पञ्चमकाण्डः - ११ ते १५
पैप्पलादसंहिता
११
अनु ते मन्यतामग्निर्वरुणस्तेऽनु मन्यताम् ।
ततस्ते पुत्रो जायतां स वर्मीं गोषु युध्यताम् ॥१॥
इदं वायोऽनु जानीहीदमिन्द्र बृहस्पते ।
आञ्जनं पुत्रवेदनं कृण्वः पुंसवनं वयम् ॥२॥
येनैतत् परिष्टभितं यस्मात् पुत्रं न विन्दसे ।
इन्द्राग्नी तस्मात्त्वैनस: परिपातामहर्दिवि ॥३॥
अथर्वाणो अङ्गिरसो विश्वे देवा ऋतावृधः ।
शृण्वन्त्वद्य मे हवमस्मै पुत्राय वेत्तवे ॥४॥
इन्द्राणी वरुणानी सिनीवाल्युतादितिः ।
वरूत्र्युग्रा पत्नीनां पुत्रमद्य दिदेष्टुते ॥५॥
पुत्र ते मित्रावरुणा पुत्रं देवी सरस्वती ।
पुत्र ते अश्विनोभा धत्तां पुष्करस्रजा ॥६॥
येषां च नाम जग्रभ येषां च नोपसस्मर ।
देवास्ते सर्वे संगत्य पुत्र जैवातृकं ददन् ॥७॥
आत्मन एनं निर्ममीष्व स त्वत् परि जायताम् ।
त्वं बीजमुर्वरेव त्वं भिभिर्हि योन्याम् ॥८॥
पृथिवी सह यज्ञैर्नक्षत्रै: सह सूर्य: ।
वात पतत्रिभि: सह पुत्रमद्य दिदेष्टु ते ॥९॥
१२
वृषा जज्ञे मघवानोऽयं मधुमतीभ्यः ।
स उ ते योनिमा शयां वड् यक्षः पुरुषो भवन् ॥१॥
योनिं गच्छ मघवान योन्यां पुरुषो भव । मध
ततः पुनर्निरायसि शीर्ष्णा श्रोणी वि नोनुदत् ॥२॥
वाणवाङ् इषुधेरिव कृण्वं पित्रोर्यथा प्रियम् ।
श्रोणी अहिंसन्यन्तरा दशमे मास्यायसि ॥१३॥
स प्रत्यङ् प्रत्यावर्त्ये सा एते संवत्सरे पुनः ।
यथा जीवासि भद्रया विभरत्वामहाभवे ॥४॥
शं ते योनिमचीक्लृपं सुप्रजास्त्वाय भद्रया ।
तत्रा सिञ्चस्व वृष्ण्यं दशमास्यमविहृतम् ॥५॥
गर्भस्ते योनिमा शयां गर्भों जरायुवा शयाम् ।
कुमार उल्बमा शयां त्वष्टा कलृप्तो यथापरु ॥६॥
यथा राजन् मघवान त्वं बीज विरोहसि । मध
एवा त्वमस्या निर्भिन्धि कुमारं योन्या अधि ॥७॥
गर्भमधान् मघवानो गर्भं देवो बृहस्पतिः ।
गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥८॥
१३
शिवः शिवाभिर्वयस्वन् सं गच्छस्व तन्वा जातवेदः ।
रत्नं दधानः सुमनाः पुरस्ताद् गृहेभ्यस्त्वा वर्चसे निर्वपामि ॥१॥
पृथिव्यां घर्म स्तभितो ऽन्तरिक्षे दिवि श्रितः ।
द्यौरेनं सर्वतः पातु यस्त्वा पचत्योदन ॥२॥
ये समुद्रमैरयं ये च सिन्धुं ये अन्तरिक्षं पृथिवीमुत द्याम्।
ये वातेन सरथं यान्ति देवास्तानाप्नोत्योदन पाको अत्र ॥३॥
ऋचा कुम्भ्यभिहिता साम्ना पच्यत ओदन:। दिहिता
अंशुं सोमस्यैतं मन्ये वैश्वदेवमिदं हविः ॥४॥
उलूखले मुसले ये च शूर्पे भूम्यामुखायां यदि वासुसञ्च।
या विप्रुषो यानि निर्णेजनानि सर्वं तत्ते ब्रह्मणा पूरयामि ॥५॥
ऊर्ध्वः प्रेहि मा सं विक्था व्यस्य रजो अन्तरम्।
रक्षांसि सर्वा तीर्त्वाथा रोह दिवं त्वम् ॥६॥
तुरो नो अतुरो भव सं धीभिर्धीयतामयम् ।
सं पृथिव्या समग्निना सं सूर्यस्य रश्मिभिः सं देवानामयिस्व ॥७॥
आजद्विष: सुकृतस्य लोके तृतीये नाके अधि रोचने दिव:।
मृत्योः पदं योपयन्तोऽन्येतु पश्चा निकृत्य मृत्युं पदयोपनेन ॥८॥
१४
भूत्या मुखमसि सत्यस्य रश्मिरुच्चै: श्लोको दिवं गच्छ।
उच्छ्रयेथां हविष्कृतौ साधु देवान् सपर्यतमृजीषमप लम्पतम् ॥१॥
आपो देवीर्यज्ञकृतश्चित्रा देवीर्हविष्कृत: ।
एकपात्र ओदनोऽग्निष्टोमेन सम्मितः ॥२॥
गायत्री हव्यवाडसि देवताग्नि: समिध्यते ।
सहस्रधारं सुकृतस्य लोके घृतपृष्ठममर्त्यौ ॥३॥
तपश्च सत्यं चौदनं प्राश्नीतां परमेष्ठिनौ।
ताभ्यां वै स्वराभृतं तेनाधिपतिरुच्यसे ॥४॥
उरुगायो शिवायो: प्राणेन सम्मित:॥
अप मृध्राणि मज्जहि मुक्षीव दुरिता दहन ॥५॥
अप रक्षांसि तेजसा देवेभ्यो हव्यमर्चतम्। व्यचस्वान् सप्रथायसि ॥६॥
उच्चैः सुपर्णो दिवमुत्पतामुं प्रियं देवेभ्यो मा कृणु ऋषिभ्यः परि देहि माम्।
शुक्रं शुक्रेण भक्षया पिबन्तु सुकृतो मधु ॥७॥
द्वया देवा उप नो यज्ञमागुर्यानोदनो जुषते यासुपृष्टः ।
आदित्याङ्गिरसः स्वर्गमिमं प्राश्नन्त्वृतुभिर्निषद्य ॥८॥
१५
पीयूषस्य क्षीरस्य सर्पिषो ऽन्नस्याग्रं सं भराम एतत् ।
एतं भागमहुताभ्यः प्रहिण्मस्तन्नो हविः प्रति गृह्णन्तु देवा दैवाः ॥१॥
हुतादो ऽन्येहुतादो ऽन्ये वैश्वदेवं हविरुभये सं चरन्ति ।
ते सम्यञ्व इह मादयन्तामिषमूर्जं यजमानाय मत्स्व ॥२॥
मेमा भवो मा शर्वो वधीद् गा मा वत्सां क्लोमश्च यो विदन् नः॥
ये जाता ये च गर्भेष्वन्तररिष्टाग्नेस्तनुमा रभन्ताम् ॥३॥
इमा गावो विजावतीः प्रजावतीस्त्रिष्वसंमनसो भवन्तु ।
आसु भूमा नय पिपृञ्चन्तु देवा आसां वत्सानायुषा मेदसा सं सृजामि ॥४॥
प्र वीयन्र्ता स्त्रियो गावो विष्णुर्योनिमनु कल्पयाति ।
प्रतिगृह्णतीर्ऋषभस्य रेत उक्षानड्वांश्चरति वासितामनु ॥५॥
प्रयतमग्रं न हिनस्ति किं चन यथाकामं कृणुत सोम्यं मधु ।
साधु यज्ञमहुतादो नयन्तु रायस्पोषा यजमानं सचन्ताम् ॥६॥
नि ते पदां पृथिवी यन्तु सिन्धवो उदोषधयो जिहतां प्रेरतामिरा:।
पर्जन्यस्य मरुत उदधिं सान्वा हत भद्रं सत्यं पच्यतां मोदतां जगत् ॥७॥
सप्त ऋषय: सप्त पदास्येषां सप्त क्षियो अश्विनोः पञ्च वाजाः ।
प्राणो व्यानो मन आकूतिर्वाग्देवी देवेभ्यो हव्यं वहतु प्रजानती ॥८॥
ये च दृष्टा ये चादृष्टा: क्रिमयः ककृशाश्च ये ।
तेषां शिरांस्यसिना छिनद्मयथासां वत्सानायुषा मेदसा सं सृजामि ॥९॥
(इति अष्टर्चोनामपञ्चमकाण्डे तृतीयोऽनुवाक:)
N/A
References : N/A
Last Updated : May 11, 2021
TOP