सप्तमकाण्डः - ३१ ते ३५
पैप्पलादसंहिता
३१
देवा मरुतः पृश्निमातरो ऽपो दत्तोदधिं भिन्त ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥१॥
देवा अग्न इन्द्र सूर्यापो दत्तोदधिं भिन्त ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥२॥
देवा: सयुजो मित्र वरुणार्यमन्नपो दत्तोदधिं भिन्त ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥३॥
देवा: पितरो ऽवमा आयवः क्राव्य अपो दत्तोदधिं भिन्त ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥४॥
देवाप्सुषदो ऽपां नपात्तनूनपान्नराशंसापो दत्तोदधिं भिन्त ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥५॥
देव बृहस्पते ऽपो धेह्युदधिं भिन्धि ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥६॥
देव प्रजापते ऽपो धेह्युदधिं भिन्धि ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ॥७॥
देव परमेष्ठिन्नपो धेह्युद्युदधिं भिन्धि ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्यः प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा ॥८॥
३२
प्रजापतेर्जायमानाः प्रजा जाताश्च या इमाः ।
ता अस्मै प्रति वेदय चिकित्वाङ् अनु मन्यताम् ॥१॥
येषामीशे पशुपतिः पशूनां चतुष्पदामुत वा ये द्विपाद: ।
निष्क्रीतास्ते यज्ञिया यन्ति लोकं रायस्पोषाय यजमानं सचन्ताम् ॥२॥
प्रमुञ्चन्तो भुवनस्य गोपा गातुं देवा यजमानाय धत्त ।
उपाकृतं शशमानं यदस्थात् प्रियं देवानामप्येतु पाथः ॥३॥
ये बध्यमानमनु दीध्यानां अन्वैक्षन्त मनसा चक्षुषा च ।
अग्निष्टानग्रे प्र मुमुक्त देवः प्रजापति: प्रजया संविदानः ॥४॥
येषां प्राणा अन्वबध्नन्त बद्धं गवां पशूनामुत पूरुषाणाम् ।
इन्द्रस्तानग्रे प्र मुमुक्त देवः प्रजापतिः प्रजया संविदानः ॥५॥
य आरण्याः पशवो विश्वरूपा ये विश्वरूपा उतैकरूपाः ।
वायुष्टानग्रे प्र मुमुक्त देव: प्रजापति: प्रजया संविदान: ॥६॥
प्रजानन्त: प्रति गृह्णन्तु देवाः प्राणमङ्गेभ्यस्पर्याचरन्तम् ।
द्यां गच्छ प्रति तिष्ठा: शरीरै: स्वर्गं याहि पथिभि: शिवेभि: ॥७॥
३३
समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सर ऋषयो यानि सत्या ।
सं द्युम्नेन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्त्र: ॥१॥
सं चेध्यस्वाग्ने प्र च बोधयैनमुच्च तिष्ठ महते सौभगाय ।
मा ते रिषन्नुपसत्तारो अत्र ब्राह्मणास्ते यशसः सन्तु मान्ये ॥२॥
त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने प्रतरणो न एधि ।
सपत्नहाग्ने अभिमातिजिद् भव स्वे क्षये दीदिह्यप्रयुच्छन् ॥३॥
इहैवाग्ने अधि धारया रयिं मा त्वा दभन् पूर्वचित्ता निकारिणः ।
पुर्वक्षत्रमग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्ट्टत: ॥४॥ पा. अनिष्कृतः
क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधेयं यतस्व ।
सजातानां मध्यमेष्ठेयमस्या राज्ञामग्ने विहव्यो दीदिहीह ॥५॥
अति निहो अति निर्ऋतीरत्यरातीरति द्विष: ।
विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दा: ॥६॥
अनाधृष्यो जातवेदा अनिष्ट्टतो विराडग्ने क्षत्रभिर्दीदिहीह ।
व्यमीवाः प्रमुञ्चन्मानुषेभ्यः शिवेभिरद्य परि पाहि नो गयै: ॥७॥
३४
अयं ते योनिर्ऋत्वियो यतो जातो अरोचथा: ।
तं जानन्नग्न आ रोहाथा नो वर्धया रयिम् ॥१॥
प्रदातारं हवामहे अग्निमुग्रमूतये ।
शुचिर्यो वृत्रहन्तमः ॥२॥
अग्ने अच्छा वदेह न: प्रत्यङ् नः सुमना भव ।
प्र णो यच्छ विशां पते धनदा असि नस्त्वम् ॥३॥
प्र णो यच्छत्वर्यमा प्र भग: प्र बृहस्पति: ।
प्र पूषा प्रोत सूनृता रयिं देवी दधातु न: ॥४॥
अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय ।
वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥५॥
सोमं राजानमवसे ऽग्निं गीर्भिहवामहे ।
आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥६॥
इन्द्रवायू बृहस्पति: सुहवेह हवामहे ।
यथा न: सर्वमिज्जगत् सङ्गत्यां सुमना असत् ॥७॥
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
त्वं नो देव दातवे रयिं दानाय चोदय ॥८॥
वाजस्येदं प्रसवे सं बभूव मेमा च विश्वा भुवनान्यन्तः ।
उतादित्सन्तं दापयति प्रजानन् रयिं च नः सर्ववीरं नि यच्छात् ॥९॥
दुह्रां मे पञ्च प्रदिशो दुह्रामुर्वीर्यथाबलम् ।
प्रापेयं सर्वामाकूतिं मनसा हदयेन च ॥१०॥
गोसनिं वाचमुदेयं वर्चसा माभ्यूर्णुहि ।
आा रुन्धां सर्वतो वायुस्त्वष्टा पोषाय ध्रियताम् ॥११॥
३५
यत इन्द्र भयामहे ततो नो अभयं कृधि ।
मघवञ्छग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥
इन्द्रं वयमनूराधं हवामहे ऽनु राध्यास्म द्विपदा चतुष्पदा।
मा नः सेना अररुषीरुप गुर्विषूचीरिन्द्र दुहो वि नाशय ॥२॥
इन्द्रस्त्रातोत वृत्रहा परस्पा नो वरेण्यः ।
स रक्षिता चरमतः स मध्यतः स पश्चात् स पुरस्तान्नो अस्तु ॥३॥
उरुं नो लोकमनु नेषि विद्वान् स्वर्यज्ज्योतिरभयं स्वस्ति।
उग्रा त इन्द्र स्थविरस्य बाहू उप क्षियेम शरणा बृहन्ता ॥४॥
अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे ।
अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥५॥
अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः॥
अभयं नक्तमभयं दिवा न: सर्वा आशा मम मित्रं भवन्तु ॥६॥
(इति षडृचोनामतृतीयकाण्डे सप्तमो ऽनुवाकः)
N/A
References : N/A
Last Updated : May 12, 2021
TOP