या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा ।
मन्ये नु बभ्रूणामहं शतं धामानि सप्त च ॥१॥
शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।
अधा शतकृत्वो यूयमिमं मे अगदं कृत ॥२॥
पुष्पवतीः प्रसूमतीः फलिनीरफला उत ।
अश्वा इव स्थ जित्वरीर्वीरुधः पारयिष्णवः ॥३॥
ओषधीरिति मातरो यद्वो देवीरपब्रुवे ।
रपांसि विघ्नतीरित रक्षश्चातयमानाः ॥४॥
निष्कृतिर्नाम वो माता निष्कृतिर्नाम वः पिता ।
सरा: पतत्रिणी स्थ यदामयति निष्कृतः ॥५॥
अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
गोभाज इत् किलासथं यत्सनवथ पूरुषम् ॥६॥
यदहं वाजयन्निमा ओषधीर्हस्त आदधे ।
आत्मा यक्ष्मस्य नश्यतु पुरा जीवगृभो यथा ॥७॥
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।
धनं सनिष्यन्तीनामात्मानं तव पूरुषः ॥८॥
यदोषधय: समग्वत राजान: समिताविव ।
विप्र स: उच्यते भिषग् रक्षोहामीवचातनः ॥९॥
अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् ।
आवित्सि सर्वा ओषधीरितो मा पारयानिति ॥१०॥


अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमीत् ।
ओषधयः प्राचुच्यवुर्यत् किं च तन्वो रपः ॥१॥
यस्यौषधयः प्रसर्पथाङ्गमङ्ग परुष्परुः ॥परष्परुः
तस्माद्यक्ष्मं वि बाधध्वमुग्रो मध्यमशीरिव ॥२॥
अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।
ओषधय: संविदाना इदं मे प्रावता वच: ॥३॥बचः
अवपतन्तीरपदं दिव ओषधयस्परि ।
यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥४॥
या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥५॥
याः फलिनीर्या अफला अकोशा याश्च केशिनीः।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥६॥
जीवलां नघारिषामा ते बध्नाम्योषधिम्।
या त आयुरुपाहरादप रक्षांसि चातयात् ॥७॥


कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेता: ।
तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥१॥
सप्त चक्रान्वहति कालो एष सप्तास्य नाभीरमृतं न्वक्षः ।
स इमा विश्वा भुवनान्यञ्जन् कालः स ईयते प्रथमो नु देवः ॥२॥
पूर्णः कुम्भो अधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।
स इमा विश्वा भुवनानि प्रत्यङ् कालं तमाहुः परमे व्योमन् ॥३॥
स एव सन्भुवनान्याभरत् स एव सन् भुवनानि पर्यैत् ।
पिता सन्नभवत् पुत्र एषां तस्माद्वै नान्यत् परमस्ति तेजः ॥४॥
कालो ऽमूं दिवमजनयत् काल इमां पृथिवीमुत ।
कालेन भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥
कालो भूतिमसृजत् काले तपति सूर्यः ।
कालो ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥६॥
काले मनः काले प्राणः काले नाम समाहितम्।
कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥७॥
काले तप: काले ज्येष्ठं काले ब्रह्म समाहितम्।
कालो ह सर्वस्येश्वरो यः पितासीत् प्रजापतेः ॥८॥
तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् ।
कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥
काल: प्रजामसृजत कालो अग्रे प्रजापतिम् ।
स्वयम्भूः कश्यपः कालात्तपः कालादजायत ॥१०॥


कालादापः समभवन् कालाद् ब्रह्म तपो दिशः ।
कालेनोदेति सूर्य: काले नि विशते पुन: ॥१॥
कालेन वात: पवते कालेन पृथिवी मही
द्यौर्मही काल आहिता ।
कालो ह भूतं भव्यं च पुत्रो अजनयत् पुरः ॥२॥
कालादृचः समभवन् यजुष्कालादजायत ।
कालो यज्ञं समैरयद् देवेभ्यो भागमक्षितम् ॥३॥
काले गन्धर्वाप्सरस: काले लोकाः समाहिता: ।
काले ऽयमङ्गिरा देवो अथर्वा चाधि तिष्ठतः ॥४॥
इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्या: ।
सर्वाल्लोकानभिजित्य ब्रह्मणा काल: स ईयते परमो नु देवः ॥५॥

१०
सप्तैतं सप्तऋषयः शल्यकर्ता द्वादश ।
आविद्धं शल्यं चाक्रतुरिन्द्रराशिं महोदरम् ॥१॥
इन्द्रराशिं मित्रावरुणावाविद्धं निरकृन्ततम् ।
प्रसूतमिन्द्रेणोग्रेणो ब्राह्मणानामसत् पितुः ॥२॥
नैनमश्नीयादब्राह्मणो न गृहान् प्र हरेत् स्वान् ।
तृष्टं विषमिव तैमातमिन्द्रराशिः खले शये ॥३॥
अयं शये तन्वं रक्षमाणे यो अश्नात्यविचक्षाण एतम् ।
मध्ये खलस्य निर्मित इन्द्रराशिर्महोदरः ॥४॥
उतैष यक्ष्मं भवतीन्द्रराशिर्महोदर: ।
भीमो अन्नस्य संकाशे अश्व इवात्ति सिनी नडम् ॥५॥
य इन्द्रराशिं निर्वपाद्वर्धयात् खलमान्याः ।
स्फातिं च खल्यां गृह्णातु गवां च बहु पुष्यतु ॥६॥
यमुवाह शुनःशेपो यमिन्द्रो ब्रह्मणस्पतिः ।
तं चक्रुः शिवमस्मभ्यमृषयो जीवनाय कम् ॥७॥
तृढ़ं शाकं तमशयद् दत्तमासीच्छ्वापदम्॥
पन्द्रा स्म रुप्यन्तः शेरे य आदन्वहुतं हविः ॥८॥
अनडुहां पृश्निशफानां वहतां वहरापिणाम् ।
कीनाशस्य श्रमात् स्वेदादिन्द्रशिरजायत ॥९॥
यत् कीनाशस्य स्वेद एति संतप्तस्तन्वस्परि ।
अपां गाव इव तृष्यन्तीरिन्द्रराशिं सो अश्नुते ॥१०॥

N/A

References : N/A
Last Updated : May 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP