्रासादमान समन्वितम् ॥२१॥

द्वितीय पीठम्
शतार्द्धत्रीणि संयुक्ता पीठभागं च मध्यमे
नवभिर्जाडयकुम्भं च निर्गमं चाष्टभागिकम् ॥२२॥

कणालिका प्रकर्तव्या भागैश्चैव चतुर्दश
षड्भिस्तु निर्गमे कुर्यात् गजाश्चैव त्रयोदशैः ॥२३॥

निर्गमे त्रीणि भागानि नवभिरश्वपीठकम्
निर्गमे त्रीणि विज्ञेया वसुभिर्नरपीठकम् ॥२४॥

द्वौ भागौ निर्गमे तस्य मध्यपीठं अयंविधि
तृतीय पीठम्
उत्तमं संप्रवक्ष्यामि षष्टिभागैर्विभाजिते ॥२५॥

वसुभिर्जाडयकुम्भं तु निर्गमं तु तदेव हि
मनुसङ्ख्या कणाली च निर्गमे ऋतुभागिकाः ॥२६॥

त्रयोदशैर्गजाज्ञेया निर्गमे त्रीणिमेव च
नंदस्या सङ्ख्या भवेदश्वा त्रीणि निर्गममेव च ॥२७॥

नराणां मातराणां च अष्टवाष्टो प्रकल्पयेत्
द्वौ द्वौ निर्गमे ताभ्यां ज्येष्ठपीठ अयं विधौ ॥२८॥

चतुर्थ पीठम्
चतुर्थ कन्यसं पीठं प्रासादस्यानुरूपतः ॥२९॥

पञ्चमे षष्टमे भागे सप्तमे चाष्टमेव च ॥३०॥

पीठं चैव प्रकर्तव्य अत ऊर्ध्व न कारयेत्
अष्टभिर्जाडयकुम्भं च निर्गमे वसुभार्णिकम् ॥३०॥

मनुसङ्ख्य कणाली च निर्गमे ऋतुसङ्ख्यया
एवं कृते भवेतसिद्धिं कर्तुं काशपकः सदा ॥३१॥

कनीयसपीठाङ्गोपाङ्गानि
भागार्धं घसिका कार्या पादोन कर्णकं द्वयम्
पञ्च भागोच्छ्रितं स्कन्धं पादोनं चैव चिप्पिका ॥३२॥

चाष्टभाग समुच्छ्रयं जाडयकुम्भं सुशोभनम्
निर्गमं चाष्टाभिर्भागै अतोदूर्ध्वं च कणालिका ॥३३॥

भागार्धा घसिका कार्या कणकं सार्धद्विमुच्छ्रयम्
चिप्पिका भागमेकं तु द्वितीयान्तरपत्रिकाम् ॥३४॥

सपादस्कन्ध द्वयं स्यात् पादोनं कर्णमुच्यते
पादोनं स्कन्धचोच्छ्रायं घसिका भाग पादकः ॥३५॥

सार्ध त्रयोच्छ्रिता कार्या ग्रासपृट्टी सुशोभना
पादोनं कर्णमुच्छ्रेयं पादोन चैव चिप्पिका ॥३६॥

चतुर्दशै समुच्छ्रेयं कर्णमालि सुशोभना इतिकामदपीठ
षट्भागं भवेत्वत्स निर्गमं च कणालिका ॥३७॥

कर्णपीठ
चिप्पिका भागमेकेन कर्णद्विसार्धभागम्
घसिकार्ध भागेन प्रोक्तस्कंधत्रिभागम् ॥३८॥

कर्णकद्वीभागेन चाष्टभागं कर्षापीठकम्
एतेने तत्रमाख्याता कर्णपीठ सुशोभना इति कर्णपीठ ॥३९॥

देवप्रासादपीठादेयम्
पीठं चत्वारि उक्तानि प्रासादेषु च कारयेत्
शिवे च ब्रह्मणे चैव विष्णुना च रवैस्तथा ॥४०॥

बौद्धे जैनै च कर्तव्या पीठा चत्वारि शोभना
यक्षं च चण्डी तथा दुर्गा गौरी गणपतिस्तथा ॥४१॥

महालक्ष्मीस्तथा स्कन्दे योगिनीनां तथैव च
पीठानि कार्येन्नित्यं प्रासादेषु च सर्वेषु
इदस्यं कुरुते यस्तु सर्वकामफलं लभेत ॥४२॥

देवपीठ विभाग
ऊच्छयेयत्र पीठस्य त्रिशता परिभाजिते
एकांशभूगतं कार्यं त्रिभागः कण्ठपीठिका ॥४३॥

भागार्ध मुखपट्ट च स्कंधः सार्ध्वत्रयोन्नत
स्कंधस्य पट्टिका वै स्याद् भागार्ध चान्तरपत्रिका ॥४४॥

कर्णः सार्द्धद्वयं वै स्याद् भागैकं चिप्पिकामत
द्विभागं चान्तरपत्रकं कपोताली द्विसार्द्धिका ॥४५॥

सार्द्धपंचग्रासपदि कर्तव्याविधिपूर्वकम्
अर्धे मुखपट्टिकाख्या त्रिभागं कर्णशोभनम् ॥४६॥

अर्धः स्कंधपट्टि कार्या चतुर्भागश्च स्कंधकः
क्षोभणश्चाष्टभागैः कर्तव्य तदशंकितैः इति देवपीठ ॥४७॥

दोषफलम्
मानहीनं न कर्तव्य मानाधिक्यं न कारयेत्
मानहीने कुलोच्छेदं स्थापकस्य तदाभवेत् ॥४८॥

स्थापकस्या भवेद्दोषं नरके पतनं ध्रुवम्
शिल्पीनो निष्कुलं यान्ति मानहीने कृतेन तु ॥४९॥

मानाधिक्ये कृते चैव राष्ट्रभङ्ग भयंभवेत्
न दोषः स्थापकश्चैव यजमानस्य विद्यते ॥५०॥

अन्य च कुरुतेयस्तु शिल्पीदोष भवाप्नुयात्

इति श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे भिट्टपीठ प्रमाणलक्षणाध्याय क्रमांक ॥४॥

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP