मधुमन्मे निक्रमणं मधुमन्मे परायणम्।
वाचा मधुमदुद्यासमक्ष्यौ मे मधुसन्दृशी ॥१॥
मामनु प्रसारयन्मम पत्तो निपेदिवान् ।
अथो मे पुनरायतो अक्ष्यौ कामेन शुष्यताम् ॥२॥
वशा मधुघ ते मातोक्षा भ्रातर्षभः पिता ।
धेन्वा अधि प्रजातो ऽसि राजा सन्मधुमत्तमः ॥३॥
वृषाणं वृष्ण्यावन्तं सोमपृष्ठं दिवि श्रितम् ।
इन्द्राण्यग्र आभरन् मधुघ भगाय कम् ॥४॥
पितुभोजनो मधुघः शौष्कास्यो हृदयाय कम् ।
स मा मधुनानक्तु यथाहं कामये तथा ॥५॥
सिन्धुप्रजानो मधुघो अश्व इव नीयते जनाङ् अनु ।
स मा मधुनानक्तु यथाहं कामये तथा ॥६॥
मधुमती सिनीवाली मधुना मा समुक्षतु ।
सा मा मधुनानक्तु यथाहं कामये तथा ॥७॥
यथा मधु मधुकृतो न्यञ्जन्ति मधावधि ।
एवा न्यनज्मि ते मनो अध्यस्यां मामकी तनू ॥८॥
यते मन: परागतं यद् बद्धमिह वेह वा । वद्ध
तत्त आ वर्तयामसि मयि बध्नामि ते मनः ॥९॥


कश्यपश्च सुपर्णश्च यन् मरीच्यामतिष्ठताम् ।
सुपर्ण: पर्यवापश्यत्समुद्रे भूमिमावृताम् ॥१॥
यां सुपर्णः पर्यपश्यदन्तर्महत्यर्णवे ।
तां सूकर त्वं मायया त्रि: समुद्रादुदाभर: ॥२॥
यं समुद्रादुदभरो भूमिं सूकर मायया ।
सैषा विषस्य दूषण्यस्मै भवतु भेषजी ॥३॥
अच्युता हिरण्येन या सत्ये अधितिष्ठति ।
तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ॥४॥
यस्या: कुलायं सलिले अन्तर्महत्यर्णवे ।
तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ॥५॥
यस्या भूम्या उपजीका गृहं कृण्वत आत्मने ।
तस्यास्ते विश्वधायसो विषदूषणमुद्धरे ॥६॥
यस्त्वा भूमे ऽन्वविन्दद्यस्त्वा भूम उदाभरत् ।
तयोः सहस्रधामन्नहं नामानि जग्रभ ॥७॥
यानि त इन्द्रो अकृणोद्भूमे नामानि वृत्रहा ।
तानि ते बभ्रो: सं विद्म सेहैधि विषदूषणी ॥८॥वभ्रोः
यानि ते मरुतश्चक्रुर्यानि सप्तर्षयो विदुः ।
विश्व आदित्या यां विदुः सा भूमिर्विषदूषणी ॥९॥


सहस्व यातुधानान् सहस्व यातुधान्य: ।
सहस्व सर्वा रक्षांसि सहमानास्योषधे ॥१॥
सहमाने सहस्वति सहन्त्यहमुत्तरे ।
उताहमस्मि सासहि: सासहे व: सदान्वा: ॥२॥
या सहमाना चरसि सासहान इवर्षभः ।
सदान्वाघ्नी रक्षोघ्नी सा त्वमुग्रास्योषधे ॥३॥
खेले है लम्बनस्तनि नश्येत: प्रामुत: पत ।
म्वनन त्वामविव्यचदिहोक्षेव शृङ्गवच्छिरः ॥४॥
असुवाने बहुपुत्रे अनन्तर्वे महोदरि ।
वहुपथास्मत्सत्वरे त्वं शर्करा वस्पती चर ॥५॥
ये ऽरायाश्चरथ पाकस्येछन्त आसुतिम् ।
तानग्ने कृष्णवर्तने तीक्ष्णशृङ्गोदृशन्निहि ॥६॥
अदो यद् दारु प्लवते सिन्धोर्मध्ये अपूरुषम् ।
तदा रभस्व दुर्हणो तेन याहि परस्तरम् ॥७॥
यस्या जनित्रमिष्टर्गा अदृष्टाः क्रिमयः प्लुषयः ।
तस्यै बलासपत्न्यै नमस्कृणोमि कुष्ठ्यै ॥८॥
शर्वपुत्रे भवपत्नि यातुभ्रात्रि सदान्वे।
तस्याद्धि पुत्रान् भ्रातॄंश्च यत्र त्वापनयामसि ॥९॥


वृषायमंशुर्वृषभाय गृह्यते वृषायमुग्रो नृचक्षसे ।
दिव्यो नर्यो ऽचिक्रदन्महन्नामर्षभस्य यत्ककुत् ॥१॥
विषुवान्विष्णो भव त्वं यो नृपतिर्मम ।
अथो इन्द्र इव देवेभ्यो वि ब्रवीतु जनेभ्य: ॥२॥
मनुष्येभ्यो वि ब्रवीतु सजूरिन्द्रेण मेदिना ।
अग्निश्च तुभ्यं साहन्त्यो राष्ट्रं वैश्वानरो दधत् ॥३॥
यस्यायं भागर्षभ इन्द्राय परिणीयते ।
स हन्तु शत्रूनायतो अथो हन्तु परायतः ॥४॥
स हन्ता शत्रोर्भवतु हन्ता भवतु दोधताम् ।
विशामह प्रणीरयदग्रमुद्भिन्दतामसत् ॥५॥
आयुष्मन्तं वर्चस्वन्तमथो अधिपतिं विशाम् ।
अस्याः पृथिव्याश्चेत्तारमिममिन्द्रर्षभं कृणु ॥६॥
यः सुशृङ्गः सुककुदुः कल्याणो बर्हिरासदत्। वर्हि
कार्षीवणप्रजानेनर्षभेण यजामहे ॥७॥
ऋषभेण यजमाना अक्रूरेणेव सर्पिषा।
मृधश्च सर्वा इन्द्रेण पृतनाश्च सहामहे ॥८॥
यं तुभ्यं भागमृषभं देवा: केवल्यं ददुः ।
तेन वृत्राणि जङ्घनः शत्रूंश्च जह्याहवे ॥९॥
जहि शत्रून्वि मृधो नुदस्व कृष्याः संभूतो असि वीर्यावान् ।
इन्द्राय भागं परि त्वा नयाम उरुर्नो लोको अपृतन्यो अस्तु ॥१०॥
घृतवृद्ध घृताहुत सहस्रशृङ्ग सुष्टुत ।
घृताहवन दीदिहि ॥११॥
यो घृतेनाभिघारित उग्रो जैत्राय तिष्ठसि ।
स नः सङ्कासु पारय पृतनासाह्येषु च ॥१२॥

१०
कर्की सुभागर्षभस्य पत्नी प्रजाकामा वशिनी वाशिता गौः ।
तां सहस्रमेकमुखा ददाति गर्भं दधानामृतुना चरन्तीम् ॥१॥
गर्भं दधाना पय इद्दुहाना अग्निहोत्रं वैश्वदेवी दुहाना ।
गौर्णो मा हिंसीद्वरुणस्य पत्नी ॥२॥
कर्क्या योनिं संमनसो ऽभि गाव: प्रजां धित्सन्तो वृषणश्चरन्ति।
सा न ऐत्वदितिर्विश्वरूपाभि क्रन्दन्ति भुवनान्येनाम् ॥३॥
प्रजापतिनेषितामृत्वियावतीमैनां प्रजाया ऋषभाः श्रयन्ते ।
वृषण्यन्तीं वृषण: सप्तनाम्नीं हिंकृण्वन्तो अभि नुदन्तु वाशिताम् ॥४॥
सा प्रत्यदशर्युषसा सुवर्णा शुक्रां वसाना वरुणस्य निर्णिजम्।
वैश्वदेवी स्वधामाभरन्ती प्रजां दाता पुष्यतु गोपतिष्टे ॥५॥
स्वयंस्थावर्यृषभाय तिष्ठसि प्रतीची सोमं प्रति सूर्यमग्निम् ।
अहिंसन्ती वाशिते मामुपेहि पशून्दाता पुष्यतु गोपतिष्टे ॥६॥
वशी दाता भवतु वाशिताया अग्नेर्भागमुस्त्रियां यो ददाति ।
प्रियं धाम हृदयं सोम्यं मधु वाजिनीं त्वा वाजिनो वाजयन्तु ॥७॥
यो वाशितायां गव्यन्तरग्निर्यदस्यां नृम्णं महिमा बभूव ।
नमस्तस्मै प्रतिगृह्णन् कृणोमि स्योना मे अस्तु तन्वे सुशेवा ॥८॥
एयमगन्वाशिता तां प्रतीम: पुंसां व्रातेन सह पुष्ट्या गौ: ।
ऊर्जं दधाना घृतमिद्दुहाना सहस्रपोषाय मे अस्तु दात्रे ॥९॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP