पञ्चमकाण्डः - २१ ते २५
पैप्पलादसंहिता
२१
द्यौश्च नः पिता पृथिवी च माताग्निश्च नृचक्षा जातवेदाः।
ते तक्मानमधराञ्चं न्यञ्चं दशाह्नमस्यन्त्वधि दूरमस्मत् ॥१॥
तक्मन् यं ते क्षेत्रभागमपाभजं पृथिव्याः पूर्वे अर्धे।
अति हाय तमथ नो हिनस्मि ग्राहि: किल त्वा ग्रहीष्यति किलासशीर्ष: ॥२॥
तक्मन् पर्वता इमे हिमवन्तः सोमपृष्ठाः ।
वातं दूतं भिषजं नो अक्रन् नश्येतो मरटाङ् अभि ॥३॥
न त्वा स्त्रियः कामयन्ते न पुमांस: कतमे चन ।
नेह तक्मन् काम्या अल्पो रोदिति नो महान् ॥४॥
मा नो हिंसीर्महतो मा हिंसीर्मह्यस्त्वम् ।
कुमारान् बभ्रो मा हिंसीर्मा नो हिंसीः कुमार्यः ॥५॥
यः साकमुत्पातयसि बलासं काममुद्रजम् ।
भीमास्ते तक्मन् हेतयस्ताभि ष्म परिवृङधि नः ॥६॥
अन्यक्षेत्रे च रमति सहस्राक्षो ऽमर्त्यः।
अभूदु प्रार्थस्तक्मा स उ नो मृडयिष्यति ॥७॥
तक्मन् न त इहाश्वा न गावो नेह ते गृहाः ।
शकम्भरस्य मुष्टिहा पुनर्गच्छ महावृषान् ॥८॥
२२
यौ हेमन्तं स्वापयथो बलेनार्वाग्देवेभ्य उत यौ परो दिवः।
भवारुद्रयोः सुमतिं प्र णीमहेऽन्यत्रास्मदघविषा व्येतु ॥१॥
यो द्यामातनोति योऽन्तरिक्षं स्तभ्नात्योजसो जायमान: ।
तस्मै रुद्राय हविषा विधेमान्यत्रास्मदघविषा व्येतु ॥२॥
ययोर्वधान्नापपद्यते किं चनान्तर्देवेषूत मानुषेषु।
ताभ्यां रुद्राभ्यां हविषा विधेमान्यत्रास्मदघविषा व्येतु ॥३॥
यावीशाते पशूनां पार्थिवानां चतुष्पदामुत वा ये द्विपाद:।
ताभ्यां रुद्राभ्यां हविषा विधेमान्यत्रास्मदघविषा व्येतु ॥४॥
यस्य प्रतिहिता याः संविशन्त आरण्याः पशव उत ग्राम्यास: ।
तस्मै रुद्राय हविषा विधेमान्यत्रास्मदघविषा व्येतु ॥५॥
यस्मादोषधयो भर्भर्यमाणा यन्ति यस्माद् वृक्षासो न वियन्ति विश्वे।
वयांसि यस्मात् प्रचरन्ति भीषा तस्मै रुद्राय हविषा विधेमान्यत्रास्मदघविषा व्येतु ॥६॥
यः पर्वतान् विदधे ऽति विद्वान् यो भूतानि कल्पयति प्रजानन्॥
तस्मै रुद्राय हविषा विधेमान्यत्रास्मदघविषा व्येतु ॥७॥
यावीशानौ चरतो द्विपदोऽस्य चतुष्पद:।
या उग्रौ क्षिप्रधन्वानौ ताभ्यां रुद्राभ्यां हविषा विधेमान्यत्रास्मदघविषा व्येतु ॥८॥
पुनश्चक्षुः पुन: प्राणं पुनरायुर्धेहि नो जातवेदः ।
रुद्र जलासभेषज विद्वांसस्त एना हविषा विधेमान्यत्रास्मादघविषा व्येतु ॥९॥
२३
ईशानं त्वा भेषजानां विजेषाय वृणीमहे ।
चक्रे सहस्त्रवीर्यं सरस्वानोषधे त्वा ॥१॥
सत्यजितं शपथयावनीं सहमानां पुन:सराम्।
सर्वा: समह्योानषधीरितो मा पारयानिति ॥२॥
या शशाप शपनेन या वा घ मूरमादधे ।
या वा रसस्य प्रा सारेहे तोकमत्तु सा ॥३॥
प्रतीचीन फलो हि त्वमपामार्ग बभूविथ।
सर्वान् मच्छपथाङ् अधि वरीयो यावया त्वम् ॥४॥
यच्च भ्रातृव्यः शपति यच्च जामिः शपाति न: ।
ब्रह्मा यन् मन्युतः शपात् सर्वं तन्नो अधस्पदम् ॥५॥
यां ते चक्रुरामे पात्रे यां सूत्रे नीललोहिते।
आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि ॥६॥
दुःस्वप्न्यं दुर्जीवितं रक्षो अद्भमराय्यः ।
दुर्वाचः सर्वं दुर्भूतं तदितो नाशयामसि ॥७॥
क्षुधामारं तृष्णामारमगोतामनपत्यताम्।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥८॥
२४
समा भूमिः सूर्येणाह्ना रात्री समावती ।
कृणोमि सत्यमूतये अरसाः सन्तु कृत्वरीः ॥१॥
यो देवा: कृत्यां कृत्वा हरादविदुषो गृहम।
वत्सो धारिव मातरं तं प्रत्यगुप पद्यताम् ॥२॥
अमा कृत्वा पाप्मानं यस्त्वयान्यं जिघांसति।
अश्मानस्तस्यां दग्धायां बहुलाः फट् करिक्रतु ॥३॥
सहस्रधामं विशिखान् विग्रीवाञ्छावया त्वम्।
प्रति स्म चकृषेकृत्यां प्रियां प्रियावतो हर ॥४॥
यां चकार न शशाक चक्रे पादमङ्गुलिम्।
चकार भद्रमस्मभ्यमभगा भगवद्भ्य: ॥५॥
अनयाहमोषध्या सर्वाः कृत्या अदूषयन्।
यां क्षेत्रे चकृर्यां गोभ्यो यां वा ते पुरुषेभ्य: ॥६॥
अपामार्गोऽपि मार्ष्टु क्षेत्रियं शपथांश्च मत्।
अपाहि यातुधान्योऽप सर्वा अराय्यः ॥७॥
अपमृज्य यातुधानानप सर्वा अराय्यः ।
अपामार्गं प्रजया त्वं रय्या सचस्व नः ॥८॥
२५
उतेवास्यबन्धुकृदुतास्यनुजामिकः ।
उतो कृत्याकृतः प्रजां नडमिवा च्छिन्धि वार्षिकम् ॥१॥
ब्राह्मणेन पर्युक्तोऽसि कण्वेन नार्षदेन ।
सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोस्योषधे ॥२॥
अग्रेस्योषधीनां ज्योतिषेवाभिधीपयन् ॥
उत पाकस्य त्रातास्युत हन्तासि रक्षसः ॥३॥
यददो देवा असुरांस्त्वयाग्रे निरकृण्वत।
तस्मादधि त्वमोषधे अपामार्गो अजायथाः ॥४॥
विभिन्दती शतशाखा विभिन्दन्नाम ते पिता ।
प्रत्यग्वि भिन्धि तं त्वं यो अस्माङ् अभिदासति ॥५॥
असद् भूम्याः समभवत्तद्यामेति बृहद्वचः ।
तदित्तदो विधूमयत् प्रत्यक् कर्तारमृच्छतु ॥६॥
प्रत्यङ् हिंसं बभूविथ प्रतीचीनफलस्त्वम्॥
प्रतीची: कृत्या आकृत्यामुं कृत्याकृतं जहि ॥७॥
शतेन मा परि पाहि सहस्रेणाभि रक्ष मा।
इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधौ ॥८॥
(ह्रति अष्टर्चोनामपञ्चमकाण्डे पञ्चमो ऽनुवाकः)
N/A
References : N/A
Last Updated : May 11, 2021
TOP