एकादशकाण्ड: - १ ते ५
पैप्पलादसंहिता
१
वृषा ते ऽहं वृषण्यन्त्यै गर्भं दधामि योन्याम् ।
यदि देवपरिष्ठिता प्रजां स्तोकं न विन्दसे ॥१॥
धाता ते तं सिनीवाली वरुणानी प्र यच्छतु ।
पुमांसं पुत्रमिन्द्राणी शतदायं दधातु ते ॥२॥
संवृतस्ते वक्षणासु गर्भः पुंसा पुमान् कृतः ।
सर्वाङ्गस्तन्वोर्जायतामग्निरिवारण्यरधि ॥३॥
धत्स्व वीरं कर्मण्यं प्रस्वं त्वावधिमवशां कृणोमि ।
आत्मनस्ते लोहिताद्भर्भः सं वर्ततां वृषा ॥४॥
त्वष्टां पिंशतु ते प्रजां धाता तोकं दधातु ते ।
राका सीव्यतु सूच्या भूतस्येशाना भुवनस्य देवी ॥५॥
सिनीवालीमनुमतिं राकां गुङ्गुं सरस्वतीम्।
देवानां पत्नीर्या देवीरिन्द्राणीमवसे हुवे ॥६॥
अभिन्नाण्डा वृद्धगर्भारिष्टा वीरसूरियम् ।
वि जायतां प्र जायतां बह्वी भवतु पुत्रिणी ॥७॥
परि सृज गर्भं धेहि माशा: प्र च्योष्ट लोहितम् ।
अनूनः पूर्णो जायतामश्रामोरन्वो अपिशाचधीतः ॥८॥
त्वं दधासि द्विपदे चतुष्पदे गर्भं प्रजामेजते विश्वरूपाम् ।
कनिक्रदद् वृषभो वीडुशेपाः प्रजापते तन्वां धेहि गर्भम् ॥९॥
अभिक्रन्दं स्तनयन् धेहि गर्भं विद्योतमानः पवमानो वीरुद्भि:।
पर्यन्येमां पृथिवी रेतसावतापां रसैरोषधीनां पशूनाम् ॥१०॥
आा ते नयामि वृषणं यः प्रजानां प्रजापति: ।
स ते दथात्वृत्वियं गर्भं योन्यां विजां प्रजाम् ॥११॥
ये वृषाणो गर्भकृत ऋत्वियानां समेनस: ।
तांस्ते ह्वयामि तदु ते समृध्यताम् ॥१२॥
अग्नेष्टे त्वष्टुर्वरुणादिन्द्रात् सोमाद् बृहस्पतेः ।
पुत्रं ते पुत्रकामायै देवेभ्यो निर्ममे प्रजाम् ॥१३॥
अङ्गादङ्गात्सं स्रवतु तद् योनौ प्रति तिष्ठतु ।
प्रजा ते वक्षणाशया तत्ते बीजं वि रोहतु ॥१४॥
२
अत्ससो यमनंससोऽभूतिर्यक्ष्ममजीजनत् ।
इमं सहस्रभागिन्द्रो विशरं नाशयाति ते ॥१॥
यः कार्यो यश्च कृत: स्वयंजा उत हार्यः ।
देवा इन्द्रज्येष्ठा विशरं नाशयन्तु ते ॥२॥नास
विशरस्य विजृम्भस्येषुर्माता धनुष्पिता ।
अदित्याः पुत्रा आदित्या विशरं नाशयन्तु ते ॥३॥
धन्वनो ज्याया इष्वा अपस्कम्भस्य बाह्वोः ।
अपाष्ठाच्छृङ्गात् कुर्मलाद्विशरं नाशयामि ते ॥४॥
अलवती रुरुशीर्ष्ण्यथो यस्यायो मुखम् ।
देव्यै पर्जन्यरेतस इषवे कृणुता नमः ॥५॥
यामत्रयो अङ्गिरसो गोतमा वीरुधं विदुः ।
तया भरद्वाज: कण्वो विशरं नाशयाति ते ॥६॥
यस्त्वा स्त्रैणादपसरो यः पुंसो अध्यारुहत् ।
आक्लान्तं संक्लान्तं स्नाव तदु ते कल्पयामसि ॥७॥
वात इवाभ्रं च्यावयामि यक्ष्मं ते तन्वस्परि ।
वाचा यच्चक्रुस्ते गुरु तदृचा लघु कृण्मसि ।
तेनाहमृतोद्येन विशरं नाशयामि ते ॥८॥
यथा न सत्यं पुरुष: सदा वदितुमर्हति ।
विष्कन्धं त्वदपशरं विशरं पृष्ट्यामयम् ।
जम्भं हनुग्राभं शङ्खं तानजेना अजामसि ॥९॥
शुनमिद्व ओषधयो वि दधे भेषजाय कम् ।
धनायुवः सनायुव: पुरुषं पारयिष्णव: ॥१०॥
आत्मत्राणि देवजुता वीरुधायुष्या कृता ।
तयाहमिन्द्रदत्तया विशरं नाशयामि ते ॥११॥
अलस्य व्यञ्जनस्य वेष्टनस्योत पर्णधे ।
ग्रन्थेज्याया इष्वा विशरं नाशयामि ते ॥१२॥
साकं विष्कन्ध प्र पत चाषेण किकिदीव्या ।
साकं वातस्य ध्राज्या सह नश्य निहाकया ॥१३॥
३
जङ्गिडो ऽसि जङ्गिडो रक्षितासि जङ्गिडः ।
द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिडः ॥१॥
या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये ।
सर्वान् विनक्ततेजसोऽरसान् जङ्गिडस्करत् ॥२॥
अरसं कृत्रिमं नाडमरसा: सप्त विस्रस: ।
अपेतो जङ्गिडामतिमिषुमस्तेव साधय ॥३॥
कृत्यादूषण एवायमथो अरातिदूषणः ।
अथो सहस्वां जङ्गिड: प्र ण आयूंषि तारिषत् ॥४॥
स जङ्गिडस्य महिमा परि णः पातु विश्वतः ।
विष्कन्धं येन सासाह संस्कन्धमोज ओजसा ॥५॥
तृष्ट्वा देवा अजनयन्निष्ठितं भूम्यामधि ।
तमु त्वाङ्गिरा इति ब्रह्माण: पूर्व्या विदुः ॥६॥
न त्वा पूर्वा ओषधयो न त्वा तरन्तु या नवाः ।
विबाध उग्रो जङ्गिड: परिपाण: सुमङ्गलः ॥७॥
अश्वोपदान भगवो जङ्गिडामितवीर्य ।
पुरा त उग्राय सत उपेन्द्रो वीर्यं ददौ ॥८॥
उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ ।
अमीवाः सर्वाश्चातयञ्जहि रक्षांस्योषधे ॥९॥
आशरीकं विशरीकं बलासं पृष्ट्यामयम् ।
तक्मानं विश्वशारदमरसं जङ्गिडस्करत् ॥१०॥
४
इन्द्रस्य नाम गृह्णन्त ऋषया जङ्गिडं ददुः ।
देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ॥१॥
स न रक्षतु जङ्गिडो धनपालो धनेव ।
देवा यं चक्रुर्ब्राह्मणाः परिपाणमराहितम् ॥२॥
दुर्हार्दसं घोरचक्षुं पापकृत्वानमागतम् ।
तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय
परिपाणोऽसि जङ्गिडः ॥३॥
परि मा दिवः परि मा पृथिव्याः
पर्यन्तरिक्षात् परि मा वीरुद्भ्यः।
परि. मा भूतात् परि मोत भव्याद्
दिशोदिशो जङ्गिडः पात्वस्मान् ॥४॥
य ऋष्णवो देवकृता य उचोबभृतेन्याः ।
सर्वांस्तान्विश्वभेषजो अरसान् जङ्गिडस्करत् ॥५॥
५
प्रति गृहाण पृथिवीनीतमेदतदाज्यस्य मथितं शरीरम् ।
इमां धेनुमस्य दातुस्त्वं रक्ष बर्हिष्या यथासत् ॥१॥
उत त्वाहुर्वरुणस्य पत्नीमथो त्वाहुरदितिं विश्वरूपाम् ।
अधिजरायुमाघारे हव्यवाहमग्नावस्या महिमानं जुहोमि ॥२॥
स साहस्रं तन्तुमन्वा ततान सो अग्निष्टोमां दशतं समाप ।
अधिजरायुं सवत्सां यो ददाति तं वै देवाः स्वरा रोहयन्ति ॥३॥
अधिजरायुः स्वरा रोहयन्त्यनेन दत्ता सुदुघा वयोधाः ।
सास्मै दुहां शतधारमक्षितं यमस्य लोके परमे व्योमन् ॥४॥
पूर्ववत्सेन सह वत्सिनी गौर्योऽस्या वत्सो अपरो जरायु तत् ।
तृतीयं मांसं परिनिर्मितं यत्तस्माद्देवा अधिजरायुमाहुः ॥५॥
आा धावय शवसा वावृधानोत्तराव श्रव आ धेह्यस्मै ।
इममिन्द्र महतामेन रक्ष सं प्रजया तन्वा सं बलेन ॥६॥
दुर्वेदावस्ताद् बहुधा परस्ताद् विश्वे देवाः प्रति पश्यन्त्वायतीम् ।
या भद्रा या सर्वत: समीची सेदाहुतिर्भवतु मेतराज्या ॥७॥
गृष्टिं धेनुमधिजरायुं स्वधां कृण्वानः प्र ददाति ब्रह्मणे ।
सास्मै दुहां शतधारमक्षितममुष्मिल् लोके युग उत्तरस्मिन् ॥८॥
वत्सं जरायु प्रतिधुक् पीयूषं यो नो ददाति सुदुघामधेनुम् ।
तस्य देवा: प्र तिरन्त्वायुः स आ रोहतु सुकृतामु लोकम् ॥९॥
परिवालामधिजरायुं युधाजीवो अददादग्र एताम् ।
स्योना न: शग्मा शिवा विशेह मानो हिंसीर्हरसा दैव्येन ॥१०॥
भद्रकृतं सुकृतमादु शंभुवमारंभुवं प्रति गृह्णाम्यायतीम् ।
घृतश्रियं नभसी संवसानां देवान् मनुष्याङ असुरानुतर्षीन् ॥११॥
पञ्च देवाः प्र पिबन्त एतामिन्द्रस्त्वष्टा वरुणो मित्रो अग्नि: ।
ते सर्वे समदुर्मह्यमेतां तयेह जीवन् प्र तिरस्वायुः ॥१२॥
कश्यपो ऽयं जमदग्निर्वसिष्ठ ऋषयो नः ससनुरग्र एताम् ।
भरद्वाजो गोतमो अत्रिर्नः स्योनां विश्वामित्रो ददुषः प्र तिरात्यायु ॥१३॥
ऊर्ज देवेभ्यः सुभग ऊर्जं मनुषेभ्यः ।
ऊर्ज पितृभ्यो अघ्न्य ऊर्जा ददतमा विश ॥१४॥
N/A
References : N/A
Last Updated : May 12, 2021
TOP