सप्तमकाण्डः - ११ ते १५
पैप्पलादसंहिता
११
ये स्थास्यां प्राच्यां दिशि हेतयो नाम देवास्तेषां वो अग्निरिषव:।
ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा ॥१॥
ये स्थास्यां दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां व आप इषवः ।
ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा ॥२॥
ये स्थास्यां प्रतीच्यां दिशि विराजो नाम देवास्तेषां वः काम इषवः ।
ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्य: स्वाहा ॥३॥
ये स्थास्यामुदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः ।
ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा ॥४॥
ये स्थास्यां ध्रुवायां दिशि विलिम्पा नाम देवास्तेषां वो ऽन्नमिषव:।
ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्य: स्वाहा ॥५॥
ये स्थास्यामूर्ध्वायां दिश्यविष्यन्तो नाम देवास्तेषां वो वर्षमिषवः ।
ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा ॥६॥
१२
यो अप्स्वन्तर्यो वृत्रे अन्तर्यः पुरुषे यो अश्मनि ।
य आविवेशौषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥१॥
य: सोमे अन्तर्य उ गोष्वन्तर्य आविष्टो वयसि यो मृगेषु ।
य आविवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥२॥
य इन्द्रेण सरथं संबभूव वैश्वानर उत विश्वदाव्य: !
यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥३॥
यो देवो विश्वाद् यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः ।
यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥४॥
यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः
वर्चोधसे यशसे सूनुतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥५॥
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
वैश्वानरस्य ज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥६॥
दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति ।
ये दिक्ष्वन्तर्य उ वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥७॥
बृहस्पतिं वरुणं मित्रमग्निं हिरण्यपाणिं सवितारमिन्द्रम् ।
विश्वान् देवानङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम् ॥८॥
शान्तो अग्निः क्रव्यादथो पुरुषरेषण: ।
अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम् ॥९॥
१३
आायमगन् पर्णमणिर्बली बलेन प्रमृणं सपत्नान् ॥
ओजो देवानां पय ओषधीनां मयि राष्ट्रं जिन्वत्वप्रयुच्छन् ॥१॥
मयि राष्ट्रं पर्णमणे मयि धारया श्रियम् ।
अहं राष्ट्रस्याभीवर्गे युजा भूयासमुत्तरः ॥२॥
यं निदधुर्वनस्पतौ वाजं देवा: प्रियं निधिम् ।
तं म इन्द्र: सहायुषा मणिं दधातु भर्तवे ॥३॥
सोमस्य पर्णः सह उग्रमागन्निन्द्रेण दत्तो वरुणेन सख्या ।
तमहं बिभर्मि बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥
आा मा रुक्षत् पर्णमणिर्मह्या अरिष्टतातये ।
यथाहमुत्तरोसानि मानुष्या अधि सम्पदः ॥५॥
पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च ।
पुनरग्नयो धिष्ण्यासो यथास्थाम कल्पयन्तामिहैव ॥६॥
ये तक्षाणो रथकारा: कर्मारा ये मनीषिणः ।
सर्वांस्तान् पर्ण रन्धयोपस्तिं कृणु मे जनम् ॥७॥
उपस्तिरस्तु वैश्य उत शूद्र उतार्यः ।
सर्वांस्तान् पर्ण रन्धयोपस्तिं कृणु मे जनम् ॥८॥
१४
येन वेहद् बभूविथ नाशयामसि तद् वयम्।
इदं तदन्यत्र त्वदप दूरे नि दध्मसि ॥१॥
आ ते गर्भो योनिमेतु पुमान् वाण इवेषुधिम् ।
आ वीरो ऽत्र जायतां पुत्रस्ते दशमास्यः ॥२॥
पुमांसं पुत्रं जनय तं पुमाननु जायताम् ।
भवासि पुत्राणां माता जातानां जनयासि च ॥३॥
यानि भद्राणि बीजान्यृषभा जनयन्ति ।
तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धनुका भव ॥४॥
कृणोमि ते प्राजापत्यमा गर्भो योनिमेतु ते ।
विन्दस्व पुत्र नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भवा ॥५॥
यासां पिता पर्जन्यो भूमिर्माता बभूव ।
तास्त्वा पुत्रविद्याय देवीः प्रावन्त्वोषधीः ॥६॥
यस्ते योनिमुदिङ्गयादृषभो रेतसा सह ।
स त आ सिञ्चतु प्रजां दीर्घायुं शतशारदाम् ॥७॥
१५
यां त्वा वातोवरयदार्द्रनाभा महर्षभः ।
तस्यास्ते विश्वधायसो विषदूषणमुद्धरे ॥१॥
यां त्वा वराहो अखनदेकस्मिन्नधि पुष्करे ।
तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ॥२॥
यां त्वादितिरवपद बीजवापमधि पुष्करे ।
तस्यास्ते विश्वधायसो विषदूषणमुद्धरे ॥३॥
यस्याः कुलायं सलिले अन्तर्महत्यर्णवे ।
तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ॥४॥
उत्ते भर उत्तमाया अधमायास्त उद्धरे ।
उन् मध्यमान्मध्यमे तद्विषदूषणमुद्भरे ॥५॥
अग्रभं समग्रभमुभावन्तौ समग्रभम् ।
दिवश्च पृथिव्याश्च विषदूषणमुद्भरे ॥६॥
(इति षडृचोनामतृतीयाकण्डे तृतीयोऽनुवाक:)
N/A
References : N/A
Last Updated : May 12, 2021
TOP