तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमा: ॥१॥
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥२॥
त्वे क्रतुमपि पृञ्चन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।
स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥३॥
इति चिद्धि त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
ओजीयो धृष्णो स्थिरमा तनुष्व मा त्वा दभन्दुरेवा यातुधानाः ॥४॥
त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥५॥
स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम् ।
आा दर्शते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि भूरि ॥६॥
नि तद्वधिषे ऽवरं परं च यस्मिन्नाविथावसा दुरोणे ।
आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥७॥
इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः ।
महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ॥८॥
एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥९॥


ऋधङमन्द्रयोनिनोविभावा अमृतासुः सुजन्मा वर्धमानः ।
अदब्धासुर्भ्राजमानो ऽहेव त्रितो दाधार त्रीणि ॥१॥
नि यो धर्मणि प्रथमः ससादातो वपूंषि कृणुते पुरूणि ।
धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकाय ॥२॥
यस्ते शोकस्तन्व आरिरेच क्षरद्धिरण्यं शुचयो ऽनु स्वाः ।
अत्रा दधिषे अमृतानि नामास्मे वस्त्राणीष एरयन्त ॥३॥
प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् ।
कविः शुषस्य मातरा रिहाणे जामिर्वधुर्युः प्रतिमानिमीत ॥४॥
तदू षु ते महा पृथुर्यमन्नमः कविः काव्येनाकृणोत् ।
यत्सम्यञ्चो ऽभियन्तो ऽभि क्षामधा मही रोधचक्रा ववर्ध ॥५॥
सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्॥
उतामृतासुर्व्रत एषि कृण्वन्नसुर आप्तः स्वधया समद् गुः ॥६॥
उतायुर्ज्येष्ठो रत्ना दधात्यूर्जा वा यं सचते कविर्दाः॥
पुत्रो वा यत्पितरा क्षत्रमीर्ते ज्येष्ठं मर्यादमह्वयन् स्वस्ति ॥७॥
दर्शन्नु तान्वरुण ये त इष्टावावर्वृतत: कृणवो वपूंषि ।
अर्धमर्धेन शवसा पृणक्ष्यर्धेन शुष्मं वर्धसे ऽमूर ॥८॥
अवीवृधाम शग्मयं सखायं वरुणं पुत्रमदितेरिषिरम् ।
कविशस्तान्यस्मै वचांस्यवोचाम रोदसी सत्यवाचौ ॥९॥


को वः पश्चात् प्राविच्छायत्कः पुरः प्राखनत्पथः।
यदैत त्वरमाणा वरुणप्रसूता आपः ॥१॥
प्रजापतिरसृजत स पुरः प्राखनत्पथः ।
स उ नो अन्ववासृजत् तेन सृष्टाः क्षरामसि ॥२॥
पुनाना आपो बहुधा श्रवन्तीमांश्च लोकान् प्रदिशश्च सर्वा: ।
पुनन्त्वस्मान्दुरितादवद्यान् मुञ्चन्तु मृत्योर्निर्ऋतेरुपस्थात् ॥३॥
अपो अस्मान्मातर: सूदयन्तु घृतेन नो घृतपुव: पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्य: शुचिरा पूत एमि ॥४॥
आपो देवीर्मातरः सूदयिष्णवो घृतच्युतो मधुना सं पपृच्रे ।
ता अस्मभ्यं सूरयो विश्वमायुः क्षप उस्रा वरिवस्यन्तु शुभ्राः ॥५॥
उदकस्योदकतमा रेवत्तमा रेवतीनाम् ।
शुन्धन्तामापः शुन्धन्त्वस्मान् ॥६॥
यूयमापो वीरश्रियो यूयं सूदयथा शुचीन् ।
युष्माकमिद्दिशो महीरीयन्ते प्रदिशः पृथक् ॥७॥
यूयं मित्रस्य वरुणस्य योनिर्यूयं सोमस्य धेनवो मधिष्ठा: ।
युष्मान्देवीर्देव आ क्षियतीन्दुर्यूयं जिन्वत ब्रह्मक्षत्रमापः ॥८॥
शश्वदाभि: शाशदाना: शमनान्वयामसि ।
आपो विश्वस्य सूदनीर्या देवा मनवे दधुः ॥९॥
यद्धावन्ति पुनते तदापो यत्तिष्ठन्ति शुद्धा इत्तद्भवन्ति ।
नासामवद्यमविदं न रिप्रं सनादेव मधुना सं प्रपृच्रे ॥१०॥
हिरण्यवर्णाः शुचयः पावका: प्र चक्रमुर्हित्वावद्यमापः ।
शतं च वः प्रस्रवणेषु देवीः सहस्रं च पवितारः पुनन्ति ॥११॥
तास्तादृशीर्ब्रह्माणं सूदयन्त्यङ्गोष्ठ्या स्तोत्र्या जीवधन्या:।
या विश्वस्य शुचिकृतो अयातोर्गाव इव पयसा स्था सुजाता ॥१२॥
विश्वाद्रिप्रान्मुञ्चत सिन्धवो नो यान्येनांसि चकृमा तनूभिः ।
इन्द्रप्रशिष्टा वरुणप्रसूता आ सिञ्चतापो मध्वा समुद्रे ॥१३॥


रात्री माता नभः पितार्यमा ते पितामहः ।
शिलाची नाम वा असि सा देवानामसि स्वसा ॥१॥
यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् । वति
धर्त्री च शश्वतामसि शश्वतां च न्यञ्जनी ॥२॥
यद् दण्डेन यदिष्वा यदरुर्हरसा कृतम् ।
तस्य त्वमसि भेषजी निष्कृतिर्नाम वा असि ॥३॥
भद्रा प्लक्षे नि तिष्ठस्यश्वत्थे खदिरे धवे ।
भद्रा न्यग्रोधे पर्णे सा न एह्यरुन्धति ॥४॥
वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला ।
जयन्ती प्रत्यातिष्ठन्ती संजया नाम वा असि ॥५॥
हिरण्यवर्णे युवते शुष्मे लोमशवक्षणे ।
अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥६॥
हिरण्यवाहो सुभगे सूर्यवर्णे वपुष्टमे ।
रुतं गच्छति निष्कृति: सेमं निष्कृधि पूरुषं ॥७॥
घृताची नाम कानीनो ऽजबभ्रु पिता तव । वभ्रु
अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ॥८॥
अश्वस्यास्न: संपतिता सा पर्णमभि षिष्यदः ।
सरा पतत्रिण्यसि सा न एह्यरुन्धति ॥९॥
घृताचिके वातरथे विद्युत्पर्णे अरुन्धति ।
आतुरं गमिष्ठासि त्वमङ्ग निष्करीयसी ॥१०॥
यत्ते जग्धं पिशाचैस्तत्त आ प्यायतां पुनः ।
लाक्षा त्वा विश्वभेषजी देवेभिस्त्रायतां सह ॥११॥


यथा द्यौश्च पृथिवी च न विभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेरेवा मे ऽपान मा रिष: ॥१॥
यथा वायुश्चान्तरिक्षं च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ॥२॥
यथा सूर्यश्च चन्द्रमाश्च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ॥३॥
यथाहश्च रात्री च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिषः ॥४॥
यथा धेनुश्चानड्वांश्च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ॥५॥
यथा मित्रश्च वरुणश्च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ॥६॥
यथा ब्रह्म च क्षत्रं च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ॥७॥
यथेन्द्रश्चेन्द्रियं च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ॥८॥
यथा वीरश्च वीर्यं च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिषः ॥९॥
यथा प्राणश्चापानश्च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष:॥१०॥
यथा मृत्युश्चामृतं च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष:॥११॥
यथा सत्यं चानृतं च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष:॥१२॥
यथा भूतं च भव्यं च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष:॥१३॥
(ढ्रति नवर्चोनाम षष्ठकाण्डे प्रथमो ऽनुवाकः)

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP